🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 170
The Book of the Forest · Parva 3 · 69 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 69 Shlokas
MBh 3.170.1
अर्जुन उवाच
निवर्तमानेन मया महद्दृष्टं ततोऽपरम्
पुरं कामचरं दिव्यं पावकार्कसमप्रभम्
MBh 3.170.2
द्रुमै रत्नमयैश्चैत्रैर्भास्वरैश्च पतत्रिभिः
पौलोमैः कालकेयैश्च नित्यहृष्टैरधिष्ठितम्
MBh 3.170.3
गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम्
सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम्
द्रुमैः पुष्पफलोपेतैर्दिव्यरत्नमयैर्वृतम्
MBh 3.170.4
तथा पतत्रिभिर्दिव्यैरुपेतं सुमनोहरैः
असुरैर्नित्यमुदितैः शूलर्ष्टिमुसलायुधैः
चापमुद्गरहस्तैश्च स्रग्विभिः सर्वतो वृतम्
MBh 3.170.5
तदहं प्रेक्ष्य दैत्यानां पुरमद्भुतदर्शनम्
अपृच्छं मातलिं राजन्किमिदं दृश्यतेति वै
MBh 3.170.6
मातलिरुवाच
पुलोमा नाम दैतेयी कालका च महासुरी
दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः
तपसोऽन्ते ततस्ताभ्यां स्वयम्भूरददाद्वरम्
MBh 3.170.7
अगृह्णीतां वरं ते तु सुतानामल्पदुःखताम्
अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः
MBh 3.170.8
रमणीयं पुरं चेदं खचरं सुकृतप्रभम्
सर्वरत्नैः समुदितं दुर्धर्षममरैरपि
सयक्षगन्धर्वगणैः पन्नगासुरराक्षसैः
MBh 3.170.9
सर्वकामगुणोपेतं वीतशोकमनामयम्
ब्रह्मणा भरतश्रेष्ठ कालकेयकृते कृतम्
MBh 3.170.10
तदेतत्खचरं दिव्यं चरत्यमरवर्जितम्
पौलोमाध्युषितं वीर कालकेयैश्च दानवैः
MBh 3.170.11
हिरण्यपुरमित्येतत्ख्यायते नगरं महत्
रक्षितं कालकेयैश्च पौलोमैश्च महासुरैः
MBh 3.170.12
त एते मुदिता नित्यमवध्याः सर्वदैवतैः
निवसन्त्यत्र राजेन्द्र गतोद्वेगा निरुत्सुकाः
मानुषो मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा
MBh 3.170.13
अर्जुन उवाच
सुरासुरैरवध्यांस्तानहं ज्ञात्वा ततः प्रभो
अब्रुवं मातलिं हृष्टो याह्येतत्पुरमञ्जसा
MBh 3.170.14
त्रिदशेशद्विषो यावत्क्षयमस्त्रैर्नयाम्यहम्
न कथंचिद्धि मे पापा न वध्या ये सुरद्विषः
MBh 3.170.15
उवाह मां ततः शीघ्रं हिरण्यपुरमन्तिकात्
रथेन तेन दिव्येन हरियुक्तेन मातलिः
MBh 3.170.16
ते मामालक्ष्य दैतेया विचित्राभरणाम्बराः
समुत्पेतुर्महावेगा रथानास्थाय दंशिताः
MBh 3.170.17
ततो नालीकनाराचैर्भल्लशक्त्यृष्टितोमरैः
अभ्यघ्नन्दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः
MBh 3.170.18
तदहं चास्त्रवर्षेण महता प्रत्यवारयम्
शस्त्रवर्षं महद्राजन्विद्याबलमुपाश्रितः
MBh 3.170.19
व्यामोहयं च तान्सर्वान्रथमार्गैश्चरन्रणे
तेऽन्योन्यमभिसंमूढाः पातयन्ति स्म दानवाः
MBh 3.170.20
तेषामहं विमूढानामन्योन्यमभिधावताम्
शिरांसि विशिखैर्दीप्तैर्व्यहरं शतसंघशः
MBh 3.170.21
ते वध्यमाना दैतेयाः पुरमास्थाय तत्पुनः
खमुत्पेतुः सनगरा मायामास्थाय दानवीम्
MBh 3.170.22
ततोऽहं शरवर्षेण महता प्रत्यवारयम्
मार्गमावृत्य दैत्यानां गतिं चैषामवारयम्
MBh 3.170.23
तत्पुरं खचरं दिव्यं कामगं दिव्यवर्चसम्
दैतेयैर्वरदानेन धार्यते स्म यथासुखम्
MBh 3.170.24
अन्तर्भूमौ निपतितं पुनरूर्ध्वं प्रतिष्ठते
पुनस्तिर्यक्प्रयात्याशु पुनरप्सु निमज्जति
MBh 3.170.25
अमरावतिसंकाशं पुरं कामगमं तु तत्
अहमस्त्रैर्बहुविधैः प्रत्यगृह्णं नराधिप
MBh 3.170.26
ततोऽहं शरजालेन दिव्यास्त्रमुदितेन च
न्यगृह्णं सह दैतेयैस्तत्पुरं भरतर्षभ
MBh 3.170.27
विक्षतं चायसैर्बाणैर्मत्प्रयुक्तैरजिह्मगैः
महीमभ्यपतद्राजन्प्रभग्नं पुरमासुरम्
MBh 3.170.28
ते वध्यमाना मद्बाणैर्वज्रवेगैरयस्मयैः
पर्यभ्रमन्त वै राजन्नसुराः कालचोदिताः
MBh 3.170.29
ततो मातलिरप्याशु पुरस्तान्निपतन्निव
महीमवातरत्क्षिप्रं रथेनादित्यवर्चसा
MBh 3.170.30
ततो रथसहस्राणि षष्टिस्तेषाममर्षिणाम्
युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत
MBh 3.170.31
तानहं निशितैर्बाणैर्व्यधमं गार्ध्रवाजितैः
ते युद्धे संन्यवर्तन्त समुद्रस्य यथोर्मयः
MBh 3.170.32
नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य वै
ततोऽहमानुपूर्व्येण सर्वाण्यस्त्राण्ययोजयम्
MBh 3.170.33
ततस्तानि सहस्राणि रथानां चित्रयोधिनाम्
अस्त्राणि मम दिव्यानि प्रत्यघ्नञ्शनकैरिव
MBh 3.170.34
रथमार्गान्विचित्रांस्ते विचरन्तो महारथाः
प्रत्यदृश्यन्त संग्रामे शतशोऽथ सहस्रशः
MBh 3.170.35
विचित्रमुकुटापीडा विचित्रकवचध्वजाः
विचित्राभरणाश्चैव नन्दयन्तीव मे मनः
MBh 3.170.36
अहं तु शरवर्षैस्तानस्त्रप्रमुदितै रणे
नाशक्नुवं पीडयितुं ते तु मां पर्यपीडयन्
MBh 3.170.37
तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर्युधि
व्यथितोऽस्मि महायुद्धे भयं चागान्महन्मम
MBh 3.170.38
ततोऽहं देवदेवाय रुद्राय प्रणतो रणे
स्वस्ति भूतेभ्य इत्युक्त्वा महास्त्रं समयोजयम्
यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम्
MBh 3.170.39
ततोऽपश्यं त्रिशिरसं पुरुषं नवलोचनम्
त्रिमुखं षड्भुजं दीप्तमर्कज्वलनमूर्धजम्
लेलिहानैर्महानागैः कृतशीर्षममित्रहन्
MBh 3.170.40
विभीस्ततस्तदस्त्रं तु घोरं रौद्रं सनातनम्
दृष्ट्वा गाण्डीवसंयोगमानीय भरतर्षभ
MBh 3.170.41
नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे
मुक्तवान्दानवेन्द्राणां पराभावाय भारत
MBh 3.170.42
मुक्तमात्रे ततस्तस्मिन्रूपाण्यासन्सहस्रशः
मृगाणामथ सिंहानां व्याघ्राणां च विशां पते
ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम्
MBh 3.170.43
गजानां सृमराणां च शरभाणां च सर्वशः
ऋषभाणां वराहाणां मार्जाराणां तथैव च
शालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः
MBh 3.170.44
गृध्राणां गरुडानां च मकराणां तथैव च
पिशाचानां सयक्षाणां तथैव च सुरद्विषाम्
MBh 3.170.45
गुह्यकानां च संग्रामे नैरृतानां तथैव च
झषाणां गजवक्त्राणामुलूकानां तथैव च
MBh 3.170.46
मीनकूर्मसमूहानां नानाशस्त्रासिपाणिनाम्
तथैव यातु धानानां गदामुद्गरधारिणाम्
MBh 3.170.47
एतैश्चान्यैश्च बहुभिर्नानारूपधरैस्तथा
सर्वमासीज्जगद्व्याप्तं तस्मिन्नस्त्रे विसर्जिते
MBh 3.170.48
त्रिशिरोभिश्चतुर्दंष्ट्रैश्चतुरास्यैश्चतुर्भुजैः
अनेकरूपसंयुक्तैर्मांसमेदोवसाशिभिः
अभीक्ष्णं वध्यमानास्ते दानवा ये समागताः
MBh 3.170.49
अर्कज्वलनतेजोभिर्वज्राशनिसमप्रभैः
अद्रिसारमयैश्चान्यैर्बाणैररिविदारणैः
न्यहनं दानवान्सर्वान्मुहूर्तेनैव भारत
MBh 3.170.50
गाण्डीवास्त्रप्रणुन्नांस्तान्गतासून्नभसश्च्युतान्
दृष्ट्वाहं प्राणमं भूयस्त्रिपुरघ्नाय वेधसे
MBh 3.170.51
तथा रौद्रास्त्रनिष्पिष्टान्दिव्याभरणभूषितान्
निशाम्य परमं हर्षमगमद्देवसारथिः
MBh 3.170.52
तदसह्यं कृतं कर्म देवैरपि दुरासदम्
दृष्ट्वा मां पूजयामास मातलिः शक्रसारथिः
MBh 3.170.53
उवाच चेदं वचनं प्रीयमाणः कृताञ्जलिः
सुरासुरैरसह्यं हि कर्म यत्साधितं त्वया
न ह्येतत्संयुगे कर्तुमपि शक्तः सुरेश्वरः
MBh 3.170.54
सुरासुरैरवध्यं हि पुरमेतत्खगं महत्
त्वया विमथितं वीर स्ववीर्यास्त्रतपोबलात्
MBh 3.170.55
विध्वस्तेऽथ पुरे तस्मिन्दानवेषु हतेषु च
विनदन्त्यः स्त्रियः सर्वा निष्पेतुर्नगराद्बहिः
MBh 3.170.56
प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः
पेतुः पुत्रान्पितॄन्भ्रातॄञ्शोचमाना महीतले
MBh 3.170.57
रुदन्त्यो दीनकण्ठ्यस्ता विनदन्त्यो हतेश्वराः
उरांसि पाणिभिर्घ्नन्त्यः प्रस्रस्तस्रग्विभूषणाः
MBh 3.170.58
तच्छोकयुक्तमश्रीकं दुःखदैन्यसमाहतम्
न बभौ दानवपुरं हतत्विट्कं हतेश्वरम्
MBh 3.170.59
गन्धर्वनगराकारं हतनागमिव ह्रदम्
शुष्कवृक्षमिवारण्यमदृश्यमभवत्पुरम्
MBh 3.170.60
मां तु संहृष्टमनसं क्षिप्रं मातलिरानयत्
देवराजस्य भवनं कृतकर्माणमाहवात्
MBh 3.170.61
हिरण्यपुरमारुज्य निहत्य च महासुरान्
निवातकवचांश्चैव ततोऽहं शक्रमागमम्
MBh 3.170.62
मम कर्म च देवेन्द्रं मातलिर्विस्तरेण तत्
सर्वं विश्रावयामास यथा भूतं महाद्युते
MBh 3.170.63
हिरण्यपुरघातं च मायानां च निवारणम्
निवातकवचानां च वधं संख्ये महौजसाम्
MBh 3.170.64
तच्छ्रुत्वा भगवान्प्रीतः सहस्राक्षः पुरंदरः
मरुद्भिः सहितः श्रीमान्साधु साध्वित्यथाब्रवीत्
MBh 3.170.65
ततो मां देवराजो वै समाश्वास्य पुनः पुनः
अब्रवीद्विबुधैः सार्धमिदं सुमधुरं वचः
MBh 3.170.66
अतिदेवासुरं कर्म कृतमेतत्त्वया रणे
गुर्वर्थश्च महान्पार्थ कृतः शत्रून्घ्नता मम
MBh 3.170.67
एवमेव सदा भाव्यं स्थिरेणाजौ धनंजय
असंमूढेन चास्त्राणां कर्तव्यं प्रतिपादनम्
MBh 3.170.68
अविषह्यो रणे हि त्वं देवदानवराक्षसैः
सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः
MBh 3.170.69
वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम्
पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 169
- Next chapter · Vana-Parva (Āraṇyaka) Ch 171 →
Sources and Connected Readings
Continue from these 69 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.170local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷