🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 164

The Book of the Forest · Parva 3 · 58 shlokas in canonical Devanāgarī Sanskrit

Mahābhārata Detail Source-Anchor Spine

This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.

MBh 3.164local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

The Devanāgarī Yathārtha · 58 Shlokas

MBh 3.164.1
[अर्ज] ततस ताम अवसं परीतॊ रजनीं तत्र भारत परसादाद देवदेवस्य तर्यम्बकस्य महात्मनः
MBh 3.164.2
वयुषितॊ रजनीं चाहं कृत्वा पूर्वाह्णिक करियाम अपश्यं तं दविजश्रेष्ठं दृष्टवान अस्मि यं पुरा
MBh 3.164.3
तस्मै चाहं यथावृत्तं सर्वम एव नयवेदयम भगवन्तं महादेवं समेतॊ ऽसमीति भारत
MBh 3.164.4
स माम उवाच राजेन्द्र परीयमाणॊ दविजॊत्तमः दृष्टस तवया महादेवॊ यथा नान्येन केन चित
MBh 3.164.5
समेत्य लॊकपालैस तु सर्वैर वैवस्वतादिभिः दरष्टास्य अनघ देवेन्द्रं स च ते ऽसत्राणि दास्यति
MBh 3.164.6
एवम उक्त्वा स मां राजन्न आश्लिष्य च पुनः पुनः अगच्छत स यथाकामं बराह्मणः सूर्यसंनिभः
MBh 3.164.7
अथापराह्णे तस्याह्नः परावात पुण्यः समीरणः पुनर नवम इमं लॊकं कुर्वन्न इव सपत्नहन
MBh 3.164.8
दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च शैशिरस्य गिरेः पादे परादुरासन समीपतः
MBh 3.164.9
वादित्राणि च दिव्यानि सुघॊषाणि समन्ततः सतुतयश चेन्द्र संयुक्ता अश्रूयन्त मनॊहराः
MBh 3.164.10
गणाश चाप्सरसां तत्र गन्धर्वाणां तथैव च पुरस्ताद देवदेवस्य जगुर गीतानि सर्वशः
MBh 3.164.11
मरुतां च गणास तत्र देव यानैर उपागमन महेन्द्रानुचरा ये च देव सद्म निवासिनः
MBh 3.164.12
ततॊ मरुत्वान हरिभिर युक्तैर वाहैः सवलंकृतैः शची सहायस तत्रायात सह सर्वैस तदामरैः
MBh 3.164.13
एतस्मिन्न एव काले तु कुबेरॊ नरवाहनः दर्शयाम आस मां राजँल लक्ष्म्या परमया युतः
MBh 3.164.14
दक्षिणस्यां दिशि यमं परत्यपश्यं वयवस्थितम वरुणं देवराजं च यथास्थानम अवस्थितम
MBh 3.164.15
ते माम ऊचुर महाराज सान्त्वयित्वा सुरर्षभाः सव्यसाचिन समीक्षस्व लॊकपालान अवस्थितान
MBh 3.164.16
सुरकार्यार्थ सिद्ध्यर्थं दृष्टवान असि शंकरम अस्मत्तॊ ऽपि गृहाण तवम अस्त्राणीति समन्ततः
MBh 3.164.17
ततॊ ऽहं परयतॊ भूत्वा परणिपत्य सुरर्षभान परत्यगृह्णं तदास्त्राणि महान्ति विधिवत परभॊ
MBh 3.164.18
गृहीतास्त्रस ततॊ देवैर अनुज्ञ्षातॊ ऽसमि भारत अथ देवा ययुः सर्वे यथागतम अरिंदम
MBh 3.164.19
मघवान अपि देवेशॊ रथम आरुह्य सुप्रभम उवाच भगवान वाक्यं समयन्न इव सुरारिहा
MBh 3.164.20
पुरैवागमनाद अस्माद वेदाहं तवां धनंजय अतः परं तव अहं वै तवां दर्शये भरतर्षभ
MBh 3.164.21
तवया हि तीर्थेषु पुरा समाप्लावः कृतॊ ऽसकृत तपश चेदं पुरा तप्तं सवर्गं गन्तासि पाण्डव
MBh 3.164.22
भूयॊ चैव तु तप्तव्यं तपॊ परमदारुणम उवाच भगवान सर्वं तपसश चॊपपादनम
MBh 3.164.23
मातलिर मन्नियॊगात तवां तरिदिवं परापयिष्यति विदितस तवं हि देवानाम ऋषीणां च महात्मनाम
MBh 3.164.24
ततॊ ऽहम अब्रुवं शक्रं परसीद भगवन मम आचार्यं वरये तवाहम अस्त्रार्थं तरिदशेश्वर
MBh 3.164.25
[इन्द्र] करूरं कर्मास्त्रवित तात करिष्यसि परंतप यदर्थम अस्त्राणीप्सुस तवं तं कामं पाण्डवाप्नुहि
MBh 3.164.26
[अर्ज] ततॊ ऽहम अब्रुवं नाहं दिव्यान्य अस्त्राणि शत्रुहन मानुषेषु परयॊक्ष्यामि विनास्त्र परतिघातनम
MBh 3.164.27
तानि दिव्यानि मे ऽसत्राणि परयच्छ विबुधाधिप लॊकांश चास्त्रजितान पश्चाल लभेयं सुरपुंगव
MBh 3.164.28
[इन्द्र] परीक्षार्थं मयैतत ते वाक्यम उक्तं धनंजय ममात्मजस्य वचनं सूपपन्नम इदं तव
MBh 3.164.29
शिक्ष मे भवनं गत्वा सर्वाण्य अस्त्राणि भारत वायॊर अग्नेर वसुभ्यॊ ऽथ वरुणात समरुद्गणात
MBh 3.164.30
साध्यं पैतामहं चैव गन्धर्वॊरगरक्षसाम वैष्णवानि च सर्वाणि नैरृतानि तथैव च मद्गतानि च यानीह सर्वास्त्राणि कुरूद्वह
MBh 3.164.31
[अर्ज] एवम उक्त्वा तु मां शक्रस तत्रैवान्तरधीयत अथापश्यं हरि युजं रथम ऐन्द्रम उपस्थितम दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप
MBh 3.164.32
लॊकपालेषु यातेषु माम उवाचाथ मातलिः दरष्टुम इच्छति शक्रस तवां देवराजॊ महाद्युते
MBh 3.164.33
संसिद्धस तवं महाबाहॊ कुरु कार्यम अनुत्तमम पश्य पुण्यकृतां लॊकान सशरीरॊ दिवं वरज
MBh 3.164.34
इत्य उक्तॊ ऽहं मातलिना गिरिम आमन्त्र्य शैशिरम परदक्षिणम उपावृत्य समारॊहं रथॊत्तमम
MBh 3.164.35
चॊदयाम आस सहयान मनॊमारुतरंहसः मातलिर हयशास्त्रज्ञॊ यथावद भूरिदक्षिणः
MBh 3.164.36
अवैक्षन्त च मे वक्त्रं सथितस्याथ स सारथिः तथा भरान्ते रथे राजन विस्मितश चेदम अब्रवीत
MBh 3.164.37
अत्यद्भुतम इदं मे ऽदय विचित्रं परतिभाति माम यद आस्थितॊ रथं दिव्यं पदा न चलितॊ भवान
MBh 3.164.38
देवराजॊ ऽपि हि मया नित्यम अत्रॊपलक्षितः विचलन परथमॊत्पाते हयानां भरतर्षभ
MBh 3.164.39
तवं पुनः सथित एवात्र रथे भरान्ते कुरूद्वह अतिशक्रम इदं सत्त्वं तवेति परतिभाति मे
MBh 3.164.40
इत्य उक्त्वाकाशम आविश्य मातलिर विबुधालयान दर्शयाम आस मे राजन विमानानि च भारत
MBh 3.164.41
नन्दनादीनि देवानां वनानि बहुलान्य उत दर्शयाम आस मे परीत्या मातलिः शक्रसारथिः
MBh 3.164.42
ततः शक्रस्य भवनम अपश्यम अमरावतीम दिव्यैः कामफलैर वृक्षै रत्नैश च समलंकृताम
MBh 3.164.43
न तां भासयते सूर्यॊ न शीतॊष्णे न च कलमः रजः पङ्कॊ न च तमस तत्रास्ति न जरा नृप
MBh 3.164.44
न तत्र शॊकॊ दैन्यं वा वैवर्ण्यं चॊपलक्ष्यते दिवौकसां महाराज न च गलानिर अरिंदम
MBh 3.164.45
न करॊधलॊभौ तत्रास्ताम अशुभं च विशां पते नित्यतुष्टाश च हृष्टाश च पराणिनः सुरवेश्मनि
MBh 3.164.46
नित्यपुष्पफलास तत्र पादपा हरितछदाः पुष्करिण्यश च विविधाः पद्मसौगन्धिकायुताः
MBh 3.164.47
शीतस तत्र ववौ वायुः सुगन्धॊ जीवनः शुचिः सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता
MBh 3.164.48
मृगद्विजाश च बहवॊ रुचिरा मधुरस्वराः विमानयायिनश चात्र दृश्यन्ते बहवॊ ऽमराः
MBh 3.164.49
ततॊ ऽपश्यं वसून रुद्रान साध्यांश च समरुद्गणान आदित्यान अश्विनौ चैव तान सर्वान परत्यपूजयम
MBh 3.164.50
ते मां वीर्येण यशसा तेजसा च बलेन च अस्त्रैश चाप्य अन्वजानन्त संप्राम विजयेन च
MBh 3.164.51
परविश्य तां पुरीं रम्यां देवगन्धर्वसेविताम देवराजं सहस्राक्षम उपातिष्ठं कृताञ्जलिः
MBh 3.164.52
ददाव अर्धासनं परीतः शक्रॊ मे ददतां वरः बहुमानाच च गात्राणि पस्पर्श मम वासवः
MBh 3.164.53
तत्राहं देवगन्धर्वैः सहितॊ भुरि दक्षिण अस्त्रार्थम अवसं सवर्गे कुर्वाणॊ सत्राणि भारत
MBh 3.164.54
विश्वावसॊश च मे पुत्रश चित्रसेनॊ ऽभवत सखा स च गान्धर्वम अखिलं गराहयाम आस मां नृप
MBh 3.164.55
ततॊ ऽहम अवसं राजन गृहीतास्त्रः सुपूजितः सुखं शक्रस्य भवने सर्वकामसमन्वितः
MBh 3.164.56
शृण्वन वै गीतशब्दं च तूर्यशब्दं च पुष्कलम पश्यंश चाप्सरसः शरेष्ठा नृत्यमानाः परंतप
MBh 3.164.57
तत सर्वम अनवज्ञाय तथ्यं विज्ज्ञाय भारत अत्यर्थं परतिगृह्याहम अस्त्रेष्व एव वयवस्थितः
MBh 3.164.58
ततॊ ऽतुष्यत सहस्राक्षस तेन कामेन मे विभुः एवं मे वसतॊ राजन्न एष कालॊ ऽतयगाद दिवि

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷