🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 107

The Book of the Forest · Parva 3 · 25 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 25 Shlokas

MBh 3.107.1
लोमश उवाच स तु राजा महेष्वासश्चक्रवर्ती महारथः बभूव सर्वलोकस्य मनोनयननन्दनः
MBh 3.107.2
स शुश्राव महाबाहुः कपिलेन महात्मना पितॄणां निधनं घोरमप्राप्तिं त्रिदिवस्य च
MBh 3.107.3
स राज्यं सचिवे न्यस्य हृदयेन विदूयता जगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वरः
MBh 3.107.4
आरिराधयिषुर्गङ्गां तपसा दग्धकिल्बिषः सोऽपश्यत नरश्रेष्ठ हिमवन्तं नगोत्तमम्
MBh 3.107.5
शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलंकृतम् पवनालम्बिभिर्मेघैः परिष्वक्तं समन्ततः
MBh 3.107.6
नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम् गुहाकन्दरसंलीनैः सिंहव्याघ्रैर्निषेवितम्
MBh 3.107.7
शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः
MBh 3.107.8
मयूरैः शतपत्रैश्च कोकिलैर्जीवजीवकैः चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि
MBh 3.107.9
जलस्थानेषु रम्येषु पद्मिनीभिश्च संकुलम् सारसानां च मधुरैर्व्याहृतैः समलंकृतम्
MBh 3.107.10
किंनरैरप्सरोभिश्च निषेवितशिलातलम् दिशागजविषाणाग्रैः समन्ताद्घृष्टपादपम्
MBh 3.107.11
विद्याधरानुचरितं नानारत्नसमाकुलम् विषोल्बणैर्भुजंगैश्च दीप्तजिह्वैर्निषेवितम्
MBh 3.107.12
क्वचित्कनकसंकाशं क्वचिद्रजतसंनिभम् क्वचिदञ्जनपुञ्जाभं हिमवन्तमुपागमत्
MBh 3.107.13
स तु तत्र नरश्रेष्ठस्तपो घोरं समाश्रितः फलमूलाम्बुभक्षोऽभूत्सहस्रं परिवत्सरान्
MBh 3.107.14
संवत्सरसहस्रे तु गते दिव्ये महानदी दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम्
MBh 3.107.15
गङ्गोवाच किमिच्छसि महाराज मत्तः किं च ददानि ते तद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव
MBh 3.107.16
लोमश उवाच एवमुक्तः प्रत्युवाच राजा हैमवतीं तदा पितामहा मे वरदे कपिलेन महानदि अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम्
MBh 3.107.17
षष्टिस्तानि सहस्राणि सागराणां महात्मनाम् कापिलं तेज आसाद्य क्षणेन निधनं गताः
MBh 3.107.18
तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते यावत्तानि शरीराणि त्वं जलैर्नाभिषिञ्चसि
MBh 3.107.19
स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान् तेषामर्थेऽभियाचामि त्वामहं वै महानदि
MBh 3.107.20
एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता भगीरथमिदं वाक्यं सुप्रीता समभाषत
MBh 3.107.21
करिष्यामि महाराज वचस्ते नात्र संशयः वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम्
MBh 3.107.22
न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात्
MBh 3.107.23
तं तोषय महाबाहो तपसा वरदं हरम् स तु मां प्रच्युतां देवः शिरसा धारयिष्यति करिष्यति च ते कामं पितॄणां हितकाम्यया
MBh 3.107.24
एतच्छ्रुत्वा वचो राजन्महाराजो भगीरथः कैलासं पर्वतं गत्वा तोषयामास शंकरम्
MBh 3.107.25
ततस्तेन समागम्य कालयोगेन केनचित् अगृह्णाच्च वरं तस्माद्गङ्गाया धारणं नृप स्वर्गवासं समुद्दिश्य पितॄणां स नरोत्तमः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 25 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.107local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷