🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 49

The Book of the Forest · Parva 3 · 43 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 43 Shlokas

MBh 3.49.1
जनमेजय उवाच अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि युधिष्ठिरप्रभृतयः किमकुर्वन्त पाण्डवाः
MBh 3.49.2
वैशंपायन उवाच अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि न्यवसन्कृष्णया सार्धं काम्यके पुरुषर्षभाः
MBh 3.49.3
ततः कदाचिदेकान्ते विविक्त इव शाद्वले दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया धनंजयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः
MBh 3.49.4
तद्वियोगाद्धि तान्सर्वाञ्शोकः समभिपुप्लुवे धनंजयवियोगाच्च राज्यनाशाच्च दुःखिताः
MBh 3.49.5
अथ भीमो महाबाहुर्युधिष्ठिरमभाषत निदेशात्ते महाराज गतोऽसौ पुरुषर्षभः अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः
MBh 3.49.6
यस्मिन्विनष्टे पाञ्चालाः सह पुत्रैस्तथा वयम् सात्यकिर्वासुदेवश्च विनश्येयुरसंशयम्
MBh 3.49.7
योऽसौ गच्छति तेजस्वी बहून्क्लेशानचिन्तयन् भवन्नियोगाद्बीभत्सुस्ततो दुःखतरं नु किम्
MBh 3.49.8
यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम्
MBh 3.49.9
यस्य प्रभावान्न मया सभामध्ये धनुष्मतः नीता लोकममुं सर्वे धार्तराष्ट्राः ससौबलाः
MBh 3.49.10
ते वयं बाहुबलिनः क्रोधमुत्थितमात्मनः सहामहे भवन्मूलं वासुदेवेन पालिताः
MBh 3.49.11
वयं हि सह कृष्णेन हत्वा कर्णमुखान्परान् स्वबाहुविजितां कृत्स्नां प्रशासेम वसुंधराम्
MBh 3.49.12
भवतो द्यूतदोषेण सर्वे वयमुपप्लुताः अहीनपौरुषा राजन्बलिभिर्बलवत्तमाः
MBh 3.49.13
क्षात्रं धर्मं महाराज समवेक्षितुमर्हसि न हि धर्मो महाराज क्षत्रियस्य वनाश्रयः राज्यमेव परं धर्मं क्षत्रियस्य विदुर्बुधाः
MBh 3.49.14
स क्षत्रधर्मविद्राजन्मा धर्म्यान्नीनशः पथः प्राग्द्वादश समा राजन्धार्तराष्ट्रान्निहन्महि
MBh 3.49.15
निवर्त्य च वनात्पार्थमानाय्य च जनार्दनम् व्यूढानीकान्महाराज जवेनैव महाहवे धार्तराष्ट्रानमुं लोकं गमयामि विशां पते
MBh 3.49.16
सर्वानहं हनिष्यामि धार्तराष्ट्रान्ससौबलान् दुर्योधनं च कर्णं च यो वान्यः प्रतियोत्स्यते
MBh 3.49.17
मया प्रशमिते पश्चात्त्वमेष्यसि वनात्पुनः एवं कृते न ते दोषो भविष्यति विशां पते
MBh 3.49.18
यज्ञैश्च विविधैस्तात कृतं पापमरिंदम अवधूय महाराज गच्छेम स्वर्गमुत्तमम्
MBh 3.49.19
एवमेतद्भवेद्राजन्यदि राजा न बालिशः अस्माकं दीर्घसूत्रः स्याद्भवान्धर्मपरायणः
MBh 3.49.20
निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते
MBh 3.49.21
तथा भारत धर्मेषु धर्मज्ञैरिह दृश्यते अहोरात्रं महाराज तुल्यं संवत्सरेण हि
MBh 3.49.22
तथैव वेदवचनं श्रूयते नित्यदा विभो संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः
MBh 3.49.23
यदि वेदाः प्रमाणं ते दिवसादूर्ध्वमच्युत त्रयोदश समाः कालो ज्ञायतां परिनिष्ठितः
MBh 3.49.24
कालो दुर्योधनं हन्तुं सानुबन्धमरिंदम एकाग्रां पृथिवीं सर्वां पुरा राजन्करोति सः
MBh 3.49.25
एवं ब्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः उवाच सान्त्वयन्राजा मूर्ध्न्युपाघ्राय पाण्डवम्
MBh 3.49.26
असंशयं महाबाहो हनिष्यसि सुयोधनम् वर्षात्त्रयोदशादूर्ध्वं सह गाण्डीवधन्वना
MBh 3.49.27
यच्च मा भाषसे पार्थ प्राप्तः काल इति प्रभो अनृतं नोत्सहे वक्तुं न ह्येतन्मयि विद्यते
MBh 3.49.28
अन्तरेणापि कौन्तेय निकृतिं पापनिश्चयम् हन्ता त्वमसि दुर्धर्ष सानुबन्धं सुयोधनम्
MBh 3.49.29
एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे आजगाम महाभागो बृहदश्वो महानृषिः
MBh 3.49.30
तमभिप्रेक्ष्य धर्मात्मा संप्राप्तं धर्मचारिणम् शास्त्रवन्मधुपर्केण पूजयामास धर्मराट्
MBh 3.49.31
आश्वस्तं चैनमासीनमुपासीनो युधिष्ठिरः अभिप्रेक्ष्य महाबाहुः कृपणं बह्वभाषत
MBh 3.49.32
अक्षद्यूतेन भगवन्धनं राज्यं च मे हृतम् आहूय निकृतिप्रज्ञैः कितवैरक्षकोविदैः
MBh 3.49.33
अनक्षज्ञस्य हि सतो निकृत्या पापनिश्चयैः भार्या च मे सभां नीता प्राणेभ्योऽपि गरीयसी
MBh 3.49.34
अस्ति राजा मया कश्चिदल्पभाग्यतरो भुवि भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् न मत्तो दुःखिततरः पुमानस्तीति मे मतिः
MBh 3.49.35
बृहदश्व उवाच यद्ब्रवीषि महाराज न मत्तो विद्यते क्वचित् अल्पभाग्यतरः कश्चित्पुमानस्तीति पाण्डव
MBh 3.49.36
अत्र ते कथयिष्यामि यदि शुश्रूषसेऽनघ यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते
MBh 3.49.37
वैशंपायन उवाच अथैनमब्रवीद्राजा ब्रवीतु भगवानिति इमामवस्थां संप्राप्तं श्रोतुमिच्छामि पार्थिवम्
MBh 3.49.38
बृहदश्व उवाच शृणु राजन्नवहितः सह भ्रातृभिरच्युत यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते
MBh 3.49.39
निषधेषु महीपालो वीरसेन इति स्म ह तस्य पुत्रोऽभवन्नाम्ना नलो धर्मार्थदर्शिवान्
MBh 3.49.40
स निकृत्या जितो राजा पुष्करेणेति नः श्रुतम् वनवासमदुःखार्हो भार्यया न्यवसत्सह
MBh 3.49.41
न तस्याश्वो न च रथो न भ्राता न च बान्धवाः वने निवसतो राजञ्शिष्यन्ते स्म कदाचन
MBh 3.49.42
भवान्हि संवृतो वीरैर्भ्रातृभिर्देवसंमितैः ब्रह्मकल्पैर्द्विजाग्र्यैश्च तस्मान्नार्हसि शोचितुम्
MBh 3.49.43
युधिष्ठिर उवाच विस्तरेणाहमिच्छामि नलस्य सुमहात्मनः चरितं वदतां श्रेष्ठ तन्ममाख्यातुमर्हसि

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 43 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.49local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷