🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 259

The Book of the Forest · Parva 3 · 40 unique Sanskrit addresses · pinned Critical Edition-derived witness

🪷 This verse is one maṇi on Krishna's non-dual thread (BG 7.7 · sūtre maṇi-gaṇā iva)
MBh Vana-Parva 258-275 · the Rāmopākhyāna: Vyāsa includes Rāma's complete story (704 verses) inside Krishna's epic · Mārkaṇḍeya narrates to Yudhiṣṭhira · the One there is the One here. The substrate carries the other 9 pramāṇa-maṇis from Vālmīki, Vyāsa, and Krishna's own mouth — each declaring the same Rāma-Krishna-Nārāyaṇa-Viṣṇu non-dual singularity. Krishna is the thread; every verse below is a maṇi on the same sūtra.
See also: /rama (the constitutional non-dual declaration) · /philosophy (the theological foundation) · /mahabharata · /valmiki-ramayana.

The Devanāgarī Yathārtha · 40 Shlokas

MBh 3.259.1
मार्कण्डेय उवाच पुलस्त्यस्य तु यः क्रोधादर्धदेहोऽभवन्मुनिः विश्रवा नाम सक्रोधः स वैश्रवणमैक्षत
MBh 3.259.2
बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप
MBh 3.259.3
स राजराजो लङ्कायां निवसन्नरवाहनः राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः
MBh 3.259.4
तास्तदा तं महात्मानं संतोषयितुमुद्यताः ऋषिं भरतशार्दूल नृत्तगीतविशारदाः
MBh 3.259.5
पुष्पोत्कटा च राका च मालिनी च विशां पते अन्योन्यस्पर्धया राजञ्श्रेयस्कामाः सुमध्यमाः
MBh 3.259.6
तासां स भगवांस्तुष्टो महात्मा प्रददौ वरान् लोकपालोपमान्पुत्रानेकैकस्या यथेप्सितान्
MBh 3.259.7
पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि
MBh 3.259.8
मालिनी जनयामास पुत्रमेकं विभीषणम् राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा
MBh 3.259.9
विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत् स बभूव महाभागो धर्मगोप्ता क्रियारतिः
MBh 3.259.10
दशग्रीवस्तु सर्वेषां ज्येष्ठो राक्षसपुंगवः महोत्साहो महावीर्यो महासत्त्वपराक्रमः
MBh 3.259.11
कुम्भकर्णो बलेनासीत्सर्वेभ्योऽभ्यधिकस्तदा मायावी रणशौण्डश्च रौद्रश्च रजनीचरः
MBh 3.259.12
खरो धनुषि विक्रान्तो ब्रह्मद्विट्पिशिताशनः सिद्धविघ्नकरी चापि रौद्रा शूर्पणखा तथा
MBh 3.259.13
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः ऊषुः पित्रा सह रता गन्धमादनपर्वते
MBh 3.259.14
ततो वैश्रवणं तत्र ददृशुर्नरवाहनम् पित्रा सार्धं समासीनमृद्ध्या परमया युतम्
MBh 3.259.15
जातस्पर्धास्ततस्ते तु तपसे धृतनिश्चयाः ब्रह्माणं तोषयामासुर्घोरेण तपसा तदा
MBh 3.259.16
अतिष्ठदेकपादेन सहस्रं परिवत्सरान् वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः
MBh 3.259.17
अधःशायी कुम्भकर्णो यताहारो यतव्रतः विभीषणः शीर्णपर्णमेकमभ्यवहारयत्
MBh 3.259.18
उपवासरतिर्धीमान्सदा जप्यपरायणः तमेव कालमातिष्ठत्तीव्रं तप उदारधीः
MBh 3.259.19
खरः शूर्पणखा चैव तेषां वै तप्यतां तपः परिचर्यां च रक्षां च चक्रतुर्हृष्टमानसौ
MBh 3.259.20
पूर्णे वर्षसहस्रे तु शिरश्छित्त्वा दशाननः जुहोत्यग्नौ दुराधर्षस्तेनातुष्यज्जगत्प्रभुः
MBh 3.259.21
ततो ब्रह्मा स्वयं गत्वा तपसस्तान्न्यवारयत् प्रलोभ्य वरदानेन सर्वानेव पृथक्पृथक्
MBh 3.259.22
ब्रह्मोवाच प्रीतोऽस्मि वो निवर्तध्वं वरान्वृणुत पुत्रकाः यद्यदिष्टमृते त्वेकममरत्वं तथास्तु तत्
MBh 3.259.23
यद्यदग्नौ हुतं सर्वं शिरस्ते महदीप्सया तथैव तानि ते देहे भविष्यन्ति यथेप्सितम्
MBh 3.259.24
वैरूप्यं च न ते देहे कामरूपधरस्तथा भविष्यसि रणेऽरीणां विजेतासि न संशयः
MBh 3.259.25
रावण उवाच गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा सर्पकिंनरभूतेभ्यो न मे भूयात्पराभवः
MBh 3.259.26
ब्रह्मोवाच य एते कीर्तिताः सर्वे न तेभ्योऽस्ति भयं तव ऋते मनुष्याद्भद्रं ते तथा तद्विहितं मया
MBh 3.259.27
मार्कण्डेय उवाच एवमुक्तो दशग्रीवस्तुष्टः समभवत्तदा अवमेने हि दुर्बुद्धिर्मनुष्यान्पुरुषादकः
MBh 3.259.28
कुम्भकर्णमथोवाच तथैव प्रपितामहः स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः
MBh 3.259.29
तथा भविष्यतीत्युक्त्वा विभीषणमुवाच ह वरं वृणीष्व पुत्र त्वं प्रीतोऽस्मीति पुनः पुनः
MBh 3.259.30
विभीषण उवाच परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत् अशिक्षितं च भगवन्ब्रह्मास्त्रं प्रतिभातु मे
MBh 3.259.31
ब्रह्मोवाच यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्शन नाधर्मे रमते बुद्धिरमरत्वं ददामि ते
MBh 3.259.32
मार्कण्डेय उवाच राक्षसस्तु वरं लब्ध्वा दशग्रीवो विशां पते लङ्कायाश्च्यावयामास युधि जित्वा धनेश्वरम्
MBh 3.259.33
हित्वा स भगवाँल्लङ्कामाविशद्गन्धमादनम् गन्धर्वयक्षानुगतो रक्षःकिंपुरुषैः सह
MBh 3.259.34
विमानं पुष्पकं तस्य जहाराक्रम्य रावणः शशाप तं वैश्रवणो न त्वामेतद्वहिष्यति
MBh 3.259.35
यस्तु त्वां समरे हन्ता तमेवैतद्वहिष्यति अवमन्य गुरुं मां च क्षिप्रं त्वं न भविष्यसि
MBh 3.259.36
विभीषणस्तु धर्मात्मा सतां धर्ममनुस्मरन् अन्वगच्छन्महाराज श्रिया परमया युतः
MBh 3.259.37
तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः सेनापत्यं ददौ धीमान्यक्षराक्षससेनयोः
MBh 3.259.38
राक्षसाः पुरुषादाश्च पिशाचाश्च महाबलाः सर्वे समेत्य राजानमभ्यषिञ्चद्दशाननम्
MBh 3.259.39
दशग्रीवस्तु दैत्यानां देवानां च बलोत्कटः आक्रम्य रत्नान्यहरत्कामरूपी विहंगमः
MBh 3.259.40
रावयामास लोकान्यत्तस्माद्रावण उच्यते दशग्रीवः कामबलो देवानां भयमादधत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 40 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.259local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷