🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 40

The Book of the Forest · Parva 3 · 61 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 61 Shlokas

MBh 3.40.1
वैशंपायन उवाच गतेषु तेषु सर्वेषु तपस्विषु महात्मसु पिनाकपाणिर्भगवान्सर्वपापहरो हरः
MBh 3.40.2
कैरातं वेषमास्थाय काञ्चनद्रुमसंनिभम् विभ्राजमानो वपुषा गिरिर्मेरुरिवापरः
MBh 3.40.3
श्रीमद्धनुरुपादाय शरांश्चाशीविषोपमान् निष्पपात महार्चिष्मान्दहन्कक्षमिवानलः
MBh 3.40.4
देव्या सहोमया श्रीमान्समानव्रतवेषया नानावेषधरैर्हृष्टैर्भूतैरनुगतस्तदा
MBh 3.40.5
किरातवेषप्रच्छन्नः स्त्रीभिश्चानु सहस्रशः अशोभत तदा राजन्स देवोऽतीव भारत
MBh 3.40.6
क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा नादः प्रस्रवणानां च पक्षिणां चाप्युपारमत्
MBh 3.40.7
स संनिकर्षमागम्य पार्थस्याक्लिष्टकर्मणः मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम्
MBh 3.40.8
वाराहं रूपमास्थाय तर्कयन्तमिवार्जुनम् हन्तुं परमदुष्टात्मा तमुवाचाथ फल्गुनः
MBh 3.40.9
गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान् सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन्
MBh 3.40.10
यन्मां प्रार्थयसे हन्तुमनागसमिहागतम् तस्मात्त्वां पूर्वमेवाहं नेष्यामि यमसादनम्
MBh 3.40.11
तं दृष्ट्वा प्रहरिष्यन्तं फल्गुनं दृढधन्विनम् किरातरूपी सहसा वारयामास शंकरः
MBh 3.40.12
मयैष प्रार्थितः पूर्वं नीलमेघसमप्रभः अनादृत्यैव तद्वाक्यं प्रजहाराथ फल्गुनः
MBh 3.40.13
किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम्
MBh 3.40.14
तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः मूकस्य गात्रे विस्तीर्णे शैलसंहनने तदा
MBh 3.40.15
यथाशनिविनिष्पेषो वज्रस्येव च पर्वते तथा तयोः संनिपातः शरयोरभवत्तदा
MBh 3.40.16
स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव ममार राक्षसं रूपं भूयः कृत्वा विभीषणम्
MBh 3.40.17
ददर्शाथ ततो जिष्णुः पुरुषं काञ्चनप्रभम् किरातवेषप्रच्छन्नं स्त्रीसहायममित्रहा तमब्रवीत्प्रीतमनाः कौन्तेयः प्रहसन्निव
MBh 3.40.18
को भवानटते शून्ये वने स्त्रीगणसंवृतः न त्वमस्मिन्वने घोरे बिभेषि कनकप्रभ
MBh 3.40.19
किमर्थं च त्वया विद्धो मृगोऽयं मत्परिग्रहः मयाभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः
MBh 3.40.20
कामात्परिभवाद्वापि न मे जीवन्विमोक्ष्यसे न ह्येष मृगयाधर्मो यस्त्वयाद्य कृतो मयि तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रय
MBh 3.40.21
इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनम्
MBh 3.40.22
ममैवायं लक्ष्यभूतः पूर्वमेव परिग्रहः ममैव च प्रहारेण जीविताद्व्यवरोपितः
MBh 3.40.23
दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः अभिषक्तोऽस्मि मन्दात्मन्न मे जीवन्विमोक्ष्यसे
MBh 3.40.24
स्थिरो भवस्व मोक्ष्यामि सायकानशनीनिव घटस्व परया शक्त्या मुञ्च त्वमपि सायकान्
MBh 3.40.25
ततस्तौ तत्र संरब्धौ गर्जमानौ मुहुर्मुहुः शरैराशीविषाकारैस्ततक्षाते परस्परम्
MBh 3.40.26
ततोऽर्जुनः शरवर्षं किराते समवासृजत् तत्प्रसन्नेन मनसा प्रतिजग्राह शंकरः
MBh 3.40.27
मुहूर्तं शरवर्षं तत्प्रतिगृह्य पिनाकधृक् अक्षतेन शरीरेण तस्थौ गिरिरिवाचलः
MBh 3.40.28
स दृष्ट्वा बाणवर्षं तन्मोघीभूतं धनंजयः परमं विस्मयं चक्रे साधु साध्विति चाब्रवीत्
MBh 3.40.29
अहोऽयं सुकुमाराङ्गो हिमवच्छिखरालयः गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः
MBh 3.40.30
कोऽयं देवो भवेत्साक्षाद्रुद्रो यक्षः सुरेश्वरः विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः
MBh 3.40.31
न हि मद्बाणजालानामुत्सृष्टानां सहस्रशः शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम्
MBh 3.40.32
देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम्
MBh 3.40.33
ततो हृष्टमना जिष्णुर्नाराचान्मर्मभेदिनः व्यसृजच्छतधा राजन्मयूखानिव भास्करः
MBh 3.40.34
तान्प्रसन्नेन मनसा भगवाँल्लोकभावनः शूलपाणिः प्रत्यगृह्णाच्छिलावर्षमिवाचलः
MBh 3.40.35
क्षणेन क्षीणबाणोऽथ संवृत्तः फल्गुनस्तदा वित्रासं च जगामाथ तं दृष्ट्वा शरसंक्षयम्
MBh 3.40.36
चिन्तयामास जिष्णुस्तु भगवन्तं हुताशनम् पुरस्तादक्षयौ दत्तौ तूणौ येनास्य खाण्डवे
MBh 3.40.37
किं नु मोक्ष्यामि धनुषा यन्मे बाणाः क्षयं गताः अयं च पुरुषः कोऽपि बाणान्ग्रसति सर्वशः
MBh 3.40.38
अहमेनं धनुष्कोट्या शूलाग्रेणेव कुञ्जरम् नयामि दण्डधारस्य यमस्य सदनं प्रति
MBh 3.40.39
संप्रायुध्यद्धनुष्कोट्या कौन्तेयः परवीरहा तदप्यस्य धनुर्दिव्यं जग्रास गिरिगोचरः
MBh 3.40.40
ततोऽर्जुनो ग्रस्तधनुः खड्गपाणिरतिष्ठत युद्धस्यान्तमभीप्सन्वै वेगेनाभिजगाम तम्
MBh 3.40.41
तस्य मूर्ध्नि शितं खड्गमसक्तं पर्वतेष्वपि मुमोच भुजवीर्येण विक्रम्य कुरुनन्दनः तस्य मूर्धानमासाद्य पफालासिवरो हि सः
MBh 3.40.42
ततो वृक्षैः शिलाभिश्च योधयामास फल्गुनः यथा वृक्षान्महाकायः प्रत्यगृह्णादथो शिलाः
MBh 3.40.43
किरातरूपी भगवांस्ततः पार्थो महाबलः मुष्टिभिर्वज्रसंस्पर्शैर्धूममुत्पादयन्मुखे प्रजहार दुराधर्षे किरातसमरूपिणि
MBh 3.40.44
ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः किरातरूपी भगवानर्दयामास फल्गुनम्
MBh 3.40.45
ततश्चटचटाशब्दः सुघोरः समजायत पाण्डवस्य च मुष्टीनां किरातस्य च युध्यतः
MBh 3.40.46
सुमुहूर्तं महद्युद्धमासीत्तल्लोमहर्षणम् भुजप्रहारसंयुक्तं वृत्रवासवयोरिव
MBh 3.40.47
जहाराथ ततो जिष्णुः किरातमुरसा बली पाण्डवं च विचेष्टन्तं किरातोऽप्यहनद्बलात्
MBh 3.40.48
तयोर्भुजविनिष्पेषात्संघर्षेणोरसोस्तथा समजायत गात्रेषु पावकोऽङ्गारधूमवान्
MBh 3.40.49
तत एनं महादेवः पीड्य गात्रैः सुपीडितम् तेजसा व्याक्रमद्रोषाच्चेतस्तस्य विमोहयन्
MBh 3.40.50
ततो निपीडितैर्गात्रैः पिण्डीकृत इवाबभौ फल्गुनो गात्रसंरुद्धो देवदेवेन भारत
MBh 3.40.51
निरुच्छ्वासोऽभवच्चैव संनिरुद्धो महात्मना ततः पपात संमूढस्ततः प्रीतोऽभवद्भवः
MBh 3.40.52
भगवानुवाच भो भो फल्गुन तुष्टोऽस्मि कर्मणाप्रतिमेन ते शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः
MBh 3.40.53
समं तेजश्च वीर्यं च ममाद्य तव चानघ प्रीतस्तेऽहं महाबाहो पश्य मां पुरुषर्षभ
MBh 3.40.54
ददानि ते विशालाक्ष चक्षुः पूर्वऋषिर्भवान् विजेष्यसि रणे शत्रूनपि सर्वान्दिवौकसः
MBh 3.40.55
वैशंपायन उवाच ततो देवं महादेवं गिरिशं शूलपाणिनम् ददर्श फल्गुनस्तत्र सह देव्या महाद्युतिम्
MBh 3.40.56
स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च प्रसादयामास हरं पार्थः परपुरंजयः
MBh 3.40.57
अर्जुन उवाच कपर्दिन्सर्वभूतेश भगनेत्रनिपातन व्यतिक्रमं मे भगवन्क्षन्तुमर्हसि शंकर
MBh 3.40.58
भवगद्दर्शनाकाङ्क्षी प्राप्तोऽस्मीमं महागिरिम् दयितं तव देवेश तापसालयमुत्तमम्
MBh 3.40.59
प्रसादये त्वां भगवन्सर्वभूतनमस्कृत न मे स्यादपराधोऽयं महादेवातिसाहसात्
MBh 3.40.60
कृतो मया यदज्ञानाद्विमर्दोऽयं त्वया सह शरणं संप्रपन्नाय तत्क्षमस्वाद्य शंकर
MBh 3.40.61
वैशंपायन उवाच तमुवाच महातेजाः प्रहस्य वृषभध्वजः प्रगृह्य रुचिरं बाहुं क्षान्तमित्येव फल्गुनम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 61 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.40local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷