🪷 Mahābhārata · Virāṭa-Parva · Chapter 54

The Book of Virāṭa · Parva 4 · 20 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 20 Shlokas

MBh 4.54.1
वैशंपायन उवाच तं पार्थः प्रतिजग्राह वायुवेगमिवोद्धतम् शरजालेन महता वर्षमाणमिवाम्बुदम्
MBh 4.54.2
तयोर्देवासुरसमः संनिपातो महानभूत् किरतोः शरजालानि वृत्रवासवयोरिव
MBh 4.54.3
न स्म सूर्यस्तदा भाति न च वाति समीरणः शरगाढे कृते व्योम्नि छायाभूते समन्ततः
MBh 4.54.4
महांश्चटचटाशब्दो योधयोर्हन्यमानयोः दह्यतामिव वेणूनामासीत्परपुरंजय
MBh 4.54.5
हयानस्यार्जुनः सर्वान्कृतवानल्पजीवितान् स राजन्न प्रजानाति दिशं कांचन मोहितः
MBh 4.54.6
ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः विवरं सूक्ष्ममालोक्य ज्यां चिच्छेद क्षुरेण ह तदस्यापूजयन्देवाः कर्म दृष्ट्वातिमानुषम्
MBh 4.54.7
ततो द्रौणिर्धनूंष्यष्टौ व्यपक्रम्य नरर्षभम् पुनरभ्याहनत्पार्थं हृदये कङ्कपत्रिभिः
MBh 4.54.8
ततः पार्थो महाबाहुः प्रहस्य स्वनवत्तदा योजयामास नवया मौर्व्या गाण्डीवमोजसा
MBh 4.54.9
ततोऽर्धचन्द्रमावृत्य तेन पार्थः समागमत् वारणेनेव मत्तेन मत्तो वारणयूथपः
MBh 4.54.10
ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः रणमध्ये द्वयोरेव सुमहल्लोमहर्षणम्
MBh 4.54.11
तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः युध्यमानौ महात्मानौ यूथपाविव संगतौ
MBh 4.54.12
तौ समाजघ्नतुर्वीरावन्योन्यं पुरुषर्षभौ शरैराशीविषाकारैर्ज्वलद्भिरिव पन्नगैः
MBh 4.54.13
अक्षय्याविषुधी दिव्यौ पाण्डवस्य महात्मनः तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः
MBh 4.54.14
अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे जग्मुः परिक्षयं शीघ्रमभूत्तेनाधिकोऽर्जुनः
MBh 4.54.15
ततः कर्णो महच्चापं विकृष्याभ्यधिकं रुषा अवाक्षिपत्ततः शब्दो हाहाकारो महानभूत्
MBh 4.54.16
तत्र चक्षुर्दधे पार्थो यत्र विस्फार्यते धनुः ददर्श तत्र राधेयं तस्य कोपोऽत्यवीवृधत्
MBh 4.54.17
स रोषवशमापन्नः कर्णमेव जिघांसया अवैक्षत विवृत्ताभ्यां नेत्राभ्यां कुरुपुंगवः
MBh 4.54.18
तथा तु विमुखे पार्थे द्रोणपुत्रस्य सायकान् त्वरिताः पुरुषा राजन्नुपाजह्रुः सहस्रशः
MBh 4.54.19
उत्सृज्य च महाबाहुर्द्रोणपुत्रं धनंजयः अभिदुद्राव सहसा कर्णमेव सपत्नजित्
MBh 4.54.20
तमभिद्रुत्य कौन्तेयः क्रोधसंरक्तलोचनः कामयन्द्वैरथे युद्धमिदं वचनमब्रवीत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 20 source-pinned Devanāgarī addresses to Virāṭa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 4.54local chapter route · Virāṭa-ParvaVirāṭa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷