🪷 Ṛgveda 4.34

Caturtha-Maṇḍala · Sūkta 34

११ वामदेवो गौतमः। ऋभवः। त्रिष्टुप्। ऋ॒भुर्विभ्वा॒ वाज॒ इन्द्रो॑ नो॒ अच्छे॒मं य॒ज्ञं र॑त्न॒धेयोप॑ यात । इ॒दा हि वो॑ धि॒षणा॑ दे॒व्यह्ना॒मधा॑त् पी॒तिं सं मदा॑ अग्मता वः ॥१॥ वि॒दा॒नासो॒ जन्म॑नो वाजरत्ना उ॒त ऋ॒तुभि॑र्ऋभवो मादयध्वम् । सं वो॒ मदा॒ अग्म॑त॒ सं पुरं॑धिः सु॒वीरा॑म॒स्मे र॒यिमेर॑यध्वम् ॥२॥ अ॒यं वो॑ य॒ज्ञ ऋ॑भवोऽकारि॒ यमा म॑नु॒ष्वत् प्र॒दिवो॑ दधि॒ध्वे । प्र वोऽच्छा॑ जुजुषा॒णासो॑ अस्थु॒रभू॑त॒ विश्वे॑ अग्रि॒योत वा॑जाः ॥३॥ अभू॑दु वो विध॒ते र॑त्न॒धेय॑मि॒दा न॑रो दा॒शुषे॒ मर्त्या॑य । पिब॑त वाजा ऋभवो द॒दे वो॒ महि॑ तृ॒तीयं॒ सव॑नं॒ मदा॑य ॥४॥ आ वा॑जा या॒तोप॑ न ऋभुक्षा म॒हो न॑रो॒ द्रवि॑णसो गृणा॒नाः । आ व॑: पी॒तयो॑ऽभिपि॒त्वे अह्ना॑मि॒मा अस्तं॑ नव॒स्व॑ इव ग्मन् ॥५॥ आ न॑पातः शवसो यात॒नोपे॒मं य॒ज्ञं नम॑सा हू॒यमा॑नाः । स॒जोष॑सः सूरयो॒ यस्य॑ च॒ स्थ मध्व॑: पात रत्न॒धा इन्द्र॑वन्तः ॥६॥ स॒जोषा॑ इन्द्र॒ वरु॑णेन॒ सोमं॑ स॒जोषा॑: पाहि गिर्वणो म॒रुद्भि॑: । अ॒ग्रे॒पाभि॑र्ऋतु॒पाभि॑: स॒जोषा॒ ग्नास्पत्नी॑भी रत्न॒धाभि॑: स॒जोषा॑: ॥७॥ स॒जोष॑स आदि॒त्यैर्मा॑दयध्वं स॒जोष॑स ऋभव॒: पर्व॑तेभिः । स॒जोष॑सो॒ दैव्ये॑ना सवि॒त्रा स॒जोष॑स॒: सिन्धु॑भी रत्न॒धेभि॑: ॥८॥ ये अ॒श्विना॒ ये पि॒तरा॒ य ऊ॒ती धे॒नुं त॑त॒क्षुर्ऋ॒भवो॒ ये अश्वा॑ । ये अंस॑त्रा॒ य ऋध॒ग्रोद॑सी॒ ये विभ्वो॒ नर॑: स्वप॒त्यानि॑ च॒क्रुः ॥९॥ ये गोम॑न्तं॒ वाज॑वन्तं सु॒वीरं॑ र॒यिं ध॒त्थ वसु॑मन्तं पुरु॒क्षुम् । ते अ॑ग्रे॒पा ऋ॑भवो मन्दसा॒ना अ॒स्मे ध॑त्त॒ ये च॑ रा॒तिं गृ॒णन्ति॑ ॥१०॥ नापा॑भूत॒ न वो॑ऽतीतृषा॒माऽनि॑:शस्ता ऋभवो य॒ज्ञे अ॒स्मिन् । समिन्द्रे॑ण॒ मद॑थ॒ सं म॒रुद्भि॒: सं राज॑भी रत्न॒धेया॑य देवाः ॥११॥
— Ṛgveda Maṇḍala 4 · Sūkta 34 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷