🪷 Mahābhārata · Udyoga-Parva · Chapter 9

The Book of the Effort · Parva 5 · 52 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 52 Shlokas

MBh 5.9.1
युधिष्ठिर उवाच कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना दुःखं प्राप्तं परं घोरमेतदिच्छामि वेदितुम्
MBh 5.9.2
शल्य उवाच शृणु राजन्पुरा वृत्तमितिहासं पुरातनम् सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत
MBh 5.9.3
त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात्किलासृजत्
MBh 5.9.4
ऐन्द्रं स प्रार्थयत्स्थानं विश्वरूपो महाद्युतिः तैस्त्रिभिर्वदनैर्घोरैः सूर्येन्दुज्वलनोपमैः
MBh 5.9.5
वेदानेकेन सोऽधीते सुरामेकेन चापिबत् एकेन च दिशः सर्वाः पिबन्निव निरीक्षते
MBh 5.9.6
स तपस्वी मृदुर्दान्तो धर्मे तपसि चोद्यतः तपोऽतप्यन्महत्तीव्रं सुदुश्चरमरिंदम
MBh 5.9.7
तस्य दृष्ट्वा तपोवीर्यं सत्त्वं चामिततेजसः विषादमगमच्छक्र इन्द्रोऽयं मा भवेदिति
MBh 5.9.8
कथं सज्जेत भोगेषु न च तप्येन्महत्तपः विवर्धमानस्त्रिशिराः सर्वं त्रिभुवनं ग्रसेत्
MBh 5.9.9
इति संचिन्त्य बहुधा बुद्धिमान्भरतर्षभ आज्ञापयत्सोऽप्सरसस्त्वष्टृपुत्रप्रलोभने
MBh 5.9.10
यथा स सज्जेत्त्रिशिराः कामभोगेषु वै भृशम् क्षिप्रं कुरुत गच्छध्वं प्रलोभयत माचिरम्
MBh 5.9.11
शृङ्गारवेषाः सुश्रोण्यो भावैर्युक्ता मनोहरैः प्रलोभयत भद्रं वः शमयध्वं भयं मम
MBh 5.9.12
अस्वस्थं ह्यात्मनात्मानं लक्षयामि वराङ्गनाः भयमेतन्महाघोरं क्षिप्रं नाशयताबलाः
MBh 5.9.13
अप्सरस ऊचुः तथा यत्नं करिष्यामः शक्र तस्य प्रलोभने यथा नावाप्स्यसि भयं तस्माद्बलनिषूदन
MBh 5.9.14
निर्दहन्निव चक्षुर्भ्यां योऽसावास्ते तपोनिधिः तं प्रलोभयितुं देव गच्छामः सहिता वयम् यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भयम्
MBh 5.9.15
शल्य उवाच इन्द्रेण तास्त्वनुज्ञाता जग्मुस्त्रिशिरसोऽन्तिकम् तत्र ता विविधैर्भावैर्लोभयन्त्यो वराङ्गनाः नृत्यं संदर्शयन्त्यश्च तथैवाङ्गेषु सौष्ठवम्
MBh 5.9.16
विचेरुः संप्रहर्षं च नाभ्यगच्छन्महातपाः इन्द्रियाणि वशे कृत्वा पूर्णसागरसंनिभः
MBh 5.9.17
तास्तु यत्नं परं कृत्वा पुनः शक्रमुपस्थिताः कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन्
MBh 5.9.18
न स शक्यः सुदुर्धर्षो धैर्याच्चालयितुं प्रभो यत्ते कार्यं महाभाग क्रियतां तदनन्तरम्
MBh 5.9.19
संपूज्याप्सरसः शक्रो विसृज्य च महामतिः चिन्तयामास तस्यैव वधोपायं महात्मनः
MBh 5.9.20
स तूष्णीं चिन्तयन्वीरो देवराजः प्रतापवान् विनिश्चितमतिर्धीमान्वधे त्रिशिरसोऽभवत्
MBh 5.9.21
वज्रमस्य क्षिपाम्यद्य स क्षिप्रं न भविष्यति शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलोऽपि बलीयसा
MBh 5.9.22
शास्त्रबुद्ध्या विनिश्चित्य कृत्वा बुद्धिं वधे दृढाम् अथ वैश्वानरनिभं घोररूपं भयावहम् मुमोच वज्रं संक्रुद्धः शक्रस्त्रिशिरसं प्रति
MBh 5.9.23
स पपात हतस्तेन वज्रेण दृढमाहतः पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले
MBh 5.9.24
तं तु वज्रहतं दृष्ट्वा शयानमचलोपमम् न शर्म लेभे देवेन्द्रो दीपितस्तस्य तेजसा हतोऽपि दीप्ततेजाः स जीवन्निव च दृश्यते
MBh 5.9.25
अभितस्तत्र तक्षाणं घटमानं शचीपतिः अपश्यदब्रवीच्चैनं सत्वरं पाकशासनः क्षिप्रं छिन्धि शिरांस्यस्य कुरुष्व वचनं मम
MBh 5.9.26
तक्षोवाच महास्कन्धो भृशं ह्येष परशुर्न तरिष्यति कर्तुं चाहं न शक्ष्यामि कर्म सद्भिर्विगर्हितम्
MBh 5.9.27
इन्द्र उवाच मा भैस्त्वं क्षिप्रमेतद्वै कुरुष्व वचनं मम मत्प्रसादाद्धि ते शस्त्रं वज्रकल्पं भविष्यति
MBh 5.9.28
तक्षोवाच कं भवन्तमहं विद्यां घोरकर्माणमद्य वै एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथयस्व मे
MBh 5.9.29
इन्द्र उवाच अहमिन्द्रो देवराजस्तक्षन्विदितमस्तु ते कुरुष्वैतद्यथोक्तं मे तक्षन्मा त्वं विचारय
MBh 5.9.30
तक्षोवाच क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न ते
MBh 5.9.31
इन्द्र उवाच पश्चाद्धर्मं चरिष्यामि पावनार्थं सुदुश्चरम् शत्रुरेष महावीर्यो वज्रेण निहतो मया
MBh 5.9.32
अद्यापि चाहमुद्विग्नस्तक्षन्नस्माद्बिभेमि वै क्षिप्रं छिन्धि शिरांसि त्वं करिष्येऽनुग्रहं तव
MBh 5.9.33
शिरः पशोस्ते दास्यन्ति भागं यज्ञेषु मानवाः एष तेऽनुग्रहस्तक्षन्क्षिप्रं कुरु मम प्रियम्
MBh 5.9.34
शल्य उवाच एतच्छ्रुत्वा तु तक्षा स महेन्द्रवचनं तदा शिरांस्यथ त्रिशिरसः कुठारेणाच्छिनत्तदा
MBh 5.9.35
निकृत्तेषु ततस्तेषु निष्क्रामंस्त्रिशिरास्त्वथ कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः
MBh 5.9.36
येन वेदानधीते स्म पिबते सोममेव च तस्माद्वक्त्रान्विनिष्पेतुः क्षिप्रं तस्य कपिञ्जलाः
MBh 5.9.37
येन सर्वा दिशो राजन्पिबन्निव निरीक्षते तस्माद्वक्त्राद्विनिष्पेतुस्तित्तिरास्तस्य पाण्डव
MBh 5.9.38
यत्सुरापं तु तस्यासीद्वक्त्रं त्रिशिरसस्तदा कलविङ्का विनिष्पेतुस्तेनास्य भरतर्षभ
MBh 5.9.39
ततस्तेषु निकृत्तेषु विज्वरो मघवानभूत् जगाम त्रिदिवं हृष्टस्तक्षापि स्वगृहान्ययौ
MBh 5.9.40
त्वष्टा प्रजापतिः श्रुत्वा शक्रेणाथ हतं सुतम् क्रोधसंरक्तनयन इदं वचनमब्रवीत्
MBh 5.9.41
तप्यमानं तपो नित्यं क्षान्तं दान्तं जितेन्द्रियम् अनापराधिनं यस्मात्पुत्रं हिंसितवान्मम
MBh 5.9.42
तस्माच्छक्रवधार्थाय वृत्रमुत्पादयाम्यहम् लोकाः पश्यन्तु मे वीर्यं तपसश्च बलं महत् स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः
MBh 5.9.43
उपस्पृश्य ततः क्रुद्धस्तपस्वी सुमहायशाः अग्निं हुत्वा समुत्पाद्य घोरं वृत्रमुवाच ह इन्द्रशत्रो विवर्धस्व प्रभावात्तपसो मम
MBh 5.9.44
सोऽवर्धत दिवं स्तब्ध्वा सूर्यवैश्वानरोपमः किं करोमीति चोवाच कालसूर्य इवोदितः शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः
MBh 5.9.45
ततो युद्धं समभवद्वृत्रवासवयोस्तदा संक्रुद्धयोर्महाघोरं प्रसक्तं कुरुसत्तम
MBh 5.9.46
ततो जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम् अपावृत्य स जग्रास वृत्रः क्रोधसमन्वितः
MBh 5.9.47
ग्रस्ते वृत्रेण शक्रे तु संभ्रान्तास्त्रिदशास्तदा असृजंस्ते महासत्त्वा जृम्भिकां वृत्रनाशिनीम्
MBh 5.9.48
विजृम्भमाणस्य ततो वृत्रस्यास्यादपावृतात् स्वान्यङ्गान्यभिसंक्षिप्य निष्क्रान्तो बलसूदनः ततः प्रभृति लोकेषु जृम्भिका प्राणिसंश्रिता
MBh 5.9.49
जहृषुश्च सुराः सर्वे दृष्ट्वा शक्रं विनिःसृतम् ततः प्रववृते युद्धं वृत्रवासवयोः पुनः संरब्धयोस्तदा घोरं सुचिरं भरतर्षभ
MBh 5.9.50
यदा व्यवर्धत रणे वृत्रो बलसमन्वितः त्वष्टुस्तपोबलाद्विद्वांस्तदा शक्रो न्यवर्तत
MBh 5.9.51
निवृत्ते तु तदा देवा विषादमगमन्परम् समेत्य शक्रेण च ते त्वष्टुस्तेजोविमोहिताः अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत
MBh 5.9.52
किं कार्यमिति ते राजन्विचिन्त्य भयमोहिताः जग्मुः सर्वे महात्मानं मनोभिर्विष्णुमव्ययम् उपविष्टा मन्दराग्रे सर्वे वृत्रवधेप्सवः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 52 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.9local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷