🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 190
The Book of the Forest · Parva 3 · 82 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 82 Shlokas
MBh 3.190.1
वैशंपायन उवाच
भूय एव ब्राह्मणमहाभाग्यं वक्तुमर्हसीत्यब्रवीत्पाण्डवेयो मार्कण्डेयम्
MBh 3.190.2
अथाचष्ट मार्कण्डेयः
MBh 3.190.3
अयोध्यायामिक्ष्वाकुकुलोत्पन्नः पार्थिवः परिक्षिन्नाम मृगयामगमत्
MBh 3.190.4
तमेकाश्वेन मृगमनुसरन्तं मृगो दूरमपाहरत्
MBh 3.190.5
अथाध्वनि जातश्रमः क्षुत्तृष्णाभिभूतश्च कस्मिंश्चिदुद्देशे नीलं वनषण्डमपश्यत्
तच्च विवेश
MBh 3.190.6
ततस्तस्य वनषण्डस्य मध्येऽतीव रमणीयं सरो दृष्ट्वा साश्व एव व्यगाहत
MBh 3.190.7
अथाश्वस्तः स बिसमृणालमश्वस्याग्रे निक्षिप्य पुष्करिणीतीरे समाविशत्
MBh 3.190.8
ततः शयानो मधुरं गीतशब्दमशृणोत्
MBh 3.190.9
स श्रुत्वाचिन्तयत्
नेह मनुष्यगतिं पश्यामि
कस्य खल्वयं गीतशब्द इति
MBh 3.190.10
अथापश्यत्कन्यां परमरूपदर्शनीयां पुष्पाण्यवचिन्वतीं गायन्तीं च
MBh 3.190.11
अथ सा राज्ञः समीपे पर्यक्रामत्
MBh 3.190.12
तामब्रवीद्राजा
कस्यासि सुभगे त्वमिति
MBh 3.190.13
सा प्रत्युवाच
कन्यास्मीति
MBh 3.190.14
तां राजोवाच
अर्थी त्वयाहमिति
MBh 3.190.15
अथोवाच कन्या
समयेनाहं शक्या त्वया लब्धुम्
नान्यथेति
MBh 3.190.16
तां राजा समयमपृच्छत्
MBh 3.190.17
ततः कन्येदमुवाच
उदकं मे न दर्शयितव्यमिति
MBh 3.190.18
स राजा बाढमित्युक्त्वा तां समागम्य तया सहास्ते
MBh 3.190.19
तत्रैवासीने राजनि सेनान्वगच्छत्
पदेनानुपदं दृष्ट्वा राजानं परिवार्यातिष्ठत्
MBh 3.190.20
पर्याश्वस्तश्च राजा तयैव सह शिबिकया प्रायादविघाटितया
स्वनगरमनुप्राप्य रहसि तया सह रमन्नास्ते
नान्यत्किंचनापश्यत्
MBh 3.190.21
अथ प्रधानामात्यस्तस्याभ्याशचराः स्त्रियोऽपृच्छत्
किमत्र प्रयोजनं वर्तत इति
MBh 3.190.22
अथाब्रुवंस्ताः स्त्रियः
अपूर्वमिव पश्याम उदकं नात्र नीयतेति
MBh 3.190.23
अथामात्योऽनुदकं वनं कारयित्वोदारवृक्षं बहुमूलपुष्पफलं रहस्युपगम्य राजानमब्रवीत्
वनमिदमुदारमनुदकम्
साध्वत्र रम्यतामिति
MBh 3.190.24
स तस्य वचनात्तयैव सह देव्या तद्वनं प्राविशत्
स कदाचित्तस्मिन्वने रम्ये तयैव सह व्यवहरत्
अथ क्षुत्तृष्णार्दितः श्रान्तोऽतिमात्रमतिमुक्तागारमपश्यत्
MBh 3.190.25
तत्प्रविश्य राजा सह प्रियया सुधातलसुकृतां विमलसलिलपूर्णां वापीमपश्यत्
MBh 3.190.26
दृष्ट्वैव च तां तस्या एव तीरे सहैव तया देव्या व्यतिष्ठत्
MBh 3.190.27
अथ तां देवीं स राजाब्रवीत्
साध्ववतर वापीसलिलमिति
MBh 3.190.28
सा तद्वचः श्रुत्वावतीर्य वापीं न्यमज्जत्
न पुनरुदमज्जत्
MBh 3.190.29
तां मृगयमाणो राजा नापश्यत्
MBh 3.190.30
वापीमपि निःस्राव्य मण्डूकं श्वभ्रमुखे दृष्ट्वा क्रुद्ध आज्ञापयामास
सर्वमण्डूकवधः क्रियतामिति
यो मयार्थी स मृतकैर्मण्डूकैरुपायनैर्मामुपतिष्ठेदिति
MBh 3.190.31
अथ मण्डूकवधे घोरे क्रियमाणे दिक्षु सर्वासु मण्डूकान्भयमाविशत्
ते भीता मण्डूकराज्ञे यथावृत्तं न्यवेदयन्
MBh 3.190.32
ततो मण्डूकराट्तापसवेषधारी राजानमभ्यगच्छत्
MBh 3.190.33
उपेत्य चैनमुवाच
मा राजन्क्रोधवशं गमः
प्रसादं कुरु
नार्हसि मण्डूकानामनपराधिनां वधं कर्तुमिति
MBh 3.190.34
श्लोकौ चात्र भवतः
मा मण्डूकाञ्जिघांस त्वं कोपं संधारयाच्युत
प्रक्षीयते धनोद्रेको जनानामविजानताम्
MBh 3.190.35
प्रतिजानीहि नैतांस्त्वं प्राप्य क्रोधं विमोक्ष्यसे
अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर्हि ते
MBh 3.190.36
तमेवंवादिनमिष्टजनशोकपरीतात्मा राजा प्रोवाच
न हि क्षम्यते तन्मया
हनिष्याम्येतान्
एतैर्दुरात्मभिः प्रिया मे भक्षिता
सर्वथैव मे वध्या मण्डूकाः
नार्हसि विद्वन्मामुपरोद्धुमिति
MBh 3.190.37
स तद्वाक्यमुपलभ्य व्यथितेन्द्रियमनाः प्रोवाच
प्रसीद राजन्
अहमायुर्नाम मण्डूकराजः
मम सा दुहिता सुशोभना नाम
तस्या दौःशील्यमेतत्
बहवो हि राजानस्तया विप्रलब्धपूर्वा इति
MBh 3.190.38
तमब्रवीद्राजा
तयास्म्यर्थी
सा मे दीयतामिति
MBh 3.190.39
अथैनां राज्ञे पितादात्
अब्रवीच्चैनाम्
एनं राजानं शुश्रूषस्वेति
MBh 3.190.40
स उवाच दुहितरम्
यस्मात्त्वया राजानो विप्रलब्धास्तस्मादब्रह्मण्यानि तवापत्यानि भविष्यन्त्यनृतकत्वात्तवेति
MBh 3.190.41
स च राजा तामुपलभ्य तस्यां सुरतगुणनिबद्धहृदयो लोकत्रयैश्वर्यमिवोपलभ्य हर्षबाष्पकलया वाचा प्रणिपत्याभिपूज्य मण्डूकराजानमब्रवीत्
अनुगृहीतोऽस्मीति
MBh 3.190.42
स च मण्डूकराजो जामातरमनुज्ञाप्य यथागतमगच्छत्
MBh 3.190.43
अथ कस्यचित्कालस्य तस्यां कुमारास्त्रयस्तस्य राज्ञः संबभूवुः शलो दलो बलश्चेति
ततस्तेषां ज्येष्ठं शलं समये पिता राज्येऽभिषिच्य तपसि धृतात्मा वनं जगाम
MBh 3.190.44
अथ कदाचिच्छलो मृगयामचरत्
मृगं चासाद्य रथेनान्वधावत्
MBh 3.190.45
सूतं चोवाच
शीघ्रं मां वहस्वेति
MBh 3.190.46
स तथोक्तः सूतो राजानमब्रवीत्
मा क्रियतामनुबन्धः
नैष शक्यस्त्वया मृगो ग्रहीतुं यद्यपि ते रथे युक्तौ वाम्यौ स्यातामिति
MBh 3.190.47
ततोऽब्रवीद्राजा सूतम्
आचक्ष्व मे वाम्यौ
हन्मि वा त्वामिति
MBh 3.190.48
स एवमुक्तो राजभयभीतो वामदेवशापभीतश्च सन्नाचख्यौ राज्ञे
वामदेवस्याश्वौ वाम्यौ मनोजवाविति
MBh 3.190.49
अथैनमेवं ब्रुवाणमब्रवीद्राजा
वामदेवाश्रमं याहीति
MBh 3.190.50
स गत्वा वामदेवाश्रमं तमृषिमब्रवीत्
भगवन्मृगो मया विद्धः पलायते
तं संभावयेयम्
अर्हसि मे वाम्यौ दातुमिति
MBh 3.190.51
तमब्रवीदृषिः
ददानि ते वाम्यौ
कृतकार्येण भवता ममैव निर्यात्यौ क्षिप्रमिति
MBh 3.190.52
स च तावश्वौ प्रतिगृह्यानुज्ञाप्य चर्षिं प्रायाद्वाम्यसंयुक्तेन रथेन मृगं प्रति
गच्छंश्चाब्रवीत्सूतम्
अश्वरत्नाविमावयोग्यौ ब्राह्मणानाम्
नैतौ प्रतिदेयौ वामदेवायेति
MBh 3.190.53
एवमुक्त्वा मृगमवाप्य स्वनगरमेत्याश्वावन्तःपुरेऽस्थापयत्
MBh 3.190.54
अथर्षिश्चिन्तयामास
तरुणो राजपुत्रः कल्याणं पत्रमासाद्य रमते
न मे प्रतिनिर्यातयति
अहो कष्टमिति
MBh 3.190.55
मनसा निश्चित्य मासि पूर्णे शिष्यमब्रवीत्
गच्छात्रेय
राजानं ब्रूहि
यदि पर्याप्तं निर्यातयोपाध्यायवाम्याविति
MBh 3.190.56
स गत्वैवं तं राजानमब्रवीत्
MBh 3.190.57
तं राजा प्रत्युवाच
राज्ञामेतद्वाहनम्
अनर्हा ब्राह्मणा रत्नानामेवंविधानाम्
किं च ब्राह्मणानामश्वैः कार्यम्
साधु प्रतिगम्यतामिति
MBh 3.190.58
स गत्वैवमुपाध्यायायाचष्ट
MBh 3.190.59
तच्छ्रुत्वा वचनमप्रियं वामदेवः क्रोधपरीतात्मा स्वयमेव राजानमभिगम्याश्वार्थमभ्यचोदयत्
न चादाद्राजा
MBh 3.190.60
वामदेव उवाच
प्रयच्छ वाम्यौ मम पार्थिव त्वं; कृतं हि ते कार्यमन्यैरशक्यम्
मा त्वा वधीद्वरुणो घोरपाशै;र्ब्रह्मक्षत्रस्यान्तरे वर्तमानः
MBh 3.190.61
राजोवाच
अनड्वाहौ सुव्रतौ साधु दान्ता;वेतद्विप्राणां वाहनं वामदेव
ताभ्यां याहि त्वं यत्र कामो महर्षे; छन्दांसि वै त्वादृशं संवहन्ति
MBh 3.190.62
वामदेव उवाच
छन्दांसि वै मादृशं संवहन्ति; लोकेऽमुष्मिन्पार्थिव यानि सन्ति
अस्मिंस्तु लोके मम यानमेत;दस्मद्विधानामपरेषां च राजन्
MBh 3.190.63
राजोवाच
चत्वारो वा गर्दभास्त्वां वहन्तु; श्रेष्ठाश्वतर्यो हरयो वा तुरंगाः
तैस्त्वं याहि क्षत्रियस्यैष वाहो; मम वाम्यौ न तवैतौ हि विद्धि
MBh 3.190.64
वामदेव उवाच
घोरं व्रतं ब्राह्मणस्यैतदाहु;रेतद्राजन्यदिहाजीवमानः
अयस्मया घोररूपा महान्तो; वहन्तु त्वां शितशूलाश्चतुर्धा
MBh 3.190.65
राजोवाच
ये त्वा विदुर्ब्राह्मणं वामदेव; वाचा हन्तुं मनसा कर्मणा वा
ते त्वां सशिष्यमिह पातयन्तु; मद्वाक्यनुन्नाः शितशूलासिहस्ताः
MBh 3.190.66
वामदेव उवाच
नानुयोगा ब्राह्मणानां भवन्ति; वाचा राजन्मनसा कर्मणा वा
यस्त्वेवं ब्रह्म तपसान्वेति विद्वां;स्तेन श्रेष्ठो भवति हि जीवमानः
MBh 3.190.67
मार्कण्डेय उवाच
एवमुक्ते वामदेवेन राज;न्समुत्तस्थू राक्षसा घोररूपाः
तैः शूलहस्तैर्वध्यमानः स राजा; प्रोवाचेदं वाक्यमुच्चैस्तदानीम्
MBh 3.190.68
इक्ष्वाकवो यदि ब्रह्मन्दलो वा; विधेया मे यदि वान्ये विशोऽपि
नोत्स्रक्ष्येऽहं वामदेवस्य वाम्यौ; नैवंविधा धर्मशीला भवन्ति
MBh 3.190.69
एवं ब्रुवन्नेव स यातुधानै;र्हतो जगामाशु महीं क्षितीशः
ततो विदित्वा नृपतिं निपातित;मिक्ष्वाकवो वै दलमभ्यषिञ्चन्
MBh 3.190.70
राज्ये तदा तत्र गत्वा स विप्रः; प्रोवाचेदं वचनं वामदेवः
दलं राजानं ब्राह्मणानां हि देय;मेवं राजन्सर्वधर्मेषु दृष्टम्
MBh 3.190.71
बिभेषि चेत्त्वमधर्मान्नरेन्द्र; प्रयच्छ मे शीघ्रमेवाद्य वाम्यौ
एतच्छ्रुत्वा वामदेवस्य वाक्यं; स पार्थिवः सूतमुवाच रोषात्
MBh 3.190.72
एकं हि मे सायकं चित्ररूपं; दिग्धं विषेणाहर संगृहीतम्
येन विद्धो वामदेवः शयीत; संदश्यमानः श्वभिरार्तरूपः
MBh 3.190.73
वामदेव उवाच
जानामि पुत्रं दशवर्षं तवाहं; जातं महिष्यां श्येनजितं नरेन्द्र
तं जहि त्वं मद्वचनात्प्रणुन्न;स्तूर्णं प्रियं सायकैर्घोररूपैः
MBh 3.190.74
मार्कण्डेय उवाच
एवमुक्तो वामदेवेन राज;न्नन्तःपुरे राजपुत्रं जघान
स सायकस्तिग्मतेजा विसृष्टः; श्रुत्वा दलस्तच्च वाक्यं बभाषे
MBh 3.190.75
इक्ष्वाकवो हन्त चरामि वः प्रियं; निहन्मीमं विप्रमद्य प्रमथ्य
आनीयतामपरस्तिग्मतेजाः; पश्यध्वं मे वीर्यमद्य क्षितीशाः
MBh 3.190.76
वामदेव उवाच
यं त्वमेनं सायकं घोररूपं; विषेण दिग्धं मम संदधासि
न त्वमेनं शरवर्यं विमोक्तुं; संधातुं वा शक्ष्यसि मानवेन्द्र
MBh 3.190.77
राजोवाच
इक्ष्वाकवः पश्यत मां गृहीतं; न वै शक्नोम्येष शरं विमोक्तुम्
न चास्य कर्तुं नाशमभ्युत्सहामि; आयुष्मान्वै जीवतु वामदेवः
MBh 3.190.78
वामदेव उवाच
संस्पृशैनां महिषीं सायकेन; ततस्तस्मादेनसो मोक्ष्यसे त्वम्
MBh 3.190.79
मार्कण्डेय उवाच
ततस्तथा कृतवान्पार्थिवस्तु; ततो मुनिं राजपुत्री बभाषे
यथा युक्तं वामदेवाहमेनं; दिने दिने संविशन्ती व्यशंसम्
ब्राह्मणेभ्यो मृगयन्ती सूनृतानि; तथा ब्रह्मन्पुण्यलोकं लभेयम्
MBh 3.190.80
वामदेव उवाच
त्वया त्रातं राजकुलं शुभेक्षणे; वरं वृणीष्वाप्रतिमं ददानि ते
प्रशाधीमं स्वजनं राजपुत्रि; इक्ष्वाकुराज्यं सुमहच्चाप्यनिन्द्ये
MBh 3.190.81
राजपुत्र्युवाच
वरं वृणे भगवन्नेकमेव; विमुच्यतां किल्बिषादद्य भर्ता
शिवेन चाध्याहि सपुत्रबान्धवं; वरो वृतो ह्येष मया द्विजाग्र्य
MBh 3.190.82
मार्कण्डेय उवाच
श्रुत्वा वचः स मुनी राजपुत्र्या;स्तथास्त्विति प्राह कुरुप्रवीर
ततः स राजा मुदितो बभूव; वाम्यौ चास्मै संप्रददौ प्रणम्य
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 189
- Next chapter · Vana-Parva (Āraṇyaka) Ch 191 →
Sources and Connected Readings
Continue from these 82 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.190local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷