🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 240

The Book of the Forest · Parva 3 · 47 shlokas in canonical Devanāgarī Sanskrit

Mahābhārata Detail Source-Anchor Spine

This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.

MBh 3.240local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

The Devanāgarī Yathārtha · 47 Shlokas

MBh 3.240.1
[दानवाह] भॊः सुयॊधन राजेन्द्र भरतानां कुलॊद्वह शूरैः परिवृतॊ नित्यं तथैव च महात्मभिः
MBh 3.240.2
अकार्षीः साहसम इदं कस्मात परायॊपवेशनम आत्मत्यागी हय अवाग याति वाच्यतां चायशस्करीम
MBh 3.240.3
न हि कार्यविरुद्धेषु बह्व अपायेषु कर्मसु मूलघातिषु सज्जन्ते बुद्धिमन्तॊ भवद्विधाः
MBh 3.240.4
नियच्छैतां मतिं राजन धर्मार्थसुखनाशिनीम यशः परताप धैर्यघ्नीं शत्रूणां हर्षवर्धनीम
MBh 3.240.5
शरूयतां च परभॊ तत्त्वं दिव्यतां चात्मनॊ नृप निर्माणं च शरीरस्य ततॊ धैर्यम अवाप्नुहि
MBh 3.240.6
पुरा तवं तपसास्माभिर लब्धॊ देवान महेश्वरात पूर्वकायश च सर्वस ते निर्मितॊ वज्रसंचयैः
MBh 3.240.7
अस्तैर अभेद्यः शस्तैश चाप्य अधः कायश च ते ऽनघ कृतः पुष्पमयॊ देव्या रूपतः सत्रीमनॊहरः
MBh 3.240.8
एवम ईश्वर संयुक्तस तव देहॊ नृपॊत्तम देव्या च राजशार्दूल दिव्यस तवं हि न मानुषः
MBh 3.240.9
कषत्रियाश च महावीर्या भगदत्तपुरॊगमाः दिव्यास्त्रविदुषः शूराः कषपयिष्यन्ति ते रिपून
MBh 3.240.10
तद अलं ते विषादेन भयं तव न विद्यते साह्यार्थं च हि ते वीराः संभूता भुवि दानवाः
MBh 3.240.11
भीष्मद्रॊणकृपादींश च परवेक्ष्यन्त्य अपरे ऽसुराः यैर आविष्टा घृणां तयक्त्वा यॊत्स्यन्ते तव वैरिभिः
MBh 3.240.12
नैव पुत्रान न च भरातॄन न पितॄन न च बान्धवान नैव शिष्यान न च जञातीन न बालान सथविरान न च
MBh 3.240.13
युधि संप्रहरिष्यन्तॊ मॊक्ष्यन्ति कुरुसत्तम निःस्नेहा दानवाविष्टाः समाक्रान्तान्तर आत्मनि
MBh 3.240.14
परहरिष्यन्ति बन्धुभ्यः सनेहम उत्सृज्य दूरतः हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः अविज्ञान विमूढाश च दैवाच च विधिनिर्मितात
MBh 3.240.15
वयाभाषमाणाश चान्यॊन्यं न मे जीवन विमॊक्ष्यसे सर्वशस्त्रास्त्रमॊक्षेण पौरुषे समवस्थिताः शलाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम
MBh 3.240.16
ते ऽपि शक्त्या महात्मानः परतियॊत्स्यन्ति पाण्डवाः वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः
MBh 3.240.17
दैत्य रक्षॊगणाश चापि संभूताः कषत्रयॊनिषु यॊत्स्यन्ति युधि विक्रम्य शत्रुभिस तव पार्थिव गदाभिर मुसलैः खड्गैः शस्त्रैर उच्चावचैस तथा
MBh 3.240.18
यच च ते ऽनतर्गतं वीर भयम अर्जुन संभवम तत्रापि विहितॊ ऽसमाभिर वधॊपायॊ ऽरजुनस्य वै
MBh 3.240.19
हतस्य नरकस्यात्मा कर्ण मूर्तिम उपाश्रितः तद वैरं संस्मरन वीर यॊत्स्यते केशवार्जुनौ
MBh 3.240.20
स ते विक्रमशौण्डीरॊ रणे पार्थं विजेष्यति कर्णः परहरतां शरेष्ठः सर्वांश चारीन महारथः
MBh 3.240.21
जञात्वैतच छद्मना वज्री रक्षार्थं सव्यसाचिनः कुण्डले कवचं चैव कर्णस्यापहरिष्यति
MBh 3.240.22
तस्माद अस्माभिर अप्य अत्र दैत्याः शतसहस्रशः नियुक्ता राक्षसश चैव ये ते संशप्तका इति परख्यातास ते ऽरजुनं वीरं निहनिष्यन्ति मा शुचः
MBh 3.240.23
असपत्ना तवया हीयं भॊक्तव्या वसुधा नृप मा विषादं नयस्वास्मान नैतत तवय्य उपपद्यते विनष्टे तवयि चास्माकं पक्षॊ हीयेत कौरव
MBh 3.240.24
गच्छ वीर न ते बुद्धिर अन्या कार्या कथंचनन तवम अस्माकं गतिर नित्यं देवतानां च पाण्डवाः
MBh 3.240.25
[वै] एवम उक्त्वा परिष्वज्य दैत्यास तं राजजुञ्जरम समाश्वास्य च दुर्धर्षं पुत्रवद दानवर्षभाः
MBh 3.240.26
सथिरां कृत्वा बुद्धिम अस्य परियाण्य उक्त्वा च भारत गम्यताम इत्य अनुज्ञाय जयम आप्नुहि चेत्य अथ
MBh 3.240.27
तैर विसृष्टं महाबाहुं कृत्या सैवानयत पुनः तम एव देशं यत्रासौ तदा परायम उपाविशत
MBh 3.240.28
परतिनिक्षिप्य तं वीरं कृत्या समभिपूज्य च अनुज्ञाता च राज्ञा सा तत्रैवान्तरधीयत
MBh 3.240.29
गतायाम अथ तस्यां तु राजा दुर्यॊधनस तदा सवप्नभूतम इदं सर्वम अचिन्तयत भारत विजेष्यमै रणे पाण्डून इति तस्याभवन मतिः
MBh 3.240.30
कर्णं संशप्तकांश चैव पार्थस्यामित्र घातिनः अमन्यत वधे युक्तान समर्थांश च सुयॊधनः
MBh 3.240.31
एवम आशा दृढा तस्य धार्तराष्ट्रस्य दुर्मतेः विनिर्जये पाण्डवानाम अभवद भरतर्षभ
MBh 3.240.32
कर्णॊ ऽपय आविष्ट चित्तात्मा नरकस्यान्तर आत्मना अर्जुनस्य वधे करूराम अकरॊत स मतिं तदा
MBh 3.240.33
संशप्तकाश च ते वीरा राक्षसाविष्ट चेतसः रजस तमॊभ्याम आक्रान्ताः फल्गुनस्य वधैषिणः
MBh 3.240.34
भीष्मद्रॊणकृपाद्याश च दानवाक्रान्त चेतसः न तथा पाण्डुपुत्राणां सनेहवन्तॊ विशां पते न चाचचक्षे कस्मै चिद एतद राजा सुयॊधनः
MBh 3.240.35
दुर्यॊधनं निशान्ते च कर्णॊ वैकर्तनॊ ऽबरवीत समयन्न इवाञ्जलिं कृत्वा पार्थिवं हेतुमद वचः
MBh 3.240.36
न मृतॊ जयते शत्रूञ जीवन भद्राणि पश्यति मृतस्य भद्राणि कुतः कौरवेय कुतॊ जयः न कालॊ ऽदय विषादस्य भयस्य मरणस्य वा
MBh 3.240.37
परिष्वज्याब्रवीच चैनं भुजाभ्यां स महाभुजः उत्तिष्ठ राजन किं शेषे कस्माच छॊचसि शत्रुहन शत्रून परताप्य वीर्येण स कथं मर्तुम इच्छसि
MBh 3.240.38
अथ वा ते भयं जातं दृष्ट्वार्जुन पराक्रमम सत्यं ते परतिजानामि वधिष्यामि रणे ऽरजुनम
MBh 3.240.39
गते तरयॊदशे वर्षे सत्येनायुधम आलभे आनयिष्याम्य अहं पार्थान वशं तव जनाधिप
MBh 3.240.40
एवम उक्तस तु कर्णेन दैत्यानां वचनात तथा परणिपातेन चान्येषाम उदतिष्ठत सुयॊधनः दैत्यानां तद वचॊ शरुत्वा हृदि कृत्वा सथिरां मतिम
MBh 3.240.41
ततॊ मनुजशार्दूलॊ यॊजयाम आस वाहिनीम रथनागाश्वकलिलां पदातिजनसंकुलाम
MBh 3.240.42
गङ्गौघप्रतिमा राजन परयाता सा महाचमूः शवेतछत्रैः पताकाभिश चामरैश च सुपाण्डुरैः
MBh 3.240.43
रथैर नागैः पदातैश च शुशुभे ऽतीव संकुला वयपेताभ्र घने काले दयौर इवाव्यक्त शारदी
MBh 3.240.44
जयाशीर्भिर दविजेन्द्रैस तु सतूयमानॊ ऽधिराजवत गृह्णन्न अञ्जलिमालाश च धार्तराष्ट्रॊ जनाधिपः
MBh 3.240.45
सुयॊधनॊ ययाव अग्रे शरिया परमया जवलन कर्णेन सार्धं राजेन्द्र सौबलेन च देविना
MBh 3.240.46
दुःशासनादयश चास्य भरातरः सर्व एव ते भूरिश्रवाः सॊमदत्तॊ महाराजश च बाह्लिकः
MBh 3.240.47
रथैर नानाविधाकारैर हयैर गजवरैस तथा परयान्तं नृप सिंहं तम अनुजग्मुः कुरूद्वहाः कालेनाल्पेन राजंस ते विविशुः सवपुरं तदा

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷