🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 149

The Book of the Forest · Parva 3 · 52 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 52 Shlokas

MBh 3.149.1
भीम उवाच पूर्वरूपमदृष्ट्वा ते न यास्यामि कथंचन यदि तेऽहमनुग्राह्यो दर्शयात्मानमात्मना
MBh 3.149.2
वैशंपायन उवाच एवमुक्तस्तु भीमेन स्मितं कृत्वा प्लवंगमः तद्रूपं दर्शयामास यद्वै सागरलङ्घने
MBh 3.149.3
भ्रातुः प्रियमभीप्सन्वै चकार सुमहद्वपुः देहस्तस्य ततोऽतीव वर्धत्यायामविस्तरैः
MBh 3.149.4
तद्रूपं कदलीषण्डं छादयन्नमितद्युतिः गिरेश्चोच्छ्रयमागम्य तस्थौ तत्र स वानरः
MBh 3.149.5
समुच्छ्रितमहाकायो द्वितीय इव पर्वतः ताम्रेक्षणस्तीक्ष्णदंष्ट्रो भृकुटीकृतलोचनः दीर्घलाङ्गूलमाविध्य दिशो व्याप्य स्थितः कपिः
MBh 3.149.6
तद्रूपं महदालक्ष्य भ्रातुः कौरवनन्दनः विसिस्मिये तदा भीमो जहृषे च पुनः पुनः
MBh 3.149.7
तमर्कमिव तेजोभिः सौवर्णमिव पर्वतम् प्रदीप्तमिव चाकाशं दृष्ट्वा भीमो न्यमीलयत्
MBh 3.149.8
आबभाषे च हनुमान्भीमसेनं स्मयन्निव एतावदिह शक्तस्त्वं रूपं द्रष्टुं ममानघ
MBh 3.149.9
वर्धेऽहं चाप्यतो भूयो यावन्मे मनसेप्सितम् भीम शत्रुषु चात्यर्थं वर्धते मूर्तिरोजसा
MBh 3.149.10
तदद्भुतं महारौद्रं विन्ध्यमन्दरसंनिभम् दृष्ट्वा हनूमतो वर्ष्म संभ्रान्तः पवनात्मजः
MBh 3.149.11
प्रत्युवाच ततो भीमः संप्रहृष्टतनूरुहः कृताञ्जलिरदीनात्मा हनूमन्तमवस्थितम्
MBh 3.149.12
दृष्टं प्रमाणं विपुलं शरीरस्यास्य ते विभो संहरस्व महावीर्य स्वयमात्मानमात्मना
MBh 3.149.13
न हि शक्नोमि त्वां द्रष्टुं दिवाकरमिवोदितम् अप्रमेयमनाधृष्यं मैनाकमिव पर्वतम्
MBh 3.149.14
विस्मयश्चैव मे वीर सुमहान्मनसोऽद्य वै यद्रामस्त्वयि पार्श्वस्थे स्वयं रावणमभ्यगात्
MBh 3.149.15
त्वमेव शक्तस्तां लङ्कां सयोधां सहवाहनाम् स्वबाहुबलमाश्रित्य विनाशयितुमोजसा
MBh 3.149.16
न हि ते किंचिदप्राप्यं मारुतात्मज विद्यते तव नैकस्य पर्याप्तो रावणः सगणो युधि
MBh 3.149.17
एवमुक्तस्तु भीमेन हनूमान्प्लवगर्षभः प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरया गिरा
MBh 3.149.18
एवमेतन्महाबाहो यथा वदसि भारत भीमसेन न पर्याप्तो ममासौ राक्षसाधमः
MBh 3.149.19
मया तु तस्मिन्निहते रावणे लोककण्टके कीर्तिर्नश्येद्राघवस्य तत एतदुपेक्षितम्
MBh 3.149.20
तेन वीरेण हत्वा तु सगणं राक्षसाधिपम् आनीता स्वपुरं सीता लोके कीर्तिश्च स्थापिता
MBh 3.149.21
तद्गच्छ विपुलप्रज्ञ भ्रातुः प्रियहिते रतः अरिष्टं क्षेममध्वानं वायुना परिरक्षितः
MBh 3.149.22
एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय ते द्रक्ष्यसे धनदोद्यानं रक्षितं यक्षराक्षसैः
MBh 3.149.23
न च ते तरसा कार्यः कुसुमावचयः स्वयम् दैवतानि हि मान्यानि पुरुषेण विशेषतः
MBh 3.149.24
बलिहोमनमस्कारैर्मन्त्रैश्च भरतर्षभ दैवतानि प्रसादं हि भक्त्या कुर्वन्ति भारत
MBh 3.149.25
मा तात साहसं कार्षीः स्वधर्ममनुपालय स्वधर्मस्थः परं धर्मं बुध्यस्वागमयस्व च
MBh 3.149.26
न हि धर्ममविज्ञाय वृद्धाननुपसेव्य च धर्मो वै वेदितुं शक्यो बृहस्पतिसमैरपि
MBh 3.149.27
अधर्मो यत्र धर्माख्यो धर्मश्चाधर्मसंज्ञितः विज्ञातव्यो विभागेन यत्र मुह्यन्त्यबुद्धयः
MBh 3.149.28
आचारसंभवो धर्मो धर्माद्वेदाः समुत्थिताः वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः
MBh 3.149.29
वेदाचारविधानोक्तैर्यज्ञैर्धार्यन्ति देवताः बृहस्पत्युशनोक्तैश्च नयैर्धार्यन्ति मानवाः
MBh 3.149.30
पण्याकरवणिज्याभिः कृष्याथो योनिपोषणैः वार्तया धार्यते सर्वं धर्मैरेतैर्द्विजातिभिः
MBh 3.149.31
त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या विजानताम् ताभिः सम्यक्प्रयुक्ताभिर्लोकयात्रा विधीयते
MBh 3.149.32
सा चेद्धर्मक्रिया न स्यात्त्रयीधर्ममृते भुवि दण्डनीतिमृते चापि निर्मर्यादमिदं भवेत्
MBh 3.149.33
वार्ताधर्मे ह्यवर्तन्त्यो विनश्येयुरिमाः प्रजाः सुप्रवृत्तैस्त्रिभिर्ह्येतैर्धर्मैः सूयन्ति वै प्रजाः
MBh 3.149.34
द्विजानाममृतं धर्मो ह्येकश्चैवैकवर्णिकः यज्ञाध्ययनदानानि त्रयः साधारणाः स्मृताः
MBh 3.149.35
याजनाध्यापने चोभे ब्राह्मणानां प्रतिग्रहः पालनं क्षत्रियाणां वै वैश्यधर्मश्च पोषणम्
MBh 3.149.36
शुश्रूषा तु द्विजातीनां शूद्राणां धर्म उच्यते भैक्षहोमव्रतैर्हीनास्तथैव गुरुवासिनाम्
MBh 3.149.37
क्षत्रधर्मोऽत्र कौन्तेय तव धर्माभिरक्षणम् स्वधर्मं प्रतिपद्यस्व विनीतो नियतेन्द्रियः
MBh 3.149.38
वृद्धैः संमन्त्र्य सद्भिश्च बुद्धिमद्भिः श्रुतान्वितैः सुस्थितः शास्ति दण्डेन व्यसनी परिभूयते
MBh 3.149.39
निग्रहानुग्रहैः सम्यग्यदा राजा प्रवर्तते तदा भवति लोकस्य मर्यादा सुव्यवस्थिता
MBh 3.149.40
तस्माद्देशे च दुर्गे च शत्रुमित्रबलेषु च नित्यं चारेण बोद्धव्यं स्थानं वृद्धिः क्षयस्तथा
MBh 3.149.41
राज्ञामुपायाश्चत्वारो बुद्धिमन्त्रः पराक्रमः निग्रहानुग्रहौ चैव दाक्ष्यं तत्कार्यसाधनम्
MBh 3.149.42
साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च साधनीयानि कार्याणि समासव्यासयोगतः
MBh 3.149.43
मन्त्रमूला नयाः सर्वे चाराश्च भरतर्षभ सुमन्त्रितैर्नयैः सिद्धिस्तद्विदैः सह मन्त्रयेत्
MBh 3.149.44
स्त्रिया मूढेन लुब्धेन बालेन लघुना तथा न मन्त्रयेत गुह्यानि येषु चोन्मादलक्षणम्
MBh 3.149.45
मन्त्रयेत्सह विद्वद्भिः शक्तैः कर्माणि कारयेत् स्निग्धैश्च नीतिविन्यासान्मूर्खान्सर्वत्र वर्जयेत्
MBh 3.149.46
धार्मिकान्धर्मकार्येषु अर्थकार्येषु पण्डितान् स्त्रीषु क्लीबान्नियुञ्जीत क्रूरान्क्रूरेषु कर्मसु
MBh 3.149.47
स्वेभ्यश्चैव परेभ्यश्च कार्याकार्यसमुद्भवा बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम्
MBh 3.149.48
बुद्ध्या सुप्रतिपन्नेषु कुर्यात्साधुपरिग्रहम् निग्रहं चाप्यशिष्टेषु निर्मर्यादेषु कारयेत्
MBh 3.149.49
निग्रहे प्रग्रहे सम्यग्यदा राजा प्रवर्तते तदा भवति लोकस्य मर्यादा सुव्यवस्थिता
MBh 3.149.50
एष ते विहितः पार्थ घोरो धर्मो दुरन्वयः तं स्वधर्मविभागेन विनयस्थोऽनुपालय
MBh 3.149.51
तपोधर्मदमेज्याभिर्विप्रा यान्ति यथा दिवम् दानातिथ्यक्रियाधर्मैर्यान्ति वैश्याश्च सद्गतिम्
MBh 3.149.52
क्षत्रं याति तथा स्वर्गं भुवि निग्रहपालनैः सम्यक्प्रणीय दण्डं हि कामद्वेषविवर्जिताः अलुब्धा विगतक्रोधाः सतां यान्ति सलोकताम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 52 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.149local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷