🪷 Mahābhārata · Virāṭa-Parva · Chapter 6

The Book of Virāṭa · Parva 4 · 16 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 16 Shlokas

MBh 4.6.1
वैशंपायन उवाच ततो विराटं प्रथमं युधिष्ठिरो; राजा सभायामुपविष्टमाव्रजत् वैडूर्यरूपान्प्रतिमुच्य काञ्चना;नक्षान्स कक्षे परिगृह्य वाससा
MBh 4.6.2
नराधिपो राष्ट्रपतिं यशस्विनं; महायशाः कौरववंशवर्धनः महानुभावो नरराजसत्कृतो; दुरासदस्तीक्ष्णविषो यथोरगः
MBh 4.6.3
बलेन रूपेण नरर्षभो महा;नथार्चिरूपेण यथामरस्तथा महाभ्रजालैरिव संवृतो रवि;र्यथानलो भस्मवृतश्च वीर्यवान्
MBh 4.6.4
तमापतन्तं प्रसमीक्ष्य पाण्डवं; विराटराडिन्दुमिवाभ्रसंवृतम् मन्त्रिद्विजान्सूतमुखान्विशस्तथा; ये चापि केचित्परिषत्समासते पप्रच्छ कोऽयं प्रथमं समेयिवा;ननेन योऽयं प्रसमीक्षते सभाम्
MBh 4.6.5
न तु द्विजोऽयं भविता नरोत्तमः; पतिः पृथिव्या इति मे मनोगतम् न चास्य दासो न रथो न कुण्डले; समीपतो भ्राजति चायमिन्द्रवत्
MBh 4.6.6
शरीरलिङ्गैरुपसूचितो ह्ययं; मूर्धाभिषिक्तोऽयमितीव मानसम् समीपमायाति च मे गतव्यथो; यथा गजस्तामरसीं मदोत्कटः
MBh 4.6.7
वितर्कयन्तं तु नरर्षभस्तदा; युधिष्ठिरोऽभ्येत्य विराटमब्रवीत् सम्राड्विजानात्विह जीवितार्थिनं; विनष्टसर्वस्वमुपागतं द्विजम्
MBh 4.6.8
इहाहमिच्छामि तवानघान्तिके; वस्तुं यथा कामचरस्तथा विभो तमब्रवीत्स्वागतमित्यनन्तरं; राजा प्रहृष्टः प्रतिसंगृहाण च
MBh 4.6.9
कामेन ताताभिवदाम्यहं त्वां; कस्यासि राज्ञो विषयादिहागतः गोत्रं च नामापि च शंस तत्त्वतः; किं चापि शिल्पं तव विद्यते कृतम्
MBh 4.6.10
युधिष्ठिर उवाच युधिष्ठिरस्यासमहं पुरा सखा; वैयाघ्रपद्यः पुनरस्मि ब्राह्मणः अक्षान्प्रवप्तुं कुशलोऽस्मि देविता; कङ्केति नाम्नास्मि विराट विश्रुतः
MBh 4.6.11
विराट उवाच ददामि ते हन्त वरं यमिच्छसि; प्रशाधि मत्स्यान्वशगो ह्यहं तव प्रिया हि धूर्ता मम देविनः सदा; भवांश्च देवोपम राज्यमर्हति
MBh 4.6.12
युधिष्ठिर उवाच आप्तो विवादः परमो विशां पते; न विद्यते किंचन मत्स्य हीनतः न मे जितः कश्चन धारयेद्धनं; वरो ममैषोऽस्तु तव प्रसादतः
MBh 4.6.13
विराट उवाच हन्यामवध्यं यदि तेऽप्रियं चरे;त्प्रव्राजयेयं विषयाद्द्विजांस्तथा शृण्वन्तु मे जानपदाः समागताः; कङ्को यथाहं विषये प्रभुस्तथा
MBh 4.6.14
समानयानो भवितासि मे सखा; प्रभूतवस्त्रो बहुपानभोजनः पश्येस्त्वमन्तश्च बहिश्च सर्वदा; कृतं च ते द्वारमपावृतं मया
MBh 4.6.15
ये त्वानुवादेयुरवृत्तिकर्शिता; ब्रूयाश्च तेषां वचनेन मे सदा दास्यामि सर्वं तदहं न संशयो; न ते भयं विद्यति संनिधौ मम
MBh 4.6.16
वैशंपायन उवाच एवं स लब्ध्वा तु वरं समागमं; विराटराजेन नरर्षभस्तदा उवास वीरः परमार्चितः सुखी; न चापि कश्चिच्चरितं बुबोध तत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 16 source-pinned Devanāgarī addresses to Virāṭa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 4.6local chapter route · Virāṭa-ParvaVirāṭa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷