🪷 Ṛgveda 4.45

Caturtha-Maṇḍala · Sūkta 45

७ वामदेवो गौतमः। अश्विनौ। जगती, ७ त्रिष्टुप् । ए॒ष स्य भा॒नुरुदि॑यर्ति यु॒ज्यते॒ रथ॒: परि॑ज्मा दि॒वो अ॒स्य सान॑वि । पृ॒क्षासो॑ अस्मिन् मिथु॒ना अधि॒ त्रयो॒ दृति॑स्तु॒रीयो॒ मधु॑नो॒ वि र॑प्शते ॥१॥ उद् वां॑ पृ॒क्षासो॒ मधु॑मन्त ईरते॒ रथा॒ अश्वा॑स उ॒षसो॒ व्यु॑ष्टिषु । अ॒पो॒र्णु॒वन्त॒स्तम॒ आ परी॑वृतं॒ स्व१र्ण शु॒क्रं त॒न्वन्त॒ आ रज॑: ॥२॥ मध्व॑: पिबतं मधु॒पेभि॑रा॒सभि॑रु॒त प्रि॒यं मधु॑ने युञ्जाथां॒ रथ॑म् । आ व॑र्त॒निं मधु॑ना जिन्वथस्प॒थो दृतिं॑ वहेथे॒ मधु॑मन्तमश्विना ॥३॥ हं॒सासो॒ ये वां॒ मधु॑मन्तो अ॒स्रिधो॒ हिर॑ण्यपर्णा उ॒हुव॑ उष॒र्बुध॑: । उ॒द॒प्रुतो॑ म॒न्दिनो॑ मन्दिनि॒स्पृशो॒ मध्वो॒ न मक्ष॒: सव॑नानि गच्छथः ॥४॥ स्व॒ध्व॒रासो॒ मधु॑मन्तो अ॒ग्नय॑ उ॒स्रा ज॑रन्ते॒ प्रति॒ वस्तो॑र॒श्विना॑ । यन्नि॒क्तह॑स्तस्त॒रणि॑र्विचक्ष॒णः सोमं॑ सु॒षाव॒ मधु॑मन्त॒मद्रि॑भिः ॥५॥ आ॒के॒नि॒पासो॒ अह॑भि॒र्दवि॑ध्वत॒: स्व१र्ण शु॒क्रं त॒न्वन्त॒ आ रज॑: । सूर॑श्चि॒दश्वा॑न् युयुजा॒न ई॑यते॒ विश्वाँ॒ अनु॑ स्व॒धया॑ चेतथस्प॒थः ॥६॥ प्र वा॑मवोचमश्विना धियं॒धा रथ॒: स्वश्वो॑ अ॒जरो॒ यो अस्ति॑ । येन॑ स॒द्यः परि॒ रजां॑सि या॒थो ह॒विष्म॑न्तं त॒रणिं॑ भो॒जमच्छ॑ ॥७॥
— Ṛgveda Maṇḍala 4 · Sūkta 45 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷