🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 183

The Book of the Forest · Parva 3 · 32 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 32 Shlokas

MBh 3.183.1
मार्कण्डेय उवाच भूय एव तु माहात्म्यं ब्राह्मणानां निबोध मे वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः तमत्रिर्गन्तुमारेभे वित्तार्थमिति नः श्रुतम्
MBh 3.183.2
भूयोऽथ नानुरुध्यत्स धर्मव्यक्तिनिदर्शनात् संचिन्त्य स महातेजा वनमेवान्वरोचयत् धर्मपत्नीं समाहूय पुत्रांश्चेदमुवाच ह
MBh 3.183.3
प्राप्स्यामः फलमत्यन्तं बहुलं निरुपद्रवम् अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम्
MBh 3.183.4
तं भार्या प्रत्युवाचेदं धर्ममेवानुरुध्यती वैन्यं गत्वा महात्मानमर्थयस्व धनं बहु स ते दास्यति राजर्षिर्यजमानोऽर्थिने धनम्
MBh 3.183.5
तत आदाय विप्रर्षे प्रतिगृह्य धनं बहु भृत्यान्सुतान्संविभज्य ततो व्रज यथेप्सितम् एष वै परमो धर्मो धर्मविद्भिरुदाहृतः
MBh 3.183.6
अत्रिरुवाच कथितो मे महाभागे गौतमेन महात्मना वैन्यो धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः
MBh 3.183.7
किं त्वस्ति तत्र द्वेष्टारो निवसन्ति हि मे द्विजाः यथा मे गौतमः प्राह ततो न व्यवसाम्यहम्
MBh 3.183.8
तत्र स्म वाचं कल्याणीं धर्मकामार्थसंहिताम् मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थकाम्
MBh 3.183.9
गमिष्यामि महाप्राज्ञे रोचते मे वचस्तव गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसंचयम्
MBh 3.183.10
मार्कण्डेय उवाच एवमुक्त्वा जगामाशु वैन्ययज्ञं महातपाः गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम्
MBh 3.183.11
राजन्वैन्य त्वमीशश्च भुवि त्वं प्रथमो नृपः स्तुवन्ति त्वां मुनिगणास्त्वदन्यो नास्ति धर्मवित्
MBh 3.183.12
तमब्रवीदृषिस्तत्र वचः क्रुद्धो महातपाः मैवमत्रे पुनर्ब्रूया न ते प्रज्ञा समाहिता अत्र नः प्रथमं स्थाता महेन्द्रो वै प्रजापतिः
MBh 3.183.13
अथात्रिरपि राजेन्द्र गौतमं प्रत्यभाषत अयमेव विधाता च यथैवेन्द्रः प्रजापतिः त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह
MBh 3.183.14
गौतम उवाच जानामि नाहं मुह्यामि त्वं विवक्षुर्विमुह्यसे स्तोष्यसेऽभ्युदयप्रेप्सुस्तस्य दर्शनसंश्रयात्
MBh 3.183.15
न वेत्थ परमं धर्मं न चावैषि प्रयोजनम् बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना
MBh 3.183.16
मार्कण्डेय उवाच विवदन्तौ तथा तौ तु मुनीनां दर्शने स्थितौ ये तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ
MBh 3.183.17
प्रवेशः केन दत्तोऽयमनयोर्वैन्यसंसदि उच्चैः समभिभाषन्तौ केन कार्येण विष्ठितौ
MBh 3.183.18
ततः परमधर्मात्मा काश्यपः सर्वधर्मवित् विवादिनावनुप्राप्तौ तावुभौ प्रत्यवेदयत्
MBh 3.183.19
अथाब्रवीत्सदस्यांस्तु गौतमो मुनिसत्तमान् आवयोर्व्याहृतं प्रश्नं शृणुत द्विजपुंगवाः वैन्यो विधातेत्याहात्रिरत्र नः संशयो महान्
MBh 3.183.20
श्रुत्वैव तु महात्मानो मुनयोऽभ्यद्रवन्द्रुतम् सनत्कुमारं धर्मज्ञं संशयच्छेदनाय वै
MBh 3.183.21
स च तेषां वचः श्रुत्वा यथातत्त्वं महातपाः प्रत्युवाचाथ तानेवं धर्मार्थसहितं वचः
MBh 3.183.22
सनत्कुमार उवाच ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह राजा वै प्रथमो धर्मः प्रजानां पतिरेव च स एव शक्रः शुक्रश्च स धाता स बृहस्पतिः
MBh 3.183.23
प्रजापतिर्विराट्सम्राट्क्षत्रियो भूपतिर्नृपः य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति
MBh 3.183.24
पुरायोनिर्युधाजिच्च अभिया मुदितो भवः स्वर्णेता सहजिद्बभ्रुरिति राजाभिधीयते
MBh 3.183.25
सत्यमन्युर्युधाजीवः सत्यधर्मप्रवर्तकः अधर्मादृषयो भीता बलं क्षत्रे समादधन्
MBh 3.183.26
आदित्यो दिवि देवेषु तमो नुदति तेजसा तथैव नृपतिर्भूमावधर्मं नुदते भृशम्
MBh 3.183.27
अतो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात् उत्तरः सिध्यते पक्षो येन राजेति भाषितम्
MBh 3.183.28
मार्कण्डेय उवाच ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः तमत्रिमब्रवीत्प्रीतः पूर्वं येनाभिसंस्तुतः
MBh 3.183.29
यस्मात्सर्वमनुष्येषु ज्यायांसं मामिहाब्रवीः सर्वदेवैश्च विप्रर्षे संमितं श्रेष्ठमेव च तस्मात्तेऽहं प्रदास्यामि विविधं वसु भूरि च
MBh 3.183.30
दासीसहस्रं श्यामानां सुवस्त्राणामलंकृतम् दश कोट्यो हिरण्यस्य रुक्मभारांस्तथा दश एतद्ददानि ते विप्र सर्वज्ञस्त्वं हि मे मतः
MBh 3.183.31
तदत्रिर्न्यायतः सर्वं प्रतिगृह्य महामनाः प्रत्याजगाम तेजस्वी गृहानेव महातपाः
MBh 3.183.32
प्रदाय च धनं प्रीतः पुत्रेभ्यः प्रयतात्मवान् तपः समभिसंधाय वनमेवान्वपद्यत

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 32 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.183local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷