🪷 Ṛgveda 4.35

Caturtha-Maṇḍala · Sūkta 35

९ वामदेवो गौतमः। ऋभवः। त्रिष्टुप्। इ॒होप॑ यात शवसो नपात॒: सौध॑न्वना ऋभवो॒ माप॑ भूत । अ॒स्मिन् हि व॒: सव॑ने रत्न॒धेयं॒ गम॒न्त्विन्द्र॒मनु॑ वो॒ मदा॑सः ॥१॥ आग॑न्नृभू॒णामि॒ह र॑त्न॒धेय॒मभू॒त् सोम॑स्य॒ सुषु॑तस्य पी॒तिः । सु॒कृ॒त्यया॒ यत् स्व॑प॒स्यया॑ चँ॒ एकं॑ विच॒क्र च॑म॒सं च॑तु॒र्धा ॥२॥ व्य॑कृणोत चम॒सं च॑तु॒र्धा सखे॒ वि शि॒क्षेत्य॑ब्रवीत । अथै॑त वाजा अ॒मृत॑स्य॒ पन्थां॑ ग॒णं दे॒वाना॑मृभवः सुहस्ताः ॥३॥ कि॒मय॑: स्विच्चम॒स ए॒ष आ॑स॒ यं काव्ये॑न च॒तुरो॑ विच॒क्र । अथा॑ सुनुध्वं॒ सव॑नं॒ मदा॑य पा॒त ऋ॑भवो॒ मधु॑नः सो॒म्यस्य॑ ॥४॥ शच्या॑कर्त पि॒तरा॒ युवा॑ना॒ शच्या॑कर्त चम॒सं दे॑व॒पान॑म् । शच्या॒ हरी॒ धनु॑तरावतष्टेन्द्र॒वाहा॑वृभवो वाजरत्नाः ॥५॥ यो व॑: सु॒नोत्य॑भिपि॒त्वे अह्नां॑ ती॒व्रं वा॑जास॒: सव॑नं॒ मदा॑य । तस्मै॑ र॒यिमृ॑भव॒: सर्व॑वीर॒मा त॑क्षत वृषणो मन्दसा॒नाः ॥६॥ प्रा॒तः सु॒तम॑पिबो हर्यश्व॒ माध्यं॑दिनं॒ सव॑नं॒ केव॑लं ते । समृ॒भुभि॑: पिबस्व रत्न॒धेभि॒: सखीँ॒र्याँ इ॑न्द्र चकृ॒षे सु॑कृ॒त्या ॥७॥ ये दे॒वासो॒ अभ॑वता सुकृ॒त्या श्ये॒ना इ॒वेदधि॑ दि॒वि नि॑षे॒द । ते रत्नं॑ धात शवसो नपात॒: सौध॑न्वना॒ अभ॑वता॒मृता॑सः ॥८॥ यत्तृ॒तीयं॒ सव॑नं रत्न॒धेय॒मकृ॑णुध्वं स्वप॒स्या सु॑हस्ताः । तदृ॑भव॒: परि॑षिक्तं व ए॒तत् सं मदे॑भिरिन्द्रि॒येभि॑: पिबध्वम् ॥९॥
— Ṛgveda Maṇḍala 4 · Sūkta 35 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷