🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 100

The Book of the Forest · Parva 3 · 24 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 24 Shlokas

MBh 3.100.1
लोमश उवाच समुद्रं ते समाश्रित्य वारुणं निधिमम्भसाम् कालेयाः संप्रवर्तन्त त्रैलोक्यस्य विनाशने
MBh 3.100.2
ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन् आश्रमेषु च ये सन्ति पुन्येष्वायतनेषु च
MBh 3.100.3
वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः अशीतिशतमष्टौ च नव चान्ये तपस्विनः
MBh 3.100.4
च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम् फलमूलाशनानां हि मुनीनां भक्षितं शतम्
MBh 3.100.5
एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा भरद्वाजाश्रमे चैव नियता ब्रह्मचारिणः वाय्वाहाराम्बुभक्षाश्च विंशतिः संनिपातिताः
MBh 3.100.6
एवं क्रमेण सर्वांस्तानाश्रमान्दानवास्तदा निशायां परिधावन्ति मत्ता भुजबलाश्रयात् कालोपसृष्टाः कालेया घ्नन्तो द्विजगणान्बहून्
MBh 3.100.7
न चैनानन्वबुध्यन्त मनुजा मनुजोत्तम एवं प्रवृत्तान्दैत्यांस्तांस्तापसेषु तपस्विषु
MBh 3.100.8
प्रभाते समदृश्यन्त नियताहारकर्शिताः महीतलस्था मुनयः शरीरैर्गतजीवितैः
MBh 3.100.9
क्षीणमांसैर्विरुधिरैर्विमज्जान्त्रैर्विसंधिभिः आकीर्णैराचिता भूमिः शङ्खानामिव राशिभिः
MBh 3.100.10
कलशैर्विप्रविद्धैश्च स्रुवैर्भग्नैस्तथैव च विकीर्णैरग्निहोत्रैश्च भूर्बभूव समावृता
MBh 3.100.11
निःस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम् जगदासीन्निरुत्साहं कालेयभयपीडितम्
MBh 3.100.12
एवं प्रक्षीयमाणाश्च मानवा मनुजेश्वर आत्मत्राणपरा भीताः प्राद्रवन्त दिशो भयात्
MBh 3.100.13
केचिद्गुहाः प्रविविशुर्निर्झरांश्चापरे श्रिताः अपरे मरणोद्विग्ना भयात्प्रानान्समुत्सृजन्
MBh 3.100.14
केचिदत्र महेष्वासाः शूराः परमदर्पिताः मार्गमाणाः परं यत्नं दानवानां प्रचक्रिरे
MBh 3.100.15
न चैतानधिजग्मुस्ते समुद्रं समुपाश्रितान् श्रमं जग्मुश्च परममाजग्मुः क्षयमेव च
MBh 3.100.16
जगत्युपशमं याते नष्टयज्ञोत्सवक्रिये आजग्मुः परमामार्तिं त्रिदशा मनुजेश्वर
MBh 3.100.17
समेत्य समहेन्द्राश्च भयान्मन्त्रं प्रचक्रिरे नारायणं पुरस्कृत्य वैकुण्ठमपराजितम्
MBh 3.100.18
ततो देवाः समेतास्ते तदोचुर्मधुसूदनम् त्वं नः स्रष्टा च पाता च भर्ता च जगतः प्रभो त्वया सृष्टमिदं सर्वं यच्चेङ्गं यच्च नेङ्गति
MBh 3.100.19
त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण वाराहं रूपमास्थाय जगदर्थे समुद्धृता
MBh 3.100.20
आदिदैत्यो महावीर्यो हिरण्यकशिपुस्त्वया नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम
MBh 3.100.21
अवध्यः सर्वभूतानां बलिश्चापि महासुरः वामनं वपुराश्रित्य त्रैलोक्याद्भ्रंशितस्त्वया
MBh 3.100.22
असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः
MBh 3.100.23
एवमादीनि कर्माणि येषां संख्या न विद्यते अस्माकं भयभीतानां त्वं गतिर्मधुसूदन
MBh 3.100.24
तस्मात्त्वां देव देवेश लोकार्थं ज्ञापयामहे रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 24 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.100local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷