🪷 Mahābhārata · Virāṭa-Parva · Chapter 32

The Book of Virāṭa · Parva 4 · 50 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 50 Shlokas

MBh 4.32.1
वैशंपायन उवाच तमसाभिप्लुते लोके रजसा चैव भारत व्यतिष्ठन्वै मुहूर्तं तु व्यूढानीकाः प्रहारिणः
MBh 4.32.2
ततोऽन्धकारं प्रणुदन्नुदतिष्ठत चन्द्रमाः कुर्वाणो विमलां रात्रिं नन्दयन्क्षत्रियान्युधि
MBh 4.32.3
ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत घोररूपं ततस्ते स्म नावेक्षन्त परस्परम्
MBh 4.32.4
ततः सुशर्मा त्रैगर्तः सह भ्रात्रा यवीयसा अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः
MBh 4.32.5
ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ गदापाणी सुसंरब्धौ समभ्यद्रवतां हयान्
MBh 4.32.6
तथैव तेषां तु बलानि तानि; क्रुद्धान्यथान्योन्यमभिद्रवन्ति गदासिखड्गैश्च परश्वधैश्च; प्रासैश्च तीक्ष्णाग्रसुपीतधारैः
MBh 4.32.7
बलं तु मत्स्यस्य बलेन राजा; सर्वं त्रिगर्ताधिपतिः सुशर्मा प्रमथ्य जित्वा च प्रसह्य मत्स्यं; विराटमोजस्विनमभ्यधावत्
MBh 4.32.8
तौ निहत्य पृथग्धुर्यावुभौ च पार्ष्णिसारथी विरथं मत्स्यराजानं जीवग्राहमगृह्णताम्
MBh 4.32.9
तमुन्मथ्य सुशर्मा तु रुदतीं वधुकामिव स्यन्दनं स्वं समारोप्य प्रययौ शीघ्रवाहनः
MBh 4.32.10
तस्मिन्गृहीते विरथे विराटे बलवत्तरे प्राद्रवन्त भयान्मत्स्यास्त्रिगर्तैरर्दिता भृशम्
MBh 4.32.11
तेषु संत्रास्यमानेषु कुन्तीपुत्रो युधिष्ठिरः अभ्यभाषन्महाबाहुं भीमसेनमरिंदमम्
MBh 4.32.12
मत्स्यराजः परामृष्टस्त्रिगर्तेन सुशर्मणा तं मोक्षय महाबाहो न गच्छेद्द्विषतां वशम्
MBh 4.32.13
उषिताः स्मः सुखं सर्वे सर्वकामैः सुपूजिताः भीमसेन त्वया कार्या तस्य वासस्य निष्कृतिः
MBh 4.32.14
भीमसेन उवाच अहमेनं परित्रास्ये शासनात्तव पार्थिव पश्य मे सुमहत्कर्म युध्यतः सह शत्रुभिः
MBh 4.32.15
स्वबाहुबलमाश्रित्य तिष्ठ त्वं भ्रातृभिः सह एकान्तमाश्रितो राजन्पश्य मेऽद्य पराक्रमम्
MBh 4.32.16
सुस्कन्धोऽयं महावृक्षो गदारूप इव स्थितः एनमेव समारुज्य द्रावयिष्यामि शात्रवान्
MBh 4.32.17
वैशंपायन उवाच तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम् अब्रवीद्भ्रातरं वीरं धर्मराजो युधिष्ठिरः
MBh 4.32.18
मा भीम साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः मा त्वा वृक्षेण कर्माणि कुर्वाणमतिमानुषम् जनाः समवबुध्येरन्भीमोऽयमिति भारत
MBh 4.32.19
अन्यदेवायुधं किंचित्प्रतिपद्यस्व मानुषम् चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वधम्
MBh 4.32.20
यदेव मानुषं भीम भवेदन्यैरलक्षितम् तदेवायुधमादाय मोक्षयाशु महीपतिम्
MBh 4.32.21
यमौ च चक्ररक्षौ ते भवितारौ महाबलौ व्यूहतः समरे तात मत्स्यराजं परीप्सतः
MBh 4.32.22
ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन् दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान्प्रत्यमर्षणाः
MBh 4.32.23
तान्निवृत्तरथान्दृष्ट्वा पाण्डवान्सा महाचमूः वैराटी परमक्रुद्धा युयुधे परमाद्भुतम्
MBh 4.32.24
सहस्रं न्यवधीत्तत्र कुन्तीपुत्रो युधिष्ठिरः भीमः सप्तशतान्योधान्परलोकमदर्शयत् नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः
MBh 4.32.25
शतानि त्रीणि शूराणां सहदेवः प्रतापवान् युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः भित्त्वा तां महतीं सेनां त्रिगर्तानां नरर्षभ
MBh 4.32.26
ततो युधिष्ठिरो राजा त्वरमाणो महारथः अभिद्रुत्य सुशर्माणं शरैरभ्यतुदद्भृशम्
MBh 4.32.27
सुशर्मापि सुसंक्रुद्धस्त्वरमाणो युधिष्ठिरम् अविध्यन्नवभिर्बाणैश्चतुर्भिश्चतुरो हयान्
MBh 4.32.28
ततो राजन्नाशुकारी कुन्तीपुत्रो वृकोदरः समासाद्य सुशर्माणमश्वानस्य व्यपोथयत्
MBh 4.32.29
पृष्ठगोपौ च तस्याथ हत्वा परमसायकैः अथास्य सारथिं क्रुद्धो रथोपस्थादपाहरत्
MBh 4.32.30
चक्ररक्षश्च शूरश्च शोणाश्वो नाम विश्रुतः स भयाद्द्वैरथं दृष्ट्वा त्रैगर्तं प्राजहत्तदा
MBh 4.32.31
ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः गदामस्य परामृश्य तमेवाजघ्निवान्बली स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा
MBh 4.32.32
भीमस्तु भीमसंकाशो रथात्प्रस्कन्द्य कुण्डली त्रिगर्तराजमादत्त सिंहः क्षुद्रमृगं यथा
MBh 4.32.33
तस्मिन्गृहीते विरथे त्रिगर्तानां महारथे अभज्यत बलं सर्वं त्रैगर्तं तद्भयातुरम्
MBh 4.32.34
निवर्त्य गास्ततः सर्वाः पाण्डुपुत्रा महाबलाः अवजित्य सुशर्माणं धनं चादाय सर्वशः
MBh 4.32.35
स्वबाहुबलसंपन्ना ह्रीनिषेधा यतव्रताः संग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन्
MBh 4.32.36
ततो विराटः कौन्तेयानतिमानुषविक्रमान् अर्चयामास वित्तेन मानेन च महारथान्
MBh 4.32.37
विराट उवाच यथैव मम रत्नानि युष्माकं तानि वै तथा कार्यं कुरुत तैः सर्वे यथाकामं यथासुखम्
MBh 4.32.38
ददान्यलंकृताः कन्या वसूनि विविधानि च मनसश्चाप्यभिप्रेतं यद्वः शत्रुनिबर्हणाः
MBh 4.32.39
युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह तस्माद्भवन्तो मत्स्यानामीश्वराः सर्व एव हि
MBh 4.32.40
वैशंपायन उवाच तथाभिवादिनं मत्स्यं कौरवेयाः पृथक्पृथक् ऊचुः प्राञ्जलयः सर्वे युधिष्ठिरपुरोगमाः
MBh 4.32.41
प्रतिनन्दाम ते वाक्यं सर्वं चैव विशां पते एतेनैव प्रतीताः स्मो यत्त्वं मुक्तोऽद्य शत्रुभिः
MBh 4.32.42
अथाब्रवीत्प्रीतमना मत्स्यराजो युधिष्ठिरम् पुनरेव महाबाहुर्विराटो राजसत्तमः एहि त्वामभिषेक्ष्यामि मत्स्यराजोऽस्तु नो भवान्
MBh 4.32.43
मनसश्चाप्यभिप्रेतं यत्ते शत्रुनिबर्हण तत्तेऽहं संप्रदास्यामि सर्वमर्हति नो भवान्
MBh 4.32.44
रत्नानि गाः सुवर्णं च मणिमुक्तमथापि वा वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोऽस्तु ते
MBh 4.32.45
त्वत्कृते ह्यद्य पश्यामि राज्यमात्मानमेव च यतश्च जातः संरम्भः स च शत्रुर्वशं गतः
MBh 4.32.46
ततो युधिष्ठिरो मत्स्यं पुनरेवाभ्यभाषत प्रतिनन्दामि ते वाक्यं मनोज्ञं मत्स्य भाषसे
MBh 4.32.47
आनृशंस्यपरो नित्यं सुसुखः सततं भव गच्छन्तु दूतास्त्वरितं नगरं तव पार्थिव सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम्
MBh 4.32.48
ततस्तद्वचनान्मत्स्यो दूतान्राजा समादिशत् आचक्षध्वं पुरं गत्वा संग्रामे विजयं मम
MBh 4.32.49
कुमाराः समलंकृत्य पर्यागच्छन्तु मे पुरात् वादित्राणि च सर्वाणि गणिकाश्च स्वलंकृताः
MBh 4.32.50
ते गत्वा केवलां रात्रिमथ सूर्योदयं प्रति विराटस्य पुराभ्याशे दूता जयमघोषयन्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 50 source-pinned Devanāgarī addresses to Virāṭa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 4.32local chapter route · Virāṭa-ParvaVirāṭa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷