🪷 Mahābhārata · Virāṭa-Parva · Chapter 53

The Book of Virāṭa · Parva 4 · 69 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 69 Shlokas

MBh 4.53.1
अर्जुन उवाच यत्रैषा काञ्चनी वेदी प्रदीप्ताग्निशिखोपमा उच्छ्रिता काञ्चने दण्डे पताकाभिरलंकृता तत्र मां वह भद्रं ते द्रोणानीकाय मारिष
MBh 4.53.2
अश्वाः शोणाः प्रकाशन्ते बृहन्तश्चारुवाहिनः स्निग्धविद्रुमसंकाशास्ताम्रास्याः प्रियदर्शनाः युक्ता रथवरे यस्य सर्वशिक्षाविशारदाः
MBh 4.53.3
दीर्घबाहुर्महातेजा बलरूपसमन्वितः सर्वलोकेषु विख्यातो भारद्वाजः प्रतापवान्
MBh 4.53.4
बुद्ध्या तुल्यो ह्युशनसा बृहस्पतिसमो नये वेदास्तथैव चत्वारो ब्रह्मचर्यं तथैव च
MBh 4.53.5
ससंहाराणि दिव्यानि सर्वाण्यस्त्राणि मारिष धनुर्वेदश्च कार्त्स्न्येन यस्मिन्नित्यं प्रतिष्ठितः
MBh 4.53.6
क्षमा दमश्च सत्यं च आनृशंस्यमथार्जवम् एते चान्ये च बहवो गुणा यस्मिन्द्विजोत्तमे
MBh 4.53.7
तेनाहं योद्धुमिच्छामि महाभागेन संयुगे तस्मात्त्वं प्रापयाचार्यं क्षिप्रमुत्तर वाहय
MBh 4.53.8
वैशंपायन उवाच अर्जुनेनैवमुक्तस्तु वैराटिर्हेमभूषितान् चोदयामास तानश्वान्भारद्वाजरथं प्रति
MBh 4.53.9
तमापतन्तं वेगेन पाण्डवं रथिनां वरम् द्रोणः प्रत्युद्ययौ पार्थं मत्तो मत्तमिव द्विपम्
MBh 4.53.10
ततः प्राध्मापयच्छङ्खं भेरीशतनिनादितम् प्रचुक्षुभे बलं सर्वमुद्धूत इव सागरः
MBh 4.53.11
अथ शोणान्सदश्वांस्तान्हंसवर्णैर्मनोजवैः मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त रणे जनाः
MBh 4.53.12
तौ रथौ वीर्यसंपन्नौ दृष्ट्वा संग्राममूर्धनि आचार्यशिष्यावजितौ कृतविद्यौ मनस्विनौ
MBh 4.53.13
समाश्लिष्टौ तदान्योन्यं द्रोणपार्थौ महाबलौ दृष्ट्वा प्राकम्पत मुहुर्भरतानां महद्बलम्
MBh 4.53.14
हर्षयुक्तस्तथा पार्थः प्रहसन्निव वीर्यवान् रथं रथेन द्रोणस्य समासाद्य महारथः
MBh 4.53.15
अभिवाद्य महाबाहुः सान्त्वपूर्वमिदं वचः उवाच श्लक्ष्णया वाचा कौन्तेयः परवीरहा
MBh 4.53.16
उषिताः स्म वने वासं प्रतिकर्म चिकीर्षवः कोपं नार्हसि नः कर्तुं सदा समरदुर्जय
MBh 4.53.17
अहं तु प्रहृते पूर्वं प्रहरिष्यामि तेऽनघ इति मे वर्तते बुद्धिस्तद्भवान्कर्तुमर्हति
MBh 4.53.18
ततोऽस्मै प्राहिणोद्द्रोणः शरानधिकविंशतिम् अप्राप्तांश्चैव तान्पार्थश्चिच्छेद कृतहस्तवत्
MBh 4.53.19
ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् अवाकिरत्ततो द्रोणः शीघ्रमस्त्रं विदर्शयन्
MBh 4.53.20
एवं प्रववृते युद्धं भारद्वाजकिरीटिनोः समं विमुञ्चतोः संख्ये विशिखान्दीप्ततेजसः
MBh 4.53.21
तावुभौ ख्यातकर्माणावुभौ वायुसमौ जवे उभौ दिव्यास्त्रविदुषावुभावुत्तमतेजसौ क्षिपन्तौ शरजालानि मोहयामासतुर्नृपान्
MBh 4.53.22
व्यस्मयन्त ततो योधाः सर्वे तत्र समागताः शरान्विसृजतोस्तूर्णं साधु साध्विति पूजयन्
MBh 4.53.23
द्रोणं हि समरे कोऽन्यो योद्धुमर्हति फल्गुनात् रौद्रः क्षत्रियधर्मोऽयं गुरुणा यदयुध्यत इत्यब्रुवञ्जनास्तत्र संग्रामशिरसि स्थिताः
MBh 4.53.24
वीरौ तावपि संरब्धौ संनिकृष्टौ महारथौ छादयेतां शरव्रातैरन्योन्यमपराजितौ
MBh 4.53.25
विस्फार्य सुमहच्चापं हेमपृष्ठं दुरासदम् संरब्धोऽथ भरद्वाजः फल्गुनं प्रत्ययुध्यत
MBh 4.53.26
स सायकमयैर्जालैरर्जुनस्य रथं प्रति भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम्
MBh 4.53.27
पार्थं च स महाबाहुर्महावेगैर्महारथः विव्याध निशितैर्बाणैर्मेघो वृष्ट्येव पर्वतम्
MBh 4.53.28
तथैव दिव्यं गाण्डीवं धनुरादाय पाण्डवः शत्रुघ्नं वेगवद्धृष्टो भारसाधनमुत्तमम् विससर्ज शरांश्चित्रान्सुवर्णविकृतान्बहून्
MBh 4.53.29
नाशयञ्शरवर्षाणि भारद्वाजस्य वीर्यवान् तूर्णं चापविनिर्मुक्तैस्तदद्भुतमिवाभवत्
MBh 4.53.30
स रथेन चरन्पार्थः प्रेक्षणीयो धनंजयः युगपद्दिक्षु सर्वासु सर्वशस्त्राण्यदर्शयत्
MBh 4.53.31
एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः नादृश्यत तदा द्रोणो नीहारेणेव संवृतः
MBh 4.53.32
तस्याभवत्तदा रूपं संवृतस्य शरोत्तमैः जाज्वल्यमानस्य यथा पर्वतस्येव सर्वतः
MBh 4.53.33
दृष्ट्वा तु पार्थस्य रणे शरैः स्वरथमावृतम् स विस्फार्य धनुश्चित्रं मेघस्तनितनिस्वनम्
MBh 4.53.34
अग्निचक्रोपमं घोरं विकर्षन्परमायुधम् व्यशातयच्छरांस्तांस्तु द्रोणः समितिशोभनः महानभूत्ततः शब्दो वंशानामिव दह्यताम्
MBh 4.53.35
जाम्बूनदमयैः पुङ्खैश्चित्रचापवरातिगैः प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम्
MBh 4.53.36
ततः कनकपुङ्खानां शराणां नतपर्वणाम् वियच्चराणां वियति दृश्यन्ते बहुशः प्रजाः
MBh 4.53.37
द्रोणस्य पुङ्खसक्ताश्च प्रभवन्तः शरासनात् एको दीर्घ इवादृश्यदाकाशे संहतः शरः
MBh 4.53.38
एवं तौ स्वर्णविकृतान्विमुञ्चन्तौ महाशरान् आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः
MBh 4.53.39
शरास्तयोश्च विबभुः कङ्कबर्हिणवाससः पङ्क्त्यः शरदि खस्थानां हंसानां चरतामिव
MBh 4.53.40
युद्धं समभवत्तत्र सुसंरब्धं महात्मनोः द्रोणपाण्डवयोर्घोरं वृत्रवासवयोरिव
MBh 4.53.41
तौ गजाविव चासाद्य विषाणाग्रैः परस्परम् शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः
MBh 4.53.42
तौ व्यवाहरतां शूरौ संरब्धौ रणशोभिनौ उदीरयन्तौ समरे दिव्यान्यस्त्राणि भागशः
MBh 4.53.43
अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान् न्यवारयच्छितैर्बाणैरर्जुनो जयतां वरः
MBh 4.53.44
दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत्
MBh 4.53.45
जिघांसन्तं नरव्याघ्रमर्जुनं तिग्मतेजसम् आचार्यमुख्यः समरे द्रोणः शस्त्रभृतां वरः अर्जुनेन सहाक्रीडच्छरैः संनतपर्वभिः
MBh 4.53.46
दिव्यान्यस्त्राणि मुञ्चन्तं भारद्वाजं महारणे अस्त्रैरस्त्राणि संवार्य फल्गुनः समयोधयत्
MBh 4.53.47
तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः अमर्षिणोस्तदान्योन्यं देवदानवयोरिव
MBh 4.53.48
ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः द्रोणेन मुक्तं मुक्तं तु ग्रसते स्म पुनः पुनः
MBh 4.53.49
एवं शूरौ महेष्वासौ विसृजन्तौ शिताञ्शरान् एकच्छायं चक्रतुस्तावाकाशं शरवृष्टिभिः
MBh 4.53.50
ततोऽर्जुनेन मुक्तानां पततां च शरीरिषु पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः
MBh 4.53.51
ततो नागा रथाश्चैव सादिनश्च विशां पते शोणिताक्ता व्यदृश्यन्त पुष्पिता इव किंशुकाः
MBh 4.53.52
बाहुभिश्च सकेयूरैर्विचित्रैश्च महारथैः सुवर्णचित्रैः कवचैर्ध्वजैश्च विनिपातितैः
MBh 4.53.53
योधैश्च निहतैस्तत्र पार्थबाणप्रपीडितैः बलमासीत्समुद्भ्रान्तं द्रोणार्जुनसमागमे
MBh 4.53.54
विधुन्वानौ तु तौ वीरौ धनुषी भारसाधने आच्छादयेतामन्योन्यं तितक्षन्तौ रणेषुभिः
MBh 4.53.55
अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम् दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत्
MBh 4.53.56
प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम् जेतारं देवदैत्यानां सर्पाणां च महारथम्
MBh 4.53.57
अविश्रमं च शिक्षां च लाघवं दूरपातिताम् पार्थस्य समरे दृष्ट्वा द्रोणस्याभूच्च विस्मयः
MBh 4.53.58
अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभ
MBh 4.53.59
तस्य बाणमयं वर्षं शलभानामिवायतम् न च बाणान्तरे वायुरस्य शक्नोति सर्पितुम्
MBh 4.53.60
अनिशं संदधानस्य शरानुत्सृजतस्तदा ददृशे नान्तरं किंचित्पार्थस्याददतोऽपि च
MBh 4.53.61
तथा शीघ्रास्त्रयुद्धे तु वर्तमाने सुदारुणे शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदीरयत्
MBh 4.53.62
ततः शतसहस्राणि शराणां नतपर्वणाम् युगपत्प्रापतंस्तत्र द्रोणस्य रथमन्तिकात्
MBh 4.53.63
अवकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना हाहाकारो महानासीत्सैन्यानां भरतर्षभ
MBh 4.53.64
पाण्डवस्य तु शीघ्रास्त्रं मघवान्समपूजयत् गन्धर्वाप्सरसश्चैव ये च तत्र समागताः
MBh 4.53.65
ततो वृन्देन महता रथानां रथयूथपः आचार्यपुत्रः सहसा पाण्डवं प्रत्यवारयत्
MBh 4.53.66
अश्वत्थामा तु तत्कर्म हृदयेन महात्मनः पूजयामास पार्थस्य कोपं चास्याकरोद्भृशम्
MBh 4.53.67
स मन्युवशमापन्नः पार्थमभ्यद्रवद्रणे किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान्
MBh 4.53.68
आवृत्य तु महाबाहुर्यतो द्रौणिस्ततो हयान् अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम्
MBh 4.53.69
स तु लब्ध्वान्तरं तूर्णमपायाज्जवनैर्हयैः छिन्नवर्मध्वजः शूरो निकृत्तः परमेषुभिः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 69 source-pinned Devanāgarī addresses to Virāṭa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 4.53local chapter route · Virāṭa-ParvaVirāṭa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷