🪷 Ṛgveda 5.18

Pañcama-Maṇḍala · Sūkta 18

५ द्वितो मृक्तवाहा आत्रेयः। अग्निः। अनुष्टुप्, ५ पंक्तिः। प्रा॒तर॒ग्निः पु॑रुप्रि॒यो वि॒शः स्त॑वे॒ताति॑थिः । विश्वा॑नि॒ यो अम॑र्त्यो ह॒व्या मर्ते॑षु॒ रण्य॑ति ॥१॥ द्वि॒ताय॑ मृ॒क्तवा॑हसे॒ स्वस्य॒ दक्ष॑स्य मं॒हना॑ । इन्दुं॒ स ध॑त्त आनु॒षक् स्तो॒ता चि॑त्ते अमर्त्य ॥२॥ तं वो॑ दी॒र्घायु॑शोचिषं गि॒रा हु॑वे म॒घोना॑म् । अरि॑ष्टो॒ येषां॒ रथो॒ व्य॑श्वदाव॒न्नीय॑ते ॥३॥ चि॒त्रा वा॒ येषु॒ दीधि॑तिरा॒सन्नु॒क्था पान्ति॒ ये । स्ती॒र्णं ब॒र्हिः स्व॑र्णरे॒ श्रवां॑सि दधिरे॒ परि॑ ॥४॥ ये मे॑ पञ्चा॒शतं॑ द॒दुरश्वा॑नां स॒धस्तु॑ति । द्यु॒मद॑ग्ने॒ महि॒ श्रवो॑ बृ॒हत् कृ॑धि म॒घोनां॑ नृ॒वद॑मृत नृ॒णाम् ॥५॥
— Ṛgveda Maṇḍala 5 · Sūkta 18 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷