🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 24

The Book of the Forest · Parva 3 · 16 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 16 Shlokas

MBh 3.24.1
वैशंपायन उवाच तस्मिन्दशार्हाधिपतौ प्रयाते; युधिष्ठिरो भीमसेनार्जुनौ च यमौ च कृष्णा च पुरोहितश्च; रथान्महार्हान्परमाश्वयुक्तान्
MBh 3.24.2
आस्थाय वीराः सहिता वनाय; प्रतस्थिरे भूतपतिप्रकाशाः हिरण्यनिष्कान्वसनानि गाश्च; प्रदाय शिक्षाक्षरमन्त्रविद्भ्यः
MBh 3.24.3
प्रेष्याः पुरो विंशतिरात्तशस्त्रा; धनूंषि वर्माणि शरांश्च पीतान् मौर्वीश्च यन्त्राणि च सायकांश्च; सर्वे समादाय जघन्यमीयुः
MBh 3.24.4
ततस्तु वासांसि च राजपुत्र्या; धात्र्यश्च दास्यश्च विभूषणं च तदिन्द्रसेनस्त्वरितं प्रगृह्य; जघन्यमेवोपययौ रथेन
MBh 3.24.5
ततः कुरुश्रेष्ठमुपेत्य पौराः; प्रदक्षिणं चक्रुरदीनसत्त्वाः तं ब्राह्मणाश्चाभ्यवदन्प्रसन्ना; मुख्याश्च सर्वे कुरुजाङ्गलानाम्
MBh 3.24.6
स चापि तानभ्यवदत्प्रसन्नः; सहैव तैर्भ्रातृभिर्धर्मराजः तस्थौ च तत्राधिपतिर्महात्मा; दृष्ट्वा जनौघं कुरुजाङ्गलानाम्
MBh 3.24.7
पितेव पुत्रेषु स तेषु भावं; चक्रे कुरूणामृषभो महात्मा ते चापि तस्मिन्भरतप्रबर्हे; तदा बभूवुः पितरीव पुत्राः
MBh 3.24.8
ततः समासाद्य महाजनौघाः; कुरुप्रवीरं परिवार्य तस्थुः हा नाथ हा धर्म इति ब्रुवन्तो; ह्रिया च सर्वेऽश्रुमुखा बभूवुः
MBh 3.24.9
वरः कुरूणामधिपः प्रजानां; पितेव पुत्रानपहाय चास्मान् पौरानिमाञ्जानपदांश्च सर्वा;न्हित्वा प्रयातः क्व नु धर्मराजः
MBh 3.24.10
धिग्धार्तराष्ट्रं सुनृशंसबुद्धिं; ससौबलं पापमतिं च कर्णम् अनर्थमिच्छन्ति नरेन्द्र पापा; ये धर्मनित्यस्य सतस्तवोग्राः
MBh 3.24.11
स्वयं निवेश्याप्रतिमं महात्मा; पुरं महद्देवपुरप्रकाशम् शतक्रतुप्रस्थममोघकर्मा; हित्वा प्रयातः क्व नु धर्मराजः
MBh 3.24.12
चकार यामप्रतिमां महात्मा; सभां मयो देवसभाप्रकाशाम् तां देवगुप्तामिव देवमायां; हित्वा प्रयातः क्व नु धर्मराजः
MBh 3.24.13
तान्धर्मकामार्थविदुत्तमौजा; बीभत्सुरुच्चैः सहितानुवाच आदास्यते वासमिमं निरुष्य; वनेषु राजा द्विषतां यशांसि
MBh 3.24.14
द्विजातिमुख्याः सहिताः पृथक्च; भवद्भिरासाद्य तपस्विनश्च प्रसाद्य धर्मार्थविदश्च वाच्या; यथार्थसिद्धिः परमा भवेन्नः
MBh 3.24.15
इत्येवमुक्ते वचनेऽर्जुनेन; ते ब्राह्मणाः सर्ववर्णाश्च राजन् मुदाभ्यनन्दन्सहिताश्च चक्रुः; प्रदक्षिणं धर्मभृतां वरिष्ठम्
MBh 3.24.16
आमन्त्र्य पार्थं च वृकोदरं च; धनंजयं याज्ञसेनीं यमौ च प्रतस्थिरे राष्ट्रमपेतहर्षा; युधिष्ठिरेणानुमता यथास्वम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 16 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.24local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷