🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 90

The Book of the Forest · Parva 3 · 24 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 24 Shlokas

MBh 3.90.1
[लॊमष] धनंजयेन चाप्य उक्तं यत तच छृणु युधिष्ठिर युधिष्ठिरं भरातरं मे यॊजयेर धर्म्यया शरिया
MBh 3.90.2
तवं हि धर्मान परान वेत्थ तपांसि च तपॊधन शरीमतां चापि जानासि राज्ञां धर्मं सनातनम
MBh 3.90.3
स भवान यत परं वेद पावनं पुरुषान परति तेन संयॊजयेथास तवं तीर्थपुण्येन पाण्डवम
MBh 3.90.4
यथा तीर्थानि गच्छेत गाश च दद्यात स पार्थिवः तथा सर्वात्मना कार्यम इति मां विजयॊ ऽबरवीत
MBh 3.90.5
भवता चानुगुप्तॊ ऽसौ चरेत तीर्थानि सर्वशः रक्षॊभ्यॊ रक्षितव्यश च दुर्गेषु विषमेषु च
MBh 3.90.6
दधीच इव देवेन्द्रं यथा चाप्य अङ्गिरा रविम तथा रक्षस्व कौन्तेयं राक्षसेभ्यॊ दविजॊत्तम
MBh 3.90.7
यातुधाना हि बहवॊ राक्षसाः पर्वतॊपमाः तवयाभिगुप्तान कौन्तेयान नातिवर्तेयुर अन्तिकात
MBh 3.90.8
सॊ ऽहम इन्द्रस्य वचनान नियॊगाद अर्जुनस्य च रक्षमाणॊ भयेभ्यस तवां चरिष्यामि तवया सह
MBh 3.90.9
दविस तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन इदं तृतीयं दरक्ष्यामि तान्य एव भवता सह
MBh 3.90.10
इयं राजर्षिभिर याता पुण्यकृद्भिर युधिष्ठिर मन्वादिभिर महाराज तीर्थयात्रा भयापहा
MBh 3.90.11
नानृजुर नाकृतात्मा च नावैद्यॊ न च पापकृत सनाति तीर्थेषु कौरव्य न च वक्रमतिर नरः
MBh 3.90.12
तवं तु धर्ममतिर नित्यं धर्मज्ञः सत्यसंगरः विमुक्तः सर्वपापेभ्यॊ भूय एव भविष्यसि
MBh 3.90.13
यथा भगीरथॊ राजा राजानश च गयादयः यथा ययातिः कौन्तेय तथा तवम अपि पाण्डव
MBh 3.90.14
[य] न हर्षात संप्रपश्यामि वाक्यस्यास्यॊत्तरं कव चित समरेद धि देवराजॊ यं किंनामाभ्यधिकं ततः
MBh 3.90.15
भवता संगमॊ यस्य भराता यस्य धनंजयः वासवः समरते यस्य कॊ नामाभ्यधिकस ततः
MBh 3.90.16
यच च मां भगवान आह तीर्थानां दर्शनं परति धौम्यस्य वचनाद एषा बुद्धिः पूर्वं कृतैव मे
MBh 3.90.17
तद यदा मन्यसे बरह्मन गमनं तीर्थदर्शने तदैव गन्तास्मि दृढम एष मे निश्चयः परः
MBh 3.90.18
[व] गमने कृतबुद्धिं तं पाण्डवं लॊमशॊ ऽबरवीत लघुर भव महाराज लघुः सवैरं गमिष्यसि
MBh 3.90.19
[य] बिक्षा भुजॊ निवर्तन्तां बराह्मणा यतयश च ये ये चाप्य अनुगताः पौरा राजभक्तिपुरस्कृताः
MBh 3.90.20
धृतराष्ट्रं महाराजम अभिगच्छन्तु चैव ते स दास्यति यथाकालम उचिता यस्य या भृतिः
MBh 3.90.21
स चेद यथॊचितं वृत्तिं न दद्यान मनुजेश्वरः अस्मत्प्रियहितार्थाय पाञ्चाल्यॊ वः परदास्यति
MBh 3.90.22
[व] ततॊ भूयिष्ठशः पौरा गुरुभारसमाहिताः विप्राश च यतयॊ युक्ता जग्मुर नागपुरं परति
MBh 3.90.23
तान सर्वान धर्मराजस्य परेम्णा राजाम्बिका सुतः परतिजग्राह विधिवद धनैश च समतर्पयत
MBh 3.90.24
ततः कुन्तीसुतॊ राजा लघुभिर बराह्मणैः सह लॊमशेन च सुप्रीतस तरिरात्रं काम्यके ऽवसत

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷