🪷 Mahābhārata · Virāṭa-Parva · Chapter 7

The Book of Virāṭa · Parva 4 · 11 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 11 Shlokas

MBh 4.7.1
[वै] अथापरॊ भीमबलः शरिया जवलन्न; उपाययौ सिंहविलास विक्रमः खजं च दर्वीं च करेण धारयन्न; असिं च कालाङ्गम अकॊशम अव्रणम
MBh 4.7.2
स सूदरूपः परमेण वर्चसा; रविर यथा लॊकम इमं परभासयन सुकृष्ण वासा गिरिराजसारवान; स मत्स्यराजं समुपेत्य तस्थिवान
MBh 4.7.3
तं परेक्ष्य राजा वरयन्न उपागतं; ततॊ ऽबरवीज जानपदान समागतान सिंहॊन्नतांसॊ ऽयम अतीव रूपवान; परदृश्यते कॊ नु नरर्षभॊ युवा
MBh 4.7.4
अदृष्टपूर्वः पुरुषॊ रविर यथा; वितर्कयन नास्य लभामि संपदम तथास्य चित्तं हय अपि संवितर्कयन; नरर्षभस्याद्य न यामि तत्त्वतः
MBh 4.7.5
ततॊ विराटं समुपेत्य पाण्डवः; सुदीनरूपॊ वचनं महामनाः उवाच सूदॊ ऽसमि नरेन्द्र बल्लवॊ; भजस्व मां वयञ्जन कारम उत्तमम
MBh 4.7.6
न सूदतां मानद शरद्दधामि ते; सहस्रनेत्र परतिमॊ हि दृश्यसे शरिया च रूपेण च विक्रमेण च; परभासि तातानवरॊ नरेष्व इह
MBh 4.7.7
नरेन्द्र सूदः परिचारकॊ ऽसमि ते; जानामि सूपान परथमेन केवलान आस्वादिता ये नृपते पुराभवन; युधिष्ठिरेणापि नृपेण सर्वशः
MBh 4.7.8
बलेन तुल्यश च न विद्यते मया; नियुद्ध शीलश च सदैव पार्थिव गजैश च सिंहैश च समेयिवान अहं; सदा करिष्यामि तवानघ परियम
MBh 4.7.9
ददामि ते हन्त वरं महानसे; तथा च कुर्याः कुशलं हि भाषसे न चैव मन्ये तव कर्म तत समं; समुद्रनेमिं पृथिवीं तवम अर्हसि
MBh 4.7.10
यथा हि कामस तव तत तथा कृतं; महानसे तवं भव मे पुरस्कृतः नराश च ये तत्र ममॊचिताः पुरा; भवस्व तेषाम अधिपॊ मया कृतः
MBh 4.7.11
तथा स भीमॊ विहितॊ महानसे; विराट राज्ञॊ दयितॊ ऽभवद दृढम उवास राजन न च तं पृथग्जनॊ; बुबॊध तत्रानुचरश च कश चन

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷