🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 275

The Book of the Forest · Parva 3 · 69 unique Sanskrit addresses · pinned Critical Edition-derived witness

🪷 This verse is one maṇi on Krishna's non-dual thread (BG 7.7 · sūtre maṇi-gaṇā iva)
MBh Vana-Parva 258-275 · the Rāmopākhyāna: Vyāsa includes Rāma's complete story (704 verses) inside Krishna's epic · Mārkaṇḍeya narrates to Yudhiṣṭhira · the One there is the One here. The substrate carries the other 9 pramāṇa-maṇis from Vālmīki, Vyāsa, and Krishna's own mouth — each declaring the same Rāma-Krishna-Nārāyaṇa-Viṣṇu non-dual singularity. Krishna is the thread; every verse below is a maṇi on the same sūtra.
See also: /rama (the constitutional non-dual declaration) · /philosophy (the theological foundation) · /mahabharata · /valmiki-ramayana.

The Devanāgarī Yathārtha · 69 Shlokas

MBh 3.275.1
मार्कण्डेय उवाच स हत्वा रावणं क्षुद्रं राक्षसेन्द्रं सुरद्विषम् बभूव हृष्टः ससुहृद्रामः सौमित्रिणा सह
MBh 3.275.2
ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः आशीर्भिर्जययुक्ताभिरानर्चुस्तं महाभुजम्
MBh 3.275.3
रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः गन्धर्वाः पुष्पवर्षैश्च वाग्भिश्च त्रिदशालयाः
MBh 3.275.4
पूजयित्वा यथा रामं प्रतिजग्मुर्यथागतम् तन्महोत्सवसंकाशमासीदाकाशमच्युत
MBh 3.275.5
ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः विभीषणाय प्रददौ प्रभुः परपुरंजयः
MBh 3.275.6
ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम् अविन्ध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्ययौ
MBh 3.275.7
उवाच च महात्मानं काकुत्स्थं दैन्यमास्थितम् प्रतीच्छ देवीं सद्वृत्तां महात्मञ्जानकीमिति
MBh 3.275.8
एतच्छ्रुत्वा वचस्तस्मादवतीर्य रथोत्तमात् बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः
MBh 3.275.9
तां दृष्ट्वा चारुसर्वाङ्गीं यानस्थां शोककर्शिताम् मलोपचितसर्वाङ्गीं जटिलां कृष्णवाससम्
MBh 3.275.10
उवाच रामो वैदेहीं परामर्शविशङ्कितः गच्छ वैदेहि मुक्ता त्वं यत्कार्यं तन्मया कृतम्
MBh 3.275.11
मामासाद्य पतिं भद्रे न त्वं राक्षसवेश्मनि जरां व्रजेथा इति मे निहतोऽसौ निशाचरः
MBh 3.275.12
कथं ह्यस्मद्विधो जातु जानन्धर्मविनिश्चयम् परहस्तगतां नारीं मुहूर्तमपि धारयेत्
MBh 3.275.13
सुवृत्तामसुवृत्तां वाप्यहं त्वामद्य मैथिलि नोत्सहे परिभोगाय श्वावलीढं हविर्यथा
MBh 3.275.14
ततः सा सहसा बाला तच्छ्रुत्वा दारुणं वचः पपात देवी व्यथिता निकृत्ता कदली यथा
MBh 3.275.15
यो ह्यस्या हर्षसंभूतो मुखरागस्तदाभवत् क्षणेन स पुनर्भ्रष्टो निःश्वासादिव दर्पणे
MBh 3.275.16
ततस्ते हरयः सर्वे तच्छ्रुत्वा रामभाषितम् गतासुकल्पा निश्चेष्टा बभूवुः सहलक्ष्मणाः
MBh 3.275.17
ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः पितामहो जगत्स्रष्टा दर्शयामास राघवम्
MBh 3.275.18
शक्रश्चाग्निश्च वायुश्च यमो वरुण एव च यक्षाधिपश्च भगवांस्तथा सप्तर्षयोऽमलाः
MBh 3.275.19
राजा दशरथश्चैव दिव्यभास्वरमूर्तिमान् विमानेन महार्हेण हंसयुक्तेन भास्वता
MBh 3.275.20
ततोऽन्तरिक्षं तत्सर्वं देवगन्धर्वसंकुलम् शुशुभे तारकाचित्रं शरदीव नभस्तलम्
MBh 3.275.21
तत उत्थाय वैदेहि तेषां मध्ये यशस्विनी उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम्
MBh 3.275.22
राजपुत्र न ते कोपं करोमि विदिता हि मे गतिः स्त्रीणां नराणां च शृणु चेदं वचो मम
MBh 3.275.23
अन्तश्चरति भूतानां मातरिश्वा सदागतिः स मे विमुञ्चतु प्राणान्यदि पापं चराम्यहम्
MBh 3.275.24
अग्निरापस्तथाकाशं पृथिवी वायुरेव च विमुञ्चन्तु मम प्राणान्यदि पापं चराम्यहम्
MBh 3.275.25
ततोऽन्तरिक्षे वागासीत्सर्वा विश्रावयन्दिशः पुण्या संहर्षणी तेषां वानराणां महात्मनाम्
MBh 3.275.26
वायुरुवाच भो भो राघव सत्यं वै वायुरस्मि सदागतिः अपापा मैथिली राजन्संगच्छ सह भार्यया
MBh 3.275.27
अग्निरुवाच अहमन्तःशरीरस्थो भूतानां रघुनन्दन सुसूक्ष्ममपि काकुत्स्थ मैथिली नापराध्यति
MBh 3.275.28
वरुण उवाच रसा वै मत्प्रसूता हि भूतदेहेषु राघव अहं वै त्वां प्रब्रवीमि मैथिली प्रतिगृह्यताम्
MBh 3.275.29
ब्रह्मोवाच पुत्र नैतदिहाश्चर्यं त्वयि राजर्षिधर्मिणि साधो सद्वृत्तमार्गस्थे शृणु चेदं वचो मम
MBh 3.275.30
शत्रुरेष त्वया वीर देवगन्धर्वभोगिनाम् यक्षाणां दानवानां च महर्षीणां च पातितः
MBh 3.275.31
अवध्यः सर्वभूतानां मत्प्रसादात्पुराभवत् कस्माच्चित्कारणात्पापः कंचित्कालमुपेक्षितः
MBh 3.275.32
वधार्थमात्मनस्तेन हृता सीता दुरात्मना नलकूबरशापेन रक्षा चास्याः कृता मया
MBh 3.275.33
यदि ह्यकामामासेवेत्स्त्रियमन्यामपि ध्रुवम् शतधास्य फलेद्देह इत्युक्तः सोऽभवत्पुरा
MBh 3.275.34
नात्र शङ्का त्वया कार्या प्रतीच्छेमां महाद्युते कृतं त्वया महत्कार्यं देवानाममरप्रभ
MBh 3.275.35
दशरथ उवाच प्रीतोऽस्मि वत्स भद्रं ते पिता दशरथोऽस्मि ते अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम
MBh 3.275.36
राम उवाच अभिवादये त्वां राजेन्द्र यदि त्वं जनको मम गमिष्यामि पुरीं रम्यामयोध्यां शासनात्तव
MBh 3.275.37
मार्कण्डेय उवाच तमुवाच पिता भूयः प्रहृष्टो मनुजाधिप गच्छायोध्यां प्रशाधि त्वं राम रक्तान्तलोचन
MBh 3.275.38
ततो देवान्नमस्कृत्य सुहृद्भिरभिनन्दितः महेन्द्र इव पौलोम्या भार्यया स समेयिवान्
MBh 3.275.39
ततो वरं ददौ तस्मै अविन्ध्याय परंतपः त्रिजटां चार्थमानाभ्यां योजयामास राक्षसीम्
MBh 3.275.40
तमुवाच ततो ब्रह्मा देवैः शक्रमुखैर्वृतः कौसल्यामातरिष्टांस्ते वरानद्य ददानि कान्
MBh 3.275.41
वव्रे रामः स्थितिं धर्मे शत्रुभिश्चापराजयम् राक्षसैर्निहतानां च वानराणां समुद्भवम्
MBh 3.275.42
ततस्ते ब्रह्मणा प्रोक्ते तथेति वचने तदा समुत्तस्थुर्महाराज वानरा लब्धचेतसः
MBh 3.275.43
सीता चापि महाभागा वरं हनुमते ददौ रामकीर्त्या समं पुत्र जीवितं ते भविष्यति
MBh 3.275.44
दिव्यास्त्वामुपभोगाश्च मत्प्रसादकृताः सदा उपस्थास्यन्ति हनुमन्निति स्म हरिलोचन
MBh 3.275.45
ततस्ते प्रेक्षमाणानां तेषामक्लिष्टकर्मणाम् अन्तर्धानं ययुर्देवाः सर्वे शक्रपुरोगमाः
MBh 3.275.46
दृष्ट्वा तु रामं जानक्या समेतं शक्रसारथिः उवाच परमप्रीतः सुहृन्मध्य इदं वचः
MBh 3.275.47
देवगन्धर्वयक्षाणां मानुषासुरभोगिनाम् अपनीतं त्वया दुःखमिदं सत्यपराक्रम
MBh 3.275.48
सदेवासुरगन्धर्वा यक्षराक्षसपन्नगाः कथयिष्यन्ति लोकास्त्वां यावद्भूमिर्धरिष्यति
MBh 3.275.49
इत्येवमुक्त्वानुज्ञाप्य रामं शस्त्रभृतां वरम् संपूज्यापाक्रमत्तेन रथेनादित्यवर्चसा
MBh 3.275.50
ततः सीतां पुरस्कृत्य रामः सौमित्रिणा सह सुग्रीवप्रमुखैश्चैव सहितः सर्ववानरैः
MBh 3.275.51
विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः संततार पुनस्तेन सेतुना मकरालयम्
MBh 3.275.52
पुष्पकेण विमानेन खेचरेण विराजता कामगेन यथा मुख्यैरमात्यैः संवृतो वशी
MBh 3.275.53
ततस्तीरे समुद्रस्य यत्र शिश्ये स पार्थिवः तत्रैवोवास धर्मात्मा सहितः सर्ववानरैः
MBh 3.275.54
अथैनान्राघवः काले समानीयाभिपूज्य च विसर्जयामास तदा रत्नैः संतोष्य सर्वशः
MBh 3.275.55
गतेषु वानरेन्द्रेषु गोपुच्छर्क्षेषु तेषु च सुग्रीवसहितो रामः किष्किन्धां पुनरागमत्
MBh 3.275.56
विभीषणेनानुगतः सुग्रीवसहितस्तदा पुष्पकेण विमानेन वैदेह्या दर्शयन्वनम्
MBh 3.275.57
किष्किन्धां तु समासाद्य रामः प्रहरतां वरः अङ्गदं कृतकर्माणं यौवराज्येऽभ्यषेचयत्
MBh 3.275.58
ततस्तैरेव सहितो रामः सौमित्रिणा सह यथागतेन मार्गेण प्रययौ स्वपुरं प्रति
MBh 3.275.59
अयोध्यां स समासाद्य पुरीं राष्ट्रपतिस्ततः भरताय हनूमन्तं दूतं प्रस्थापयत्तदा
MBh 3.275.60
लक्षयित्वेङ्गितं सर्वं प्रियं तस्मै निवेद्य च वायुपुत्रे पुनः प्राप्ते नन्दिग्राममुपागमत्
MBh 3.275.61
स तत्र मलदिग्धाङ्गं भरतं चीरवाससम् अग्रतः पादुके कृत्वा ददर्शासीनमासने
MBh 3.275.62
समेत्य भरतेनाथ शत्रुघ्नेन च वीर्यवान् राघवः सहसौमित्रिर्मुमुदे भरतर्षभ
MBh 3.275.63
तथा भरतशत्रुघ्नौ समेतौ गुरुणा तदा वैदेह्या दर्शनेनोभौ प्रहर्षं समवापतुः
MBh 3.275.64
तस्मै तद्भरतो राज्यमागतायाभिसत्कृतम् न्यासं निर्यातयामास युक्तः परमया मुदा
MBh 3.275.65
ततस्तं वैष्णवे शूरं नक्षत्रेऽभिमतेऽहनि वसिष्ठो वामदेवश्च सहितावभ्यषिञ्चताम्
MBh 3.275.66
सोऽभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम् विभीषणं च पौलस्त्यमन्वजानाद्गृहान्प्रति
MBh 3.275.67
अभ्यर्च्य विविधै रत्नैः प्रीतियुक्तौ मुदा युतौ समाधायेतिकर्तव्यं दुःखेन विससर्ज ह
MBh 3.275.68
पुष्पकं च विमानं तत्पूजयित्वा स राघवः प्रादाद्वैश्रवणायैव प्रीत्या स रघुनन्दनः
MBh 3.275.69
ततो देवर्षिसहितः सरितं गोमतीमनु दशाश्वमेधानाजह्रे जारूथ्यान्स निरर्गलान्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 69 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.275local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷