🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 113
The Book of the Forest · Parva 3 · 25 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 25 Shlokas
MBh 3.113.1
[विभान्द]
रक्षांसि चैतानि चरन्ति पुत्र; रूपेण तेनाद्भुत दर्शनेन
अतुल्यरूपाण्य अति घॊरवन्ति; विघ्नं सदा तपसश चिन्तयन्ति
MBh 3.113.2
सुरूपरूपाणि च तानि तात; परलॊभयन्ते विविधैर उपायैः
सुखाच च लॊकाच च निपातयन्ति; तान्य उग्रकर्माणि मुनीन वनेषु
MBh 3.113.3
न तानि सेवेत मुनिर यतात्मा; सतां लॊकान परार्थयानः कथं चित
कृत्वा विघ्नं तापसानां रमन्ते; पापाचारास तपसस तान्य अपाप
MBh 3.113.4
असज जनेनाचरितानि पुत्र; पापान्य अपेयानि मधूनि तानि
माल्यानि चैतानि न वै मुनीनां; समृतानि चित्रॊज्ज्वल गन्धवन्ति
MBh 3.113.5
[लॊमष]
रक्षांसि तानीति निवार्य पुत्रं; विभाण्डकस तां मृगयां बभूव
नासादयाम आस यदा तर्यहेण; तदा स पर्याववृते ऽऽशरमाय
MBh 3.113.6
यदा पुनः काश्यपॊ वै जगाम; फलान्य आहर्तुं विधिना शरामणेन
तदा पुनर लॊभयितुं जगाम; सा वेश यॊषा मुनिम ऋश्य शृङ्गम
MBh 3.113.7
दृष्ट्वैव ताम ऋश्य शृङ्गः परहृष्टः; संभान्त रूपॊ ऽभयपतत तदानीम
परॊवाच चैनां भवतॊ ऽऽशरमाय; गच्छाव यावन न पिता ममेति
MBh 3.113.8
ततॊ राजन काश्यपस्यैक पुत्रं; परवेश्य यॊगेन विमुच्य नावम
परलॊभयन्त्यॊ विविधैर उपायैर; आजग्मुर अङ्गाधिपतेः समीपम
MBh 3.113.9
संस्थाप्य ताम आश्रमदर्शने तु; संतारितां नावम अतीव शुभ्राम
तीराद उपादाय तथैव चक्रे; राजाश्रमं नाम वनं वि चित्रम
MBh 3.113.10
अन्तःपुरे तं तु निवेश्य राजा; विभाण्डकस्यात्म जम एकपुत्रम
ददर्श देवं सहसा परविष्टम; आपूर्यमाणं च जगज जलेन
MBh 3.113.11
स लॊम पादः परिपूर्णकामः; सुतां ददाव ऋश्य शृङ्गाय शान्ताम
करॊधप्रतीकार करं च चक्रे; गॊभिश च मार्गेष्व अभिकर्षणं च
MBh 3.113.12
विभाण्डकस्याव्रजतः स राजा; पशून परभूतान पशुपांश च वीरान
समादिशत पुत्र गृधी महर्षिर; विभाण्डकः परिपृच्छेद यदा वः
MBh 3.113.13
स वक्तव्यः पराञ्जलिभिर भवद्भिः; पुत्रस्य ते पशवः कर्षणं च
किं ते परियं वै करियतां महर्षे; दासाः सम सर्वे तव वाचि बद्धाः
MBh 3.113.14
अथॊपायात स मुनिश चण्डकॊपः; सवम आश्रमं फलमूलानि गृह्य
अन्वेषमाणश च न तत्र पुत्रं; ददर्श चुक्रॊध ततॊ भृशं सः
MBh 3.113.15
ततः स कॊपेन विदीर्यमाण; आशङ्कमानॊ नृपतेर विधानम
जगाम चम्पां परदिदक्षमाणस; तम अङ्गराजं विषयं च तस्य
MBh 3.113.16
स वै शरान्तः कषुधितः काश्यपस तान; घॊषान समासादितवान समृद्धान
गॊपैश च तैर विधिवत पूज्यमानॊ; राजेव तां रात्रिम उवाच तत्र
MBh 3.113.17
संप्राप्य सत्कारम अतीव तेभ्यः; परॊवाच कस्य परथिताः सथ सौम्याः
ऊचुर ततस ते ऽभयुपगम्य सर्वे; धनं तवेदं विहितं सुतस्य
MBh 3.113.18
देशे तु देशे तु स पूज्यमानस; तांश चैव शृण्वन मधुरान परलापान
परशान्तभूयिष्ठ रजाः परहृष्टः; समाससादाङ्गपतिं पुरस्थम
MBh 3.113.19
संपूजितस तेन नरर्षभेण; ददर्श पुत्रं दिवि देवं यथेन्द्रम
शान्तां सनुषां चैव ददर्श तत्र; सौदामिनीम उच्चरन्तीं यथैव
MBh 3.113.20
गरामांश च घॊषांश च सुतं च दृष्ट्वा; शान्तां च शान्तॊ ऽसय परः स कॊपः
चकार तस्मै परमं परसादं; विभाण्डकॊ भूमिपतेर नरेन्द्र
MBh 3.113.21
स तत्र निक्षिप्य सुतं महर्षिर; उवाच सूर्याग्निसमप्रभावम
जाते पुत्रे वनम एवाव्रजेथा; राज्ञः परियाण्य अस्य सर्वाणि कृत्वा
MBh 3.113.22
स तद वचः कृतवान ऋश्य शृङ्गॊ; ययौ च यत्रास्य पिता बभूव
शान्ता चैनं पर्यचरद यथा वत; खे रॊहिणी सॊमम इवानुकूला
MBh 3.113.23
अरुन्धती वा सुभगा वसिष्ठं; लॊपामुद्रा वापि यथा हय अगस्त्यम
नलस्य वा दमयन्ती यथाभूद; यथा शची वज्रधरस्य चैव
MBh 3.113.24
नाडायनी चेन्द्रसेना यथैव; वश्या नित्यं मुद्गलस्याजमीढ
तथा शान्ता ऋश्य शृङ्गं वनस्थं; परीत्या युक्ता पर्यचरन नरेन्द्र
MBh 3.113.25
तस्याश्रमः पुण्य एषॊ विभाति; महाह्रदं शॊभयन पुण्यकीर्तिः
अत्र सनातः कृतकृत्यॊ विशुद्धस; तीर्थान्य अन्यान्य अनुसंयाहि राजन
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 112
- Next chapter · Vana-Parva (Āraṇyaka) Ch 114 →
🪷 जय व्यास भगवान् 🪷