🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 163
The Book of the Forest · Parva 3 · 53 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 53 Shlokas
MBh 3.163.1
वैशंपायन उवाच
यथागतं गते शक्रे भ्रातृभिः सह संगतः
कृष्णया चैव बीभत्सुर्धर्मपुत्रमपूजयत्
MBh 3.163.2
अभिवादयमानं तु मूर्ध्न्युपाघ्राय पाण्डवम्
हर्षगद्गदया वाचा प्रहृष्टोऽर्जुनमब्रवीत्
MBh 3.163.3
कथमर्जुन कालोऽयं स्वर्गे व्यतिगतस्तव
कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः
MBh 3.163.4
सम्यग्वा ते गृहीतानि कच्चिदस्त्राणि भारत
कच्चित्सुराधिपः प्रीतो रुद्रश्चास्त्राण्यदात्तव
MBh 3.163.5
यथा दृष्टश्च ते शक्रो भगवान्वा पिनाकधृक्
यथा चास्त्राण्यवाप्तानि यथा चाराधितश्च ते
MBh 3.163.6
यथोक्तवांस्त्वां भगवाञ्शतक्रतुररिंदम
कृतप्रियस्त्वयास्मीति तच्च ते किं प्रियं कृतम्
एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते
MBh 3.163.7
यथा तुष्टो महादेवो देवराजश्च तेऽनघ
यच्चापि वज्रपाणेस्ते प्रियं कृतमरिंदम
एतदाख्याहि मे सर्वमखिलेन धनंजय
MBh 3.163.8
अर्जुन उवाच
शृणु हन्त महाराज विधिना येन दृष्टवान्
शतक्रतुमहं देवं भगवन्तं च शंकरम्
MBh 3.163.9
विद्यामधीत्य तां राजंस्त्वयोक्तामरिमर्दन
भवता च समादिष्टस्तपसे प्रस्थितो वनम्
MBh 3.163.10
भृगुतुङ्गमथो गत्वा काम्यकादास्थितस्तपः
एकरात्रोषितः कंचिदपश्यं ब्राह्मणं पथि
MBh 3.163.11
स मामपृच्छत्कौन्तेय क्वासि गन्ता ब्रवीहि मे
तस्मा अवितथं सर्वमब्रुवं कुरुनन्दन
MBh 3.163.12
स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम
अपूजयत मां राजन्प्रीतिमांश्चाभवन्मयि
MBh 3.163.13
ततो मामब्रवीत्प्रीतस्तप आतिष्ठ भारत
तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिपम्
MBh 3.163.14
ततोऽहं वचनात्तस्य गिरिमारुह्य शैशिरम्
तपोऽतप्यं महाराज मासं मूलफलाशनः
MBh 3.163.15
द्वितीयश्चापि मे मासो जलं भक्षयतो गतः
निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन
MBh 3.163.16
ऊर्ध्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा
न च मे हीयते प्राणस्तदद्भुतमिवाभवत्
MBh 3.163.17
चतुर्थे समभिक्रान्ते प्रथमे दिवसे गते
वराहसंस्थितं भूतं मत्समीपमुपागमत्
MBh 3.163.18
निघ्नन्प्रोथेन पृथिवीं विलिखंश्चरणैरपि
संमार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर्मुहुः
MBh 3.163.19
अनु तस्यापरं भूतं महत्कैरातसंस्थितम्
धनुर्बाणासिमत्प्राप्तं स्त्रीगणानुगतं तदा
MBh 3.163.20
ततोऽहं धनुरादाय तथाक्षय्यौ महेषुधी
अताडयं शरेणाथ तद्भूतं लोमहर्षणम्
MBh 3.163.21
युगपत्तत्किरातश्च विकृष्य बलवद्धनुः
अभ्याजघ्ने दृढतरं कम्पयन्निव मे मनः
MBh 3.163.22
स तु मामब्रवीद्राजन्मम पूर्वपरिग्रहः
मृगयाधर्ममुत्सृज्य किमर्थं ताडितस्त्वया
MBh 3.163.23
एष ते निशितैर्बाणैर्दर्पं हन्मि स्थिरो भव
स वर्ष्मवान्महाकायस्ततो मामभ्यधावत
MBh 3.163.24
ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः
तं चाहं शरवर्षेण महता समवाकिरम्
MBh 3.163.25
ततः शरैर्दीप्तमुखैः पत्रितैरनुमन्त्रितैः
प्रत्यविध्यमहं तं तु वज्रैरिव शिलोच्चयम्
MBh 3.163.26
तस्य तच्छतधा रूपमभवच्च सहस्रधा
तानि चास्य शरीराणि शरैरहमताडयम्
MBh 3.163.27
पुनस्तानि शरीराणि एकीभूतानि भारत
अदृश्यन्त महाराज तान्यहं व्यधमं पुनः
MBh 3.163.28
अणुर्बृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः
एकीभूतस्तदा राजन्सोऽभ्यवर्तत मां युधि
MBh 3.163.29
यदाभिभवितुं बाणैर्नैव शक्नोमि तं रणे
ततोऽहमस्त्रमातिष्ठं वायव्यं भरतर्षभ
MBh 3.163.30
न चैनमशकं हन्तुं तदद्भुतमिवाभवत्
तस्मिन्प्रतिहते चास्त्रे विस्मयो मे महानभूत्
MBh 3.163.31
भूयश्चैव महाराज सविशेषमहं ततः
अस्त्रपूगेन महता रणे भूतमवाकिरम्
MBh 3.163.32
स्थूणाकर्णमयोजालं शरवर्षं शरोल्बणम्
शैलास्त्रमश्मवर्षं च समास्थायाहमभ्ययाम्
जग्रास प्रहसंस्तानि सर्वाण्यस्त्राणि मेऽनघ
MBh 3.163.33
तेषु सर्वेषु शान्तेषु ब्रह्मास्त्रमहमादिशम्
ततः प्रज्वलितैर्बाणैः सर्वतः सोपचीयत
उपचीयमानश्च मया महास्त्रेण व्यवर्धत
MBh 3.163.34
ततः संतापितो लोको मत्प्रसूतेन तेजसा
क्षणेन हि दिशः खं च सर्वतोऽभिविदीपितम्
MBh 3.163.35
तदप्यस्त्रं महातेजाः क्षणेनैव व्यशातयत्
ब्रह्मास्त्रे तु हते राजन्भयं मां महदाविशत्
MBh 3.163.36
ततोऽहं धनुरादाय तथाक्षय्यौ महेषुधी
सहसाभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत्
MBh 3.163.37
हतेष्वस्त्रेषु सर्वेषु भक्षितेष्वायुधेषु च
मम तस्य च भूतस्य बाहुयुद्धमवर्तत
MBh 3.163.38
व्यायामं मुष्टिभिः कृत्वा तलैरपि समाहतौ
अपातयच्च तद्भूतं निश्चेष्टो ह्यगमं महीम्
MBh 3.163.39
ततः प्रहस्य तद्भूतं तत्रैवान्तरधीयत
सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम्
MBh 3.163.40
एवं कृत्वा स भगवांस्ततोऽन्यद्रूपमात्मनः
दिव्यमेव महाराज वसानोऽद्भुतमम्बरम्
MBh 3.163.41
हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः
स्वरूपं दिव्यमास्थाय तस्थौ तत्र महेश्वरः
MBh 3.163.42
अदृश्यत ततः साक्षाद्भगवान्गोवृषध्वजः
उमासहायो हरिदृग्बहुरूपः पिनाकधृक्
MBh 3.163.43
स मामभ्येत्य समरे तथैवाभिमुखं स्थितम्
शूलपाणिरथोवाच तुष्टोऽस्मीति परंतप
MBh 3.163.44
ततस्तद्धनुरादाय तूणौ चाक्षय्यसायकौ
प्रादान्ममैव भगवान्वरयस्वेति चाब्रवीत्
MBh 3.163.45
तुष्टोऽस्मि तव कौन्तेय ब्रूहि किं करवाणि ते
यत्ते मनोगतं वीर तद्ब्रूहि वितराम्यहम्
अमरत्वमपाहाय ब्रूहि यत्ते मनोगतम्
MBh 3.163.46
ततः प्राञ्जलिरेवाहमस्त्रेषु गतमानसः
प्रणम्य शिरसा शर्वं ततो वचनमाददे
MBh 3.163.47
भगवान्मे प्रसन्नश्चेदीप्सितोऽयं वरो मम
अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित्
ददानीत्येव भगवानब्रवीत्त्र्यम्बकश्च माम्
MBh 3.163.48
रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव
प्रददौ च मम प्रीतः सोऽस्त्रं पाशुपतं प्रभुः
MBh 3.163.49
उवाच च महादेवो दत्त्वा मेऽस्त्रं सनातनम्
न प्रयोज्यं भवेदेतन्मानुषेषु कथंचन
MBh 3.163.50
पीड्यमानेन बलवत्प्रयोज्यं ते धनंजय
अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेः
MBh 3.163.51
तदप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम्
मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे
MBh 3.163.52
उत्सादनममित्राणां परसेनानिकर्तनम्
दुरासदं दुष्प्रहसं सुरदानवराक्षसैः
MBh 3.163.53
अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम्
प्रेक्षतश्चैव मे देवस्तत्रैवान्तरधीयत
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 162
- Next chapter · Vana-Parva (Āraṇyaka) Ch 164 →
Sources and Connected Readings
Continue from these 53 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.163local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷