🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 198

The Book of the Forest · Parva 3 · 94 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 94 Shlokas

MBh 3.198.1
मार्कण्डेय उवाच चिन्तयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेषतः विनिन्दन्स द्विजोऽऽत्मानमागस्कृत इवाबभौ
MBh 3.198.2
चिन्तयानः स धर्मस्य सूक्ष्मां गतिमथाब्रवीत् श्रद्दधानेन भाव्यं वै गच्छामि मिथिलामहम्
MBh 3.198.3
कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल तं गच्छाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम्
MBh 3.198.4
इति संचिन्त्य मनसा श्रद्दधानः स्त्रिया वचः बलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैः शुभैः संप्रतस्थे स मिथिलां कौतूहलसमन्वितः
MBh 3.198.5
अतिक्रामन्नरण्यानि ग्रामांश्च नगराणि च ततो जगाम मिथिलां जनकेन सुरक्षिताम्
MBh 3.198.6
धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभाम् गोपुराट्टालकवतीं गृहप्राकारशोभिताम्
MBh 3.198.7
प्रविश्य स पुरीं रम्यां विमानैर्बहुभिर्वृताम् पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथाम्
MBh 3.198.8
अश्वै रथैस्तथा नागैर्यानैश्च बहुभिर्वृताम् हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम्
MBh 3.198.9
सोऽपश्यद्बहुवृत्तान्तां ब्राह्मणः समतिक्रमन् धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः
MBh 3.198.10
अपश्यत्तत्र गत्वा तं सूनामध्ये व्यवस्थितम् मार्गमाहिषमांसानि विक्रीणन्तं तपस्विनम् आकुलत्वात्तु क्रेतॄणामेकान्ते संस्थितो द्विजः
MBh 3.198.11
स तु ज्ञात्वा द्विजं प्राप्तं सहसा संभ्रमोत्थितः आजगाम यतो विप्रः स्थित एकान्त आसने
MBh 3.198.12
व्याध उवाच अभिवादये त्वा भगवन्स्वागतं ते द्विजोत्तम अहं व्याधस्तु भद्रं ते किं करोमि प्रशाधि माम्
MBh 3.198.13
एकपत्न्या यदुक्तोऽसि गच्छ त्वं मिथिलामिति जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः
MBh 3.198.14
मार्कण्डेय उवाच श्रुत्वा तु तस्य तद्वाक्यं स विप्रो भृशहर्षितः द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः
MBh 3.198.15
अदेशस्थं हि ते स्थानमिति व्याधोऽब्रवीद्द्विजम् गृहं गच्छाव भगवन्यदि रोचयसेऽनघ
MBh 3.198.16
बाढमित्येव संहृष्टो विप्रो वचनमब्रवीत् अग्रतस्तु द्विजं कृत्वा स जगाम गृहान्प्रति
MBh 3.198.17
प्रविश्य च गृहं रम्यमासनेनाभिपूजितः पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः
MBh 3.198.18
ततः सुखोपविष्टस्तं व्याधं वचनमब्रवीत् कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे अनुतप्ये भृशं तात तव घोरेण कर्मणा
MBh 3.198.19
व्याध उवाच कुलोचितमिदं कर्म पितृपैतामहं मम वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज
MBh 3.198.20
धात्रा तु विहितं पूर्वं कर्म स्वं पालयाम्यहम् प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम
MBh 3.198.21
सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च देवतातिथिभृत्यानामवशिष्टेन वर्तये
MBh 3.198.22
न कुत्सयाम्यहं किंचिन्न गर्हे बलवत्तरम् कृतमन्वेति कर्तारं पुरा कर्म द्विजोत्तम
MBh 3.198.23
कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनम् दण्डनीतिस्त्रयी विद्या तेन लोका भवन्त्युत
MBh 3.198.24
कर्म शूद्रे कृषिर्वैश्ये संग्रामः क्षत्रिये स्मृतः ब्रह्मचर्यं तपो मन्त्राः सत्यं च ब्राह्मणे सदा
MBh 3.198.25
राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः विकर्माणश्च ये केचित्तान्युनक्ति स्वकर्मसु
MBh 3.198.26
भेतव्यं हि सदा राज्ञां प्रजानामधिपा हि ते मारयन्ति विकर्मस्थं लुब्धा मृगमिवेषुभिः
MBh 3.198.27
जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते स्वकर्मनिरता वर्णाश्चत्वारोऽपि द्विजोत्तम
MBh 3.198.28
स एष जनको राजा दुर्वृत्तमपि चेत्सुतम् दण्ड्यं दण्डे निक्षिपति तथा न ग्लाति धार्मिकम्
MBh 3.198.29
सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम
MBh 3.198.30
राजानो हि स्वधर्मेण श्रियमिच्छन्ति भूयसीम् सर्वेषामेव वर्णानां त्राता राजा भवत्युत
MBh 3.198.31
परेण हि हतान्ब्रह्मन्वराहमहिषानहम् न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्वहम्
MBh 3.198.32
न भक्षयामि मांसानि ऋतुगामी तथा ह्यहम् सदोपवासी च तथा नक्तभोजी तथा द्विज
MBh 3.198.33
अशीलश्चापि पुरुषो भूत्वा भवति शीलवान् प्राणिहिंसारतश्चापि भवते धार्मिकः पुनः
MBh 3.198.34
व्यभिचारान्नरेन्द्राणां धर्मः संकीर्यते महान् अधर्मो वर्धते चापि संकीर्यन्ते तथा प्रजाः
MBh 3.198.35
उरुण्डा वामनाः कुब्जाः स्थूलशीर्षास्तथैव च क्लीबाश्चान्धाश्च जायन्ते बधिरा लम्बचूचुकाः पार्थिवानामधर्मत्वात्प्रजानामभवः सदा
MBh 3.198.36
स एष राजा जनकः सर्वं धर्मेण पश्यति अनुगृह्णन्प्रजाः सर्वाः स्वधर्मनिरताः सदा
MBh 3.198.37
ये चैव मां प्रशंसन्ति ये च निन्दन्ति मानवाः सर्वान्सुपरिणीतेन कर्मणा तोषयाम्यहम्
MBh 3.198.38
ये जीवन्ति स्वधर्मेण संभुञ्जन्ते च पार्थिवाः न किंचिदुपजीवन्ति दक्षा उत्थानशीलिनः
MBh 3.198.39
शक्त्यान्नदानं सततं तितिक्षा धर्मनित्यता यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठन्ति पूरुषे
MBh 3.198.40
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत्
MBh 3.198.41
प्रिये नातिभृशं हृष्येदप्रिये न च संज्वरेत् न मुह्येदर्थकृच्छ्रेषु न च धर्मं परित्यजेत्
MBh 3.198.42
कर्म चेत्किंचिदन्यत्स्यादितरन्न समाचरेत् यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत्
MBh 3.198.43
न पापं प्रति पापः स्यात्साधुरेव सदा भवेत् आत्मनैव हतः पापो यः पापं कर्तुमिच्छति
MBh 3.198.44
कर्म चैतदसाधूनां वृजिनानामसाधुवत् न धर्मोऽस्तीति मन्वानाः शुचीनवहसन्ति ये अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः
MBh 3.198.45
महादृतिरिवाध्मातः पापो भवति नित्यदा मूढानामवलिप्तानामसारं भाषितं भवेत् दर्शयत्यन्तरात्मानं दिवा रूपमिवांशुमान्
MBh 3.198.46
न लोके राजते मूर्खः केवलात्मप्रशंसया अपि चेह मृजा हीनः कृतविद्यः प्रकाशते
MBh 3.198.47
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन् न कश्चिद्गुणसंपन्नः प्रकाशो भुवि दृश्यते
MBh 3.198.48
विकर्मणा तप्यमानः पापाद्विपरिमुच्यते नैतत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते
MBh 3.198.49
कर्मणा येन तेनेह पापाद्द्विजवरोत्तम एवं श्रुतिरियं ब्रह्मन्धर्मेषु परिदृश्यते
MBh 3.198.50
पापान्यबुद्ध्वेह पुरा कृतानि; प्राग्धर्मशीलो विनिहन्ति पश्चात् धर्मो ब्रह्मन्नुदते पूरुषाणां; यत्कुर्वते पापमिह प्रमादात्
MBh 3.198.51
पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः
MBh 3.198.52
वसनस्येव छिद्राणि साधूनां विवृणोति यः पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते मुच्यते सर्वपापेभ्यो महाभ्रैरिव चन्द्रमाः
MBh 3.198.53
यथादित्यः समुद्यन्वै तमः सर्वं व्यपोहति एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते
MBh 3.198.54
पापानां विद्ध्यधिष्ठानं लोभमेव द्विजोत्तम लुब्धाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः
MBh 3.198.55
तेषां दमः पवित्राणि प्रलापा धर्मसंश्रिताः सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः
MBh 3.198.56
मार्कण्डेय उवाच स तु विप्रो महाप्राज्ञो धर्मव्याधमपृच्छत शिष्टाचारं कथमहं विद्यामिति नरोत्तम एतन्महामते व्याध प्रब्रवीहि यथातथम्
MBh 3.198.57
व्याध उवाच यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा
MBh 3.198.58
कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम् धर्म इत्येव संतुष्टास्ते शिष्टाः शिष्टसंमताः
MBh 3.198.59
न तेषां विद्यतेऽवृत्तं यज्ञस्वाध्यायशीलिनाम् आचारपालनं चैव द्वितीयं शिष्टलक्षणम्
MBh 3.198.60
गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च एतच्चतुष्टयं ब्रह्मञ्शिष्टाचारेषु नित्यदा
MBh 3.198.61
शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः यामयं लभते तुष्टिं सा न शक्या ह्यतोऽन्यथा
MBh 3.198.62
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः दमस्योपनिषत्त्यागः शिष्टाचारेषु नित्यदा
MBh 3.198.63
ये तु धर्ममसूयन्ते बुद्धिमोहान्विता नराः अपथा गच्छतां तेषामनुयातापि पीड्यते
MBh 3.198.64
ये तु शिष्टाः सुनियताः श्रुतित्यागपरायणाः धर्म्यं पन्थानमारूढाः सत्यधर्मपरायणाः
MBh 3.198.65
नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता नराः उपाध्यायमते युक्ताः स्थित्या धर्मार्थदर्शिनः
MBh 3.198.66
नास्तिकान्भिन्नमर्यादान्क्रूरान्पापमतौ स्थितान् त्यज ताञ्ज्ञानमाश्रित्य धार्मिकानुपसेव्य च
MBh 3.198.67
कामलोभग्रहाकीर्णां पञ्चेन्द्रियजलां नदीम् नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर
MBh 3.198.68
क्रमेण संचितो धर्मो बुद्धियोगमयो महान् शिष्टाचारे भवेत्साधू रागः शुक्लेव वाससि
MBh 3.198.69
अहिंसा सत्यवचनं सर्वभूतहितं परम् अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः सत्ये कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः
MBh 3.198.70
सत्यमेव गरीयस्तु शिष्टाचारनिषेवितम् आचारश्च सतां धर्मः सन्तश्चाचारलक्षणाः
MBh 3.198.71
यो यथाप्रकृतिर्जन्तुः स्वां स्वां प्रकृतिमश्नुते पापात्मा क्रोधकामादीन्दोषानाप्नोत्यनात्मवान्
MBh 3.198.72
आरम्भो न्याययुक्तो यः स हि धर्म इति स्मृतः अनाचारस्त्वधर्मेति एतच्छिष्टानुशासनम्
MBh 3.198.73
अक्रुध्यन्तोऽनसूयन्तो निरहंकारमत्सराः ऋजवः शमसंपन्नाः शिष्टाचारा भवन्ति ते
MBh 3.198.74
त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो मनस्विनः गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्युत
MBh 3.198.75
तेषामदीनसत्त्वानां दुष्कराचारकर्मणाम् स्वैः कर्मभिः सत्कृतानां घोरत्वं संप्रणश्यति
MBh 3.198.76
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् धर्मं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः
MBh 3.198.77
आस्तिका मानहीनाश्च द्विजातिजनपूजकाः श्रुतवृत्तोपसंपन्नाः ते सन्तः स्वर्गगामिनः
MBh 3.198.78
वेदोक्तः परमो धर्मो धर्मशास्त्रेषु चापरः शिष्टाचीर्णश्च शिष्टानां त्रिविधं धर्मलक्षणम्
MBh 3.198.79
पारणं चापि विद्यानां तीर्थानामवगाहनम् क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनम्
MBh 3.198.80
सर्वभूतदयावन्तो अहिंसानिरताः सदा परुषं न प्रभाषन्ते सदा सन्तो द्विजप्रियाः
MBh 3.198.81
शुभानामशुभानां च कर्मणां फलसंचये विपाकमभिजानन्ति ते शिष्टाः शिष्टसंमताः
MBh 3.198.82
न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः सन्तः स्वर्गजितः शुक्लाः संनिविष्टाश्च सत्पथे
MBh 3.198.83
दातारः संविभक्तारो दीनानुग्रहकारिणः सर्वभूतदयावन्तस्ते शिष्टाः शिष्टसंमताः
MBh 3.198.84
सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः दाननित्याः सुखाँल्लोकानाप्नुवन्तीह च श्रियम्
MBh 3.198.85
पीडया च कलत्रस्य भृत्यानां च समाहिताः अतिशक्त्या प्रयच्छन्ति सन्तः सद्भिः समागताः
MBh 3.198.86
लोकयात्रां च पश्यन्तो धर्ममात्महितानि च एवं सन्तो वर्तमाना एधन्ते शाश्वतीः समाः
MBh 3.198.87
अहिंसा सत्यवचनमानृशंस्यमथार्जवम् अद्रोहो नातिमानश्च ह्रीस्तितिक्षा दमः शमः
MBh 3.198.88
धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः अकामद्वेषसंयुक्तास्ते सन्तो लोकसत्कृताः
MBh 3.198.89
त्रीण्येव तु पदान्याहुः सतां वृत्तमनुत्तमम् न द्रुह्येच्चैव दद्याच्च सत्यं चैव सदा वदेत्
MBh 3.198.90
सर्वत्र च दयावन्तः सन्तः करुणवेदिनः गच्छन्तीह सुसंतुष्टा धर्म्यं पन्थानमुत्तमम् शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः
MBh 3.198.91
अनसूया क्षमा शान्तिः संतोषः प्रियवादिता कामक्रोधपरित्यागः शिष्टाचारनिषेवणम्
MBh 3.198.92
कर्मणा श्रुतसंपन्नं सतां मार्गमनुत्तमम् शिष्टाचारं निषेवन्ते नित्यं धर्मेष्वतन्द्रिताः
MBh 3.198.93
प्रज्ञाप्रासादमारुह्य मुह्यतो महतो जनान् प्रेक्षन्तो लोकवृत्तानि विविधानि द्विजोत्तम अतिपुण्यानि पापानि तानि द्विजवरोत्तम
MBh 3.198.94
एतत्ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम् शिष्टाचारगुणान्ब्रह्मन्पुरस्कृत्य द्विजर्षभ

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 94 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.198local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷