🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 218
The Book of the Forest · Parva 3 · 49 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 49 Shlokas
MBh 3.218.1
मार्कण्डेय उवाच
उपविष्टं ततः स्कन्दं हिरण्यकवचस्रजम्
हिरण्यचूडमुकुटं हिरण्याक्षं महाप्रभम्
MBh 3.218.2
लोहिताम्बरसंवीतं तीक्ष्णदंष्ट्रं मनोरमम्
सर्वलक्षणसंपन्नं त्रैलोक्यस्यापि सुप्रियम्
MBh 3.218.3
ततस्तं वरदं शूरं युवानं मृष्टकुण्डलम्
अभजत्पद्मरूपा श्रीः स्वयमेव शरीरिणी
MBh 3.218.4
श्रिया जुष्टः पृथुयशाः स कुमारवरस्तदा
निषण्णो दृश्यते भूतैः पौर्णमास्यां यथा शशी
MBh 3.218.5
अपूजयन्महात्मानो ब्राह्मणास्तं महाबलम्
इदमाहुस्तदा चैव स्कन्दं तत्र महर्षयः
MBh 3.218.6
हिरण्यवर्ण भद्रं ते लोकानां शंकरो भव
त्वया षड्रात्रजातेन सर्वे लोका वशीकृताः
MBh 3.218.7
अभयं च पुनर्दत्तं त्वयैवैषां सुरोत्तम
तस्मादिन्द्रो भवानस्तु त्रैलोक्यस्याभयंकरः
MBh 3.218.8
स्कन्द उवाच
किमिन्द्रः सर्वलोकानां करोतीह तपोधनाः
कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः
MBh 3.218.9
ऋषय ऊचुः
इन्द्रो दिशति भूतानां बलं तेजः प्रजाः सुखम्
तुष्टः प्रयच्छति तथा सर्वान्दायान्सुरेश्वरः
MBh 3.218.10
दुर्वृत्तानां संहरति वृत्तस्थानां प्रयच्छति
अनुशास्ति च भूतानि कार्येषु बलसूदनः
MBh 3.218.11
असूर्ये च भवेत्सूर्यस्तथाचन्द्रे च चन्द्रमाः
भवत्यग्निश्च वायुश्च पृथिव्यापश्च कारणैः
MBh 3.218.12
एतदिन्द्रेण कर्तव्यमिन्द्रे हि विपुलं बलम्
त्वं च वीर बलश्रेष्ठस्तस्मादिन्द्रो भवस्व नः
MBh 3.218.13
शक्र उवाच
भवस्वेन्द्रो महाबाहो सर्वेषां नः सुखावहः
अभिषिच्यस्व चैवाद्य प्राप्तरूपोऽसि सत्तम
MBh 3.218.14
स्कन्द उवाच
शाधि त्वमेव त्रैलोक्यमव्यग्रो विजये रतः
अहं ते किंकरः शक्र न ममेन्द्रत्वमीप्सितम्
MBh 3.218.15
शक्र उवाच
बलं तवाद्भुतं वीर त्वं देवानामरीञ्जहि
अवज्ञास्यन्ति मां लोका वीर्येण तव विस्मिताः
MBh 3.218.16
इन्द्रत्वेऽपि स्थितं वीर बलहीनं पराजितम्
आवयोश्च मिथो भेदे प्रयतिष्यन्त्यतन्द्रिताः
MBh 3.218.17
भेदिते च त्वयि विभो लोको द्वैधमुपेष्यति
द्विधाभूतेषु लोकेषु निश्चितेष्वावयोस्तथा
विग्रहः संप्रवर्तेत भूतभेदान्महाबल
MBh 3.218.18
तत्र त्वं मां रणे तात यथाश्रद्धं विजेष्यसि
तस्मादिन्द्रो भवानद्य भविता मा विचारय
MBh 3.218.19
स्कन्द उवाच
त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च
करोमि किं च ते शक्र शासनं तद्ब्रवीहि मे
MBh 3.218.20
शक्र उवाच
यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया
यदि वा शासनं स्कन्द कर्तुमिच्छसि मे शृणु
MBh 3.218.21
अभिषिच्यस्व देवानां सेनापत्ये महाबल
अहमिन्द्रो भविष्यामि तव वाक्यान्महाबल
MBh 3.218.22
स्कन्द उवाच
दानवानां विनाशाय देवानामर्थसिद्धये
गोब्राह्मणस्य त्राणार्थं सेनापत्येऽभिषिञ्च माम्
MBh 3.218.23
मार्कण्डेय उवाच
सोऽभिषिक्तो मघवता सर्वैर्देवगणैः सह
अतीव शुशुभे तत्र पूज्यमानो महर्षिभिः
MBh 3.218.24
तस्य तत्काञ्चनं छत्रं ध्रियमाणं व्यरोचत
यथैव सुसमिद्धस्य पावकस्यात्ममण्डलम्
MBh 3.218.25
विश्वकर्मकृता चास्य दिव्या माला हिरण्मयी
आबद्धा त्रिपुरघ्नेन स्वयमेव यशस्विना
MBh 3.218.26
आगम्य मनुजव्याघ्र सह देव्या परंतप
अर्चयामास सुप्रीतो भगवान्गोवृषध्वजः
MBh 3.218.27
रुद्रमग्निं द्विजाः प्राहू रुद्रसूनुस्ततस्तु सः
रुद्रेण शुक्रमुत्सृष्टं तच्छ्वेतः पर्वतोऽभवत्
पावकस्येन्द्रियं श्वेते कृत्तिकाभिः कृतं नगे
MBh 3.218.28
पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वे दिवौकसः
रुद्रसूनुं ततः प्राहुर्गुहं गुणवतां वरम्
MBh 3.218.29
अनुप्रविश्य रुद्रेण वह्निं जातो ह्ययं शिशुः
तत्र जातस्ततः स्कन्दो रुद्रसूनुस्ततोऽभवत्
MBh 3.218.30
रुद्रस्य वह्नेः स्वाहायाः षण्णां स्त्रीणां च तेजसा
जातः स्कन्दः सुरश्रेष्ठो रुद्रसूनुस्ततोऽभवत्
MBh 3.218.31
अरजे वाससी रक्ते वसानः पावकात्मजः
भाति दीप्तवपुः श्रीमान्रक्ताभ्राभ्यामिवांशुमान्
MBh 3.218.32
कुक्कुटश्चाग्निना दत्तस्तस्य केतुरलंकृतः
रथे समुच्छ्रितो भाति कालाग्निरिव लोहितः
MBh 3.218.33
विवेश कवचं चास्य शरीरं सहजं ततः
युध्यमानस्य देवस्य प्रादुर्भवति तत्सदा
MBh 3.218.34
शक्तिर्वर्म बलं तेजः कान्तत्वं सत्यमक्षतिः
ब्रह्मण्यत्वमसंमोहो भक्तानां परिरक्षणम्
MBh 3.218.35
निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम्
स्कन्देन सह जातानि सर्वाण्येव जनाधिप
MBh 3.218.36
एवं देवगणैः सर्वैः सोऽभिषिक्तः स्वलंकृतः
बभौ प्रतीतः सुमनाः परिपूर्णेन्दुदर्शनः
MBh 3.218.37
इष्टैः स्वाध्यायघोषैश्च देवतूर्यरवैरपि
देवगन्धर्वगीतैश्च सर्वैरप्सरसां गणैः
MBh 3.218.38
एतैश्चान्यैश्च विविधैर्हृष्टतुष्टैरलंकृतैः
क्रीडन्निव तदा देवैरभिषिक्तः स पावकिः
MBh 3.218.39
अभिषिक्तं महासेनमपश्यन्त दिवौकसः
विनिहत्य तमः सूर्यं यथेहाभ्युदितं तथा
MBh 3.218.40
अथैनमभ्ययुः सर्वा देवसेनाः सहस्रशः
अस्माकं त्वं पतिरिति ब्रुवाणाः सर्वतोदिशम्
MBh 3.218.41
ताः समासाद्य भगवान्सर्वभूतगणैर्वृतः
अर्चितश्च स्तुतश्चैव सान्त्वयामास ता अपि
MBh 3.218.42
शतक्रतुश्चाभिषिच्य स्कन्दं सेनापतिं तदा
सस्मार तां देवसेनां या सा तेन विमोक्षिता
MBh 3.218.43
अयं तस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम्
इति चिन्त्यानयामास देवसेनां स्वलंकृताम्
MBh 3.218.44
स्कन्दं चोवाच बलभिदियं कन्या सुरोत्तम
अजाते त्वयि निर्दिष्टा तव पत्नी स्वयंभुवा
MBh 3.218.45
तस्मात्त्वमस्या विधिवत्पाणिं मन्त्रपुरस्कृतम्
गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसम्
MBh 3.218.46
एवमुक्तः स जग्राह तस्याः पाणिं यथाविधि
बृहस्पतिर्मन्त्रविधिं जजाप च जुहाव च
MBh 3.218.47
एवं स्कन्दस्य महिषीं देवसेनां विदुर्बुधाः
षष्ठीं यां ब्राह्मणाः प्राहुर्लक्ष्मीमाशां सुखप्रदाम्
सिनीवालीं कुहूं चैव सद्वृत्तिमपराजिताम्
MBh 3.218.48
यदा स्कन्दः पतिर्लब्धः शाश्वतो देवसेनया
तदा तमाश्रयल्लक्ष्मीः स्वयं देवी शरीरिणी
MBh 3.218.49
श्रीजुष्टः पञ्चमीं स्कन्दस्तस्माच्छ्रीपञ्चमी स्मृता
षष्ठ्यां कृतार्थोऽभूद्यस्मात्तस्मात्षष्ठी महातिथिः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 217
- Next chapter · Vana-Parva (Āraṇyaka) Ch 219 →
Sources and Connected Readings
Continue from these 49 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.218local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷