🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 169

The Book of the Forest · Parva 3 · 35 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 35 Shlokas

MBh 3.169.1
अर्जुन उवाच अदृश्यमानास्ते दैत्या योधयन्ति स्म मायया अदृश्यानस्त्रवीर्येण तानप्यहमयोधयम्
MBh 3.169.2
गाण्डीवमुक्ता विशिखाः सम्यगस्त्रप्रचोदिताः अच्छिन्दन्नुत्तमाङ्गानि यत्र यत्र स्म तेऽभवन्
MBh 3.169.3
ततो निवातकवचा वध्यमाना मया युधि संहृत्य मायां सहसा प्राविशन्पुरमात्मनः
MBh 3.169.4
व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने अपश्यं दानवांस्तत्र हताञ्शतसहस्रशः
MBh 3.169.5
विनिष्पिष्टानि तत्रैषां शस्त्राण्याभरणानि च कूटशः स्म प्रदृश्यन्ते गात्राणि कवचानि च
MBh 3.169.6
हयानां नान्तरं ह्यासीत्पदाद्विचलितुं पदम् उत्पत्य सहसा तस्थुरन्तरिक्षगमास्ततः
MBh 3.169.7
ततो निवातकवचा व्योम संछाद्य केवलम् अदृश्या ह्यभ्यवर्तन्त विसृजन्तः शिलोच्चयान्
MBh 3.169.8
अन्तर्भूमिगताश्चान्ये हयानां चरणान्यथ न्यगृह्णन्दानवा घोरा रथचक्रे च भारत
MBh 3.169.9
विनिगृह्य हरीनश्वान्रथं च मम युध्यतः सर्वतो मामचिन्वन्त सरथं धरणीधरैः
MBh 3.169.10
पर्वतैरुपचीयद्भिः पतमानैस्तथापरैः स देशो यत्र वर्ताम गुहेव समपद्यत
MBh 3.169.11
पर्वतैश्छाद्यमानोऽहं निगृहीतैश्च वाजिभिः अगच्छं परमामार्तिं मातलिस्तदलक्षयत्
MBh 3.169.12
लक्षयित्वा तु मां भीतमिदं वचनमब्रवीत् अर्जुनार्जुन मा भैस्त्वं वज्रमस्त्रमुदीरय
MBh 3.169.13
ततोऽहं तस्य तद्वाक्यं श्रुत्वा वज्रमुदीरयम् देवराजस्य दयितं वज्रमस्त्रं नराधिप
MBh 3.169.14
अचलं स्थानमासाद्य गाण्डीवमनुमन्त्र्य च अमुञ्चं वज्रसंस्पर्शानायसान्निशिताञ्शरान्
MBh 3.169.15
ततो मायाश्च ताः सर्वा निवातकवचांश्च तान् ते वज्रचोदिता बाणा वज्रभूताः समाविशन्
MBh 3.169.16
ते वज्रवेगाभिहता दानवाः पर्वतोपमाः इतरेतरमाश्लिष्य न्यपतन्पृथिवीतले
MBh 3.169.17
अन्तर्भूमौ तु येऽगृह्णन्दानवा रथवाजिनः अनुप्रविश्य तान्बाणाः प्राहिण्वन्यमसादनम्
MBh 3.169.18
हतैर्निवातकवचैर्निरस्तैः पर्वतोपमैः समाच्छाद्यत देशः स विकीर्णैरिव पर्वतैः
MBh 3.169.19
न हयानां क्षतिः काचिन्न रथस्य न मातलेः मम चादृश्यत तदा तदद्भुतमिवाभवत्
MBh 3.169.20
ततो मां प्रहसन्राजन्मातलिः प्रत्यभाषत नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते
MBh 3.169.21
हतेष्वसुरसंघेषु दारास्तेषां तु सर्वशः प्राक्रोशन्नगरे तस्मिन्यथा शरदि लक्ष्मणाः
MBh 3.169.22
ततो मातलिना सार्धमहं तत्पुरमभ्ययाम् त्रासयन्रथघोषेण निवातकवचस्त्रियः
MBh 3.169.23
तान्दृष्ट्वा दशसाहस्रान्मयूरसदृशान्हयान् रथं च रविसंकाशं प्राद्रवन्गणशः स्त्रियः
MBh 3.169.24
ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः शिलानामिव शैलेषु पतन्तीनामभूत्तदा
MBh 3.169.25
वित्रस्ता दैत्यनार्यस्ताः स्वानि वेश्मान्यथाविशन् बहुरत्नविचित्राणि शातकुम्भमयानि च
MBh 3.169.26
तदद्भुताकारमहं दृष्ट्वा नगरमुत्तमम् विशिष्टं देवनगरादपृच्छं मातलिं ततः
MBh 3.169.27
इदमेवंविधं कस्माद्देवता नाविशन्त्युत पुरंदरपुराद्धीदं विशिष्टमिति लक्षये
MBh 3.169.28
मातलिरुवाच आसीदिदं पुरा पार्थ देवराजस्य नः पुरम् ततो निवातकवचैरितः प्रच्याविताः सुराः
MBh 3.169.29
तपस्तप्त्वा महत्तीव्रं प्रसाद्य च पितामहम् इदं वृतं निवासाय देवेभ्यश्चाभयं युधि
MBh 3.169.30
ततः शक्रेण भगवान्स्वयम्भूरभिचोदितः विधत्तां भगवानत्रेत्यात्मनो हितकाम्यया
MBh 3.169.31
तत उक्तो भगवता दिष्टमत्रेति वासवः भवितान्तस्त्वमेवैषां देहेनान्येन वृत्रहन्
MBh 3.169.32
तत एषां वधार्थाय शक्रोऽस्त्राणि ददौ तव न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वया
MBh 3.169.33
कालस्य परिणामेन ततस्त्वमिह भारत एषामन्तकरः प्राप्तस्तत्त्वया च कृतं तथा
MBh 3.169.34
दानवानां विनाशार्थं महास्त्राणां महद्बलम् ग्राहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम्
MBh 3.169.35
अर्जुन उवाच ततः प्रविश्य नगरं दानवांश्च निहत्य तान् पुनर्मातलिना सार्धमगच्छं देवसद्म तत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 35 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.169local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷