🪷 Mahābhārata · Virāṭa-Parva · Chapter 4

The Book of Virāṭa · Parva 4 · 49 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 49 Shlokas

MBh 4.4.1
[य] कर्माण्य उक्तानि युष्माभिर यानि तानि करिष्यथ मम चापि यथाबुद्धिरुचितानि विनिश्चयात
MBh 4.4.2
पुरॊहितॊ ऽयम अस्माकम अग्निहॊत्राणि रक्षतु सूदपौरॊगवैः सार्धं दरुपदस्य निवेशने
MBh 4.4.3
इन्द्रसेन मुखाश चेमे रथान आदाय केवलान यान्तु दवारवतीं शीघ्रम इति मे वर्तते मतिः
MBh 4.4.4
इमाश च नार्यॊ दरौपद्याः सर्वशः परिचारिकाः पाञ्चालान एव गच्छन्तु सूदपौरॊगवैः सह
MBh 4.4.5
सर्वैर अपि च वक्तव्यं न परज्ञायन्त पाण्डवाः गता हय अस्मान अपाकीर्य सर्वे दवैतवनाद इति
MBh 4.4.6
विदिते चापि वक्तव्यं सुहृद्भिर अनुरागतः अतॊ ऽहम अपि वक्ष्यामि हेतुमात्रं निबॊधत
MBh 4.4.7
हन्तेमां राजवसतिं राजपुत्रा बरवीमि वः यथा राजकुलं पराप्य चरन परेष्यॊ न रिष्यति
MBh 4.4.8
दुर्वसं तव एव कौरव्या जानता राजवेश्मनि अमानितैः सुमानार्हा अज्ञातैः परिवत्सरम
MBh 4.4.9
दिष्ट दवारॊ लभेद दवारं न च राजसु विश्वसेत तद एवासनम अन्विच्छेद यत्र नाभिषजेत परः
MBh 4.4.10
नास्य यानं न पर्यङ्कं न पीठं न जगं रथम आरॊहेत संमतॊ ऽसमीति स राजवसतिं वसेत
MBh 4.4.11
अथ यत्रैनम आसीनं शङ्केरन दुष्टचारिणः न तत्रॊपविशेज जातु स राजवसतिं वसेत
MBh 4.4.12
न चानुशिष्येद राजानम अपृच्छन्तं कदा चन तूष्णीं तव एनम उपासीत काले समभिपूजयन
MBh 4.4.13
असूयन्ति हि राजानॊ जनान अनृतवादिनः तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा
MBh 4.4.14
नैषां दारेषु कुर्वीत मैत्रीं पराज्ञः कथं चन अन्तःपुर चरा ये च दवेष्टि यानहिताश च ये
MBh 4.4.15
विदिते चास्य कुर्वीत कर्याणि सुलघून्य अपि एवं विचरतॊ राज्ञॊ न कषतिर जायते कव चित
MBh 4.4.16
यत्नाच चॊपचरेद एनम अग्निवद देववच च ह अनृतेनॊपचीर्णॊ हि हिंस्याद एनम असंशयम
MBh 4.4.17
यच च भर्तानुयुञ्जीत तद एवाभ्यनुवर्तयेत परमादम अवलेहां च कॊपं च परिवर्जयेत
MBh 4.4.18
समर्थनासु सर्वासु हितं च परियम एव च संवर्णयेत तद एवास्य परियाद अपि हितं वदेत
MBh 4.4.19
अनुकूलॊ भवेच चास्य सर्वार्थेषु कथासु च अप्रियं चाहितं यत सयात तद अस्मै नानुवर्णयेत
MBh 4.4.20
नाहम अस्य परियॊ ऽसमीति मत्वा सेवेत पण्डितः अप्रमत्तश च यत्तश च हितं कुर्यात परियं च यत
MBh 4.4.21
नास्यानिष्टानि सेवेत नाहितैः सह संवसेत सवस्थानान न विकम्पेत स राजवसतिं वसेत
MBh 4.4.22
दक्षिणं वाथ वामं वा पार्श्वम आसीत पण्डितः रक्षिणां हय आत्तशस्त्राणां सथानं पश्चाद विधीयते नित्यं विप्रतिषिद्धं तु पुरस्ताद आसनं महत
MBh 4.4.23
न च संदर्शने किं चित परवृद्धम अपि संजपेत अपि हय एतद दरिद्राणां वयलीक सथानम उत्तमम
MBh 4.4.24
न मृषाभिहितं राज्ञॊ मनुष्येषु परकाशयेत यं चासूयन्ति राजानः पुरुषं न वदेच च तम
MBh 4.4.25
शूरॊ ऽसमीति न दृप्तः सयाद बुद्धिमान इति वा पुनः परियम एवाचरन राज्ञः परियॊ भवति भॊगवान
MBh 4.4.26
ऐश्वर्यं पराप्य दुष्प्रापं परियं पराप्य च राजतः अप्रमत्तॊ भवेद राज्ञः परियेषु च हितेषु च
MBh 4.4.27
यस्य कॊपॊ महाबाधः परसादश च महाफलः कस तस्य मनसापीच्छेद अनर्थं पराज्ञसंमतः
MBh 4.4.28
न चौष्ठौ निर्भुजेज जातु न च वाक्यं समाक्षिपेत सदा कषुतं च वातं च षठीवनं चाचरेच छनैः
MBh 4.4.29
हास्यवस्तुषु चाप्य अस्य वर्तमानेषु केषु चित नातिगाढं परहृष्येत न चाप्य उन्मत्तवद धसेत
MBh 4.4.30
न चातिधैर्येण चरेद गुरुतां हि वरजेत तथा समितं तु मृदुपूर्वेण दर्शयेत परसादजम
MBh 4.4.31
लाभे न हर्षयेद यस तु न वयथेद यॊ ऽवमानितः असंमूढश च यॊ नित्यं स राजवसतिं वसेत
MBh 4.4.32
राजानं राजपुत्रं वा संवर्तयति यः सदा अमात्यः पण्डितॊ भूत्वा स चिरं तिष्ठति शरियम
MBh 4.4.33
परगृहीतश च यॊ ऽमात्यॊ निगृहीतश च कारणैः न निर्बध्नाति राजानं लभते परग्रहं पुनः
MBh 4.4.34
परत्यक्षं च परॊक्षं च गुणवादी विचक्षणः उपजीवी भवेद राज्ञॊ विषये चापि यॊ वसेत
MBh 4.4.35
अमात्यॊ हि बलाद भॊक्तुं राजानं परार्थयेत तु यः न स तिष्ठेच चिरं सथानं गच्छेच च पराणसंशयम
MBh 4.4.36
शरेयः सदात्मनॊ दृष्ट्वा परं राज्ञा न संवदेत विशेषयेन न राजानं यॊग्या भूमिषु सर्वदा
MBh 4.4.37
अम्लानॊ बलवाञ शूरश छायेवानपगः सदा सत्यवादी मृदुर दान्तः स राजवसतिं वसेत
MBh 4.4.38
अन्यस्मिन परेष्यमाणे तु पुरस्ताद यः समुत्पतेत अहं किं करवाणीति स राजवसतिं वसेत
MBh 4.4.39
उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा आदिष्टॊ न विकल्पेत स राजवसतिं वसेत
MBh 4.4.40
यॊ वै गृहेभ्यः परवसन परियाणां नानुसंस्मरेत दुःखेन सुखम अन्विच्छेत स राजवसतिं वसेत
MBh 4.4.41
समवेषं न कुर्वीत नात्युच्चैः संनिधौ हसेत मन्त्रं न बहुधा कुर्याद एवं राज्ञः परियॊ भवेत
MBh 4.4.42
न कर्मणि नियुक्तः सन धनं किं चिद उपस्पृशेत पराप्नॊति हि हरन दरव्यं बन्धनं यदि वा वधम
MBh 4.4.43
यानं वस्त्रम अलंकारं यच चान्यत संप्रयच्छति तद एव धारयेन नित्यम एवं परियतरॊ भवेत
MBh 4.4.44
संवत्सरम इमं तात तथा शीला बुभूषवः अथ सवविषयं पराप्य यथाकामं चरिष्यथ
MBh 4.4.45
अनुशिष्टाः सम भद्रं ते नैतद वक्तास्ति कश चन कुन्तीम ऋते मातरं नॊ विदुरं च महामतिम
MBh 4.4.46
यद एवानन्तरं कार्यं तद भवान कर्तुम अर्हति तारणायास्य दुःखस्य परस्थानाय जयाय च
MBh 4.4.47
[वै] एवम उक्तस ततॊ राज्ञा धौम्यॊ ऽथ दविजसत्तमः अकरॊद विधिवत सर्वं परस्थाने यद विधीयते
MBh 4.4.48
तेषां समिध्य तान अग्नीन मन्त्रवच च जुहाव सः समृद्धि वृद्धिलाभाय पृथिवी विजयाय च
MBh 4.4.49
अग्निं परदक्षिणं कृत्वा बराह्मणांश च तपॊधनान याज्ञसेनीं पुरस्कृत्य षड एवाथ परवव्रजुः

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷