🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 99

The Book of the Forest · Parva 3 · 21 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 21 Shlokas

MBh 3.99.1
लोमश उवाच ततः स वज्री बलिभिर्दैवतैरभिरक्षितः आससाद ततो वृत्रं स्थितमावृत्य रोदसी
MBh 3.99.2
कालकेयैर्महाकायैः समन्तादभिरक्षितम् समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः
MBh 3.99.3
ततो युद्धं समभवद्देवानां सह दानवैः मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत्
MBh 3.99.4
उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः आसीत्सुतुमुलः शब्दः शरीरेष्वभिपात्यताम्
MBh 3.99.5
शिरोभिः प्रपतद्भिश्च अन्तरिक्षान्महीतलम् तालैरिव महीपाल वृन्ताद्भ्रष्टैरदृश्यत
MBh 3.99.6
ते हेमकवचा भूत्वा कालेयाः परिघायुधाः त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः
MBh 3.99.7
तेषां वेगवतां वेगं सहितानां प्रधावताम् न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भयात्
MBh 3.99.8
तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरः वृत्रे विवर्धमाने च कश्मलं महदाविशत्
MBh 3.99.9
तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः स्वतेजो व्यदधाच्छक्रे बलमस्य विवर्धयन्
MBh 3.99.10
विष्णुनाप्यायितं शक्रं दृष्ट्वा देवगणास्ततः स्वं स्वं तेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः
MBh 3.99.11
स समाप्यायितः शक्रो विष्णुना दैवतैः सह ऋषिभिश्च महाभागैर्बलवान्समपद्यत
MBh 3.99.12
ज्ञात्वा बलस्थं त्रिदशाधिपं तु; ननाद वृत्रो महतो निनादान् तस्य प्रणादेन धरा दिशश्च; खं द्यौर्नगाश्चापि चचाल सर्वम्
MBh 3.99.13
ततो महेन्द्रः परमाभितप्तः; श्रुत्वा रवं घोररूपं महान्तम् भये निमग्नस्त्वरितं मुमोच; वज्रं महत्तस्य वधाय राजन्
MBh 3.99.14
स शक्रवज्राभिहतः पपात; महासुरः काञ्चनमाल्यधारी यथा महाञ्शैलवरः पुरस्ता;त्स मन्दरो विष्णुकरात्प्रमुक्तः
MBh 3.99.15
तस्मिन्हते दैत्यवरे भयार्तः; शक्रः प्रदुद्राव सरः प्रवेष्टुम् वज्रं न मेने स्वकरात्प्रमुक्तं; वृत्रं हतं चापि भयान्न मेने
MBh 3.99.16
सर्वे च देवा मुदिताः प्रहृष्टा; महर्षयश्चेन्द्रमभिष्टुवन्तः सर्वांश्च दैत्यांस्त्वरिताः समेत्य; जघ्नुः सुरा वृत्रवधाभितप्तान्
MBh 3.99.17
ते वध्यमानास्त्रिदशैस्तदानीं; समुद्रमेवाविविशुर्भयार्ताः प्रविश्य चैवोदधिमप्रमेयं; झषाकुलं रत्नसमाकुलं च
MBh 3.99.18
तदा स्म मन्त्रं सहिताः प्रचक्रु;स्त्रैलोक्यनाशार्थमभिस्मयन्तः तत्र स्म केचिन्मतिनिश्चयज्ञा;स्तांस्तानुपायाननुवर्णयन्ति
MBh 3.99.19
तेषां तु तत्र क्रमकालयोगा;द्घोरा मतिश्चिन्तयतां बभूव ये सन्ति विद्यातपसोपपन्ना;स्तेषां विनाशः प्रथमं तु कार्यः
MBh 3.99.20
लोका हि सर्वे तपसा ध्रियन्ते; तस्मात्त्वरध्वं तपसः क्षयाय ये सन्ति केचिद्धि वसुंधरायां; तपस्विनो धर्मविदश्च तज्ज्ञाः तेषां वधः क्रियतां क्षिप्रमेव; तेषु प्रनष्टेषु जगत्प्रनष्टम्
MBh 3.99.21
एवं हि सर्वे गतबुद्धिभावा; जगद्विनाशे परमप्रहृष्टाः दुर्गं समाश्रित्य महोर्मिमन्तं; रत्नाकरं वरुणस्यालयं स्म

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 21 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.99local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷