🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 106

The Book of the Forest · Parva 3 · 40 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 40 Shlokas

MBh 3.106.1
लोमश उवाच ते तं दृष्ट्वा हयं राजन्संप्रहृष्टतनूरुहाः अनादृत्य महात्मानं कपिलं कालचोदिताः संक्रुद्धाः समधावन्त अश्वग्रहणकाङ्क्षिणः
MBh 3.106.2
ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः वासुदेवेति यं प्राहुः कपिलं मुनिसत्तमम्
MBh 3.106.3
स चक्षुर्विवृतं कृत्वा तेजस्तेषु समुत्सृजन् ददाह सुमहातेजा मन्दबुद्धीन्स सागरान्
MBh 3.106.4
तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः सगरान्तिकमागच्छत्तच्च तस्मै न्यवेदयत्
MBh 3.106.5
स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम् मुहूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत् आत्मानमात्मनाश्वास्य हयमेवान्वचिन्तयत्
MBh 3.106.6
अंशुमन्तं समाहूय असमञ्जःसुतं तदा पौत्रं भरतशार्दूल इदं वचनमब्रवीत्
MBh 3.106.7
षष्टिस्तानि सहस्राणि पुत्राणाममितौजसाम् कापिलं तेज आसाद्य मत्कृते निधनं गताः
MBh 3.106.8
तव चापि पिता तात परित्यक्तो मयानघ धर्मं संरक्षमाणेन पौराणां हितमिच्छता
MBh 3.106.9
युधिष्ठिर उवाच किमर्थं राजशार्दूलः सगरः पुत्रमात्मजम् त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन
MBh 3.106.10
लोमश उवाच असमञ्जा इति ख्यातः सगरस्य सुतो ह्यभूत् यं शैब्या जनयामास पौराणां स हि दारकान् खुरेषु क्रोशतो गृह्य नद्यां चिक्षेप दुर्बलान्
MBh 3.106.11
ततः पौराः समाजग्मुर्भयशोकपरिप्लुताः सगरं चाभ्ययाचन्त सर्वे प्राञ्जलयः स्थिताः
MBh 3.106.12
त्वं नस्त्राता महाराज परचक्रादिभिर्भयैः असमञ्जोभयाद्घोरात्ततो नस्त्रातुमर्हसि
MBh 3.106.13
पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः मुहूर्तं विमना भूत्वा सचिवानिदमब्रवीत्
MBh 3.106.14
असमञ्जाः पुरादद्य सुतो मे विप्रवास्यताम् यदि वो मत्प्रियं कार्यमेतच्छीघ्रं विधीयताम्
MBh 3.106.15
एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप यथोक्तं त्वरिताश्चक्रुर्यथाज्ञापितवान्नृपः
MBh 3.106.16
एतत्ते सर्वमाख्यातं यथा पुत्रो महात्मना पौराणां हितकामेन सगरेण विवासितः
MBh 3.106.17
अंशुमांस्तु महेष्वासो यदुक्तः सगरेण ह तत्ते सर्वं प्रवक्ष्यामि कीर्त्यमानं निबोध मे
MBh 3.106.18
सगर उवाच पितुश्च तेऽहं त्यागेन पुत्राणां निधनेन च अलाभेन तथाश्वस्य परितप्यामि पुत्रक
MBh 3.106.19
तस्माद्दुःखाभिसंतप्तं यज्ञविघ्नाच्च मोहितम् हयस्यानयनात्पौत्र नरकान्मां समुद्धर
MBh 3.106.20
लोमश उवाच अंशुमानेवमुक्तस्तु सगरेण महात्मना जगाम दुःखात्तं देशं यत्र वै दारिता मही
MBh 3.106.21
स तु तेनैव मार्गेण समुद्रं प्रविवेश ह अपश्यच्च महात्मानं कपिलं तुरगं च तम्
MBh 3.106.22
स दृष्ट्वा तेजसो राशिं पुराणमृषिसत्तमम् प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत्
MBh 3.106.23
ततः प्रीतो महातेजाः कलिपोंऽशुमतोऽभवत् उवाच चैनं धर्मात्मा वरदोऽस्मीति भारत
MBh 3.106.24
स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात् द्वितीयमुदकं वव्रे पितॄणां पावनेप्सया
MBh 3.106.25
तमुवाच महातेजाः कपिलो मुनिपुंगवः ददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ
MBh 3.106.26
त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम् त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता
MBh 3.106.27
तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराः पौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यति पावनार्थं सागराणां तोषयित्वा महेश्वरम्
MBh 3.106.28
हयं नयस्व भद्रं ते यज्ञियं नरपुंगव यज्ञः समाप्यतां तात सगरस्य महात्मनः
MBh 3.106.29
अंशुमानेवमुक्तस्तु कपिलेन महात्मना आजगाम हयं गृह्य यज्ञवाटं महात्मनः
MBh 3.106.30
सोऽभिवाद्य ततः पादौ सगरस्य महात्मनः मूर्ध्नि तेनाप्युपाघ्रातस्तस्मै सर्वं न्यवेदयत्
MBh 3.106.31
यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा तं चास्मै हयमाचष्ट यज्ञवाटमुपागतम्
MBh 3.106.32
तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत् अंशुमन्तं च संपूज्य समापयत तं क्रतुम्
MBh 3.106.33
समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः पुत्रत्वे कल्पयामास समुद्रं वरुणालयम्
MBh 3.106.34
प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः पौत्रे भारं समावेश्य जगाम त्रिदिवं तदा
MBh 3.106.35
अंशुमानपि धर्मात्मा महीं सागरमेखलाम् प्रशशास महाराज यथैवास्य पितामहः
MBh 3.106.36
तस्य पुत्रः समभवद्दिलीपो नाम धर्मवित् तस्मै राज्यं समाधाय अंशुमानपि संस्थितः
MBh 3.106.37
दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत् पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत्
MBh 3.106.38
गङ्गावतरणे यत्नं सुमहच्चाकरोन्नृपः न चावतारयामास चेष्टमानो यथाबलम्
MBh 3.106.39
तस्य पुत्रः समभवच्छ्रीमान्धर्मपरायणः भगीरथ इति ख्यातः सत्यवागनसूयकः
MBh 3.106.40
अभिषिच्य तु तं राज्ये दिलीपो वनमाश्रितः तपःसिद्धिसमायोगात्स राजा भरतर्षभ वनाज्जगाम त्रिदिवं कालयोगेन भारत

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 40 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.106local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷