🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 184

The Book of the Forest · Parva 3 · 25 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 25 Shlokas

MBh 3.184.1
मार्कण्डेय उवाच अत्रैव च सरस्वत्या गीतं परपुरंजय पृष्टया मुनिना वीर शृणु तार्क्ष्येण धीमता
MBh 3.184.2
तार्क्ष्य उवाच किं नु श्रेयः पुरुषस्येह भद्रे; कथं कुर्वन्न च्यवते स्वधर्मात् आचक्ष्व मे चारुसर्वाङ्गि सर्वं; त्वयानुशिष्टो न च्यवेयं स्वधर्मात्
MBh 3.184.3
कथं चाग्निं जुहुयां पूजये वा; कस्मिन्काले केन धर्मो न नश्येत् एतत्सर्वं सुभगे प्रब्रवीहि; यथा लोकान्विरजाः संचरेयम्
MBh 3.184.4
मार्कण्डेय उवाच एवं पृष्टा प्रीतियुक्तेन तेन; शुश्रूषुमीक्ष्योत्तमबुद्धियुक्तम् तार्क्ष्यं विप्रं धर्मयुक्तं हितं च; सरस्वती वाक्यमिदं बभाषे
MBh 3.184.5
सरस्वत्युवाच यो ब्रह्म जानाति यथाप्रदेशं; स्वाध्यायनित्यः शुचिरप्रमत्तः स वै पुरो देवपुरस्य गन्ता; सहामरैः प्राप्नुयात्प्रीतियोगम्
MBh 3.184.6
तत्र स्म रम्या विपुला विशोकाः; सुपुष्पिताः पुष्करिण्यः सुपुण्याः अकर्दमा मीनवत्यः सुतीर्था; हिरण्मयैरावृताः पुण्डरीकैः
MBh 3.184.7
तासां तीरेष्वासते पुण्यकर्मा; महीयमानः पृथगप्सरोभिः सुपुण्यगन्धाभिरलंकृताभि;र्हिरण्यवर्णाभिरतीव हृष्टः
MBh 3.184.8
परं लोकं गोप्रदास्त्वाप्नुवन्ति; दत्त्वानड्वाहं सूर्यलोकं व्रजन्ति वासो दत्त्वा चन्द्रमसः स लोकं; दत्त्वा हिरण्यममृतत्वमेति
MBh 3.184.9
धेनुं दत्त्वा सुव्रतां साधुदोहां; कल्याणवत्सामपलायिनीं च यावन्ति रोमाणि भवन्ति तस्या;स्तावद्वर्षाण्यश्नुते स्वर्गलोकम्
MBh 3.184.10
अनड्वाहं सुव्रतं यो ददाति; हलस्य वोढारमनन्तवीर्यम् धुरंधरं बलवन्तं युवानं; प्राप्नोति लोकान्दश धेनुदस्य
MBh 3.184.11
यः सप्त वर्षाणि जुहोति तार्क्ष्य; हव्यं त्वग्नौ सुव्रतः साधुशीलः सप्तावरान्सप्त पूर्वान्पुनाति; पितामहानात्मनः कर्मभिः स्वैः
MBh 3.184.12
तार्क्ष्य उवाच किमग्निहोत्रस्य व्रतं पुराण;माचक्ष्व मे पृच्छतश्चारुरूपे त्वयानुशिष्टोऽहमिहाद्य विद्यां; यदग्निहोत्रस्य व्रतं पुराणम्
MBh 3.184.13
सरस्वत्युवाच न चाशुचिर्नाप्यनिर्णिक्तपाणि;र्नाब्रह्मविज्जुहुयान्नाविपश्चित् बुभुक्षवः शुचिकामा हि देवा; नाश्रद्दधानाद्धि हविर्जुषन्ति
MBh 3.184.14
नाश्रोत्रियं देवहव्ये नियुञ्ज्या;न्मोघं परा सिञ्चति तादृशो हि अपूर्णमश्रोत्रियमाह तार्क्ष्य; न वै तादृग्जुहुयादग्निहोत्रम्
MBh 3.184.15
कृशानुं ये जुह्वति श्रद्दधानाः; सत्यव्रता हुतशिष्टाशिनश्च गवां लोकं प्राप्य ते पुण्यगन्धं; पश्यन्ति देवं परमं चापि सत्यम्
MBh 3.184.16
तार्क्ष्य उवाच क्षेत्रज्ञभूतां परलोकभावे; कर्मोदये बुद्धिमतिप्रविष्टाम् प्रज्ञां च देवीं सुभगे विमृश्य; पृच्छामि त्वां का ह्यसि चारुरूपे
MBh 3.184.17
सरस्वत्युवाच अग्निहोत्रादहमभ्यागतास्मि; विप्रर्षभाणां संशयच्छेदनाय त्वत्संयोगादहमेतदब्रुवं; भावे स्थिता तथ्यमर्थं यथावत्
MBh 3.184.18
तार्क्ष्य उवाच न हि त्वया सदृशी काचिदस्ति; विभ्राजसे ह्यतिमात्रं यथा श्रीः रूपं च ते दिव्यमत्यन्तकान्तं; प्रज्ञां च देवीं सुभगे बिभर्षि
MBh 3.184.19
सरस्वत्युवाच श्रेष्ठानि यानि द्विपदां वरिष्ठ; यज्ञेषु विद्वन्नुपपादयन्ति तैरेवाहं संप्रवृद्धा भवामि; आप्यायिता रूपवती च विप्र
MBh 3.184.20
यच्चापि द्रव्यमुपयुज्यते ह; वानस्पत्यमायसं पार्थिवं वा दिव्येन रूपेण च प्रज्ञया च; तेनैव सिद्धिरिति विद्धि विद्वन्
MBh 3.184.21
तार्क्ष्य उवाच इदं श्रेयः परमं मन्यमाना; व्यायच्छन्ते मुनयः संप्रतीताः आचक्ष्व मे तं परमं विशोकं; मोक्षं परं यं प्रविशन्ति धीराः
MBh 3.184.22
सरस्वत्युवाच तं वै परं वेदविदः प्रपन्नाः; परं परेभ्यः प्रथितं पुराणम् स्वाध्यायदानव्रतपुण्ययोगै;स्तपोधना वीतशोका विमुक्ताः
MBh 3.184.23
तस्याथ मध्ये वेतसः पुण्यगन्धः; सहस्रशाखो विमलो विभाति तस्य मूलात्सरितः प्रस्रवन्ति; मधूदकप्रस्रवणा रमण्यः
MBh 3.184.24
शाखां शाखां महानद्यः संयान्ति सिकतासमाः धानापूपा मांसशाकाः सदा पायसकर्दमाः
MBh 3.184.25
यस्मिन्नग्निमुखा देवाः सेन्द्राः सह मरुद्गणैः ईजिरे क्रतुभिः श्रेष्ठैस्तत्पदं परमं मुने

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 25 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.184local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷