🪷 Ṛgveda 4.46

Caturtha-Maṇḍala · Sūkta 46

७ वामदेवो गौतमः। इन्द्रवायू, १ वायुः। गायत्री। अग्रं॑ पिबा॒ मधू॑नां सु॒तं वा॑यो॒ दिवि॑ष्टिषु । त्वं हि पू॑र्व॒पा असि॑ ॥१॥ श॒तेना॑ नो अ॒भिष्टि॑भिर्नि॒युत्वाँ॒ इन्द्र॑सारथिः । वायो॑ सु॒तस्य॑ तृम्पतम् ॥२॥ आ वां॑ स॒हस्रं॒ हर॑य॒ इन्द्र॑वायू अ॒भि प्रय॑: । वह॑न्तु॒ सोम॑पीतये ॥३॥ रथं॒ हिर॑ण्यवन्धुर॒मिन्द्र॑वायू स्वध्व॒रम् । आ हि स्थाथो॑ दिवि॒स्पृश॑म् ॥४॥ रथे॑न पृथु॒पाज॑सा दा॒श्वांस॒मुप॑ गच्छतम् । इन्द्र॑वायू इ॒हा ग॑तम् ॥५॥ इन्द्र॑वायू अ॒यं सु॒तस्तं दे॒वेभि॑: स॒जोष॑सा । पिब॑तं दा॒शुषो॑ गृ॒हे ॥६॥ इ॒ह प्र॒याण॑मस्तु वा॒मिन्द्र॑वायू वि॒मोच॑नम् । इ॒ह वां॒ सोम॑पीतये ॥७॥
— Ṛgveda Maṇḍala 4 · Sūkta 46 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷