🪷 Mahābhārata · Udyoga-Parva · Chapter 10
The Book of the Effort · Parva 5 · 47 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 47 Shlokas
MBh 5.10.1
इन्द्र उवाच
सर्वं व्याप्तमिदं देवा वृत्रेण जगदव्ययम्
न ह्यस्य सदृशं किंचित्प्रतिघाताय यद्भवेत्
MBh 5.10.2
समर्थो ह्यभवं पूर्वमसमर्थोऽस्मि सांप्रतम्
कथं कुर्यां नु भद्रं वो दुष्प्रधर्षः स मे मतः
MBh 5.10.3
तेजस्वी च महात्मा च युद्धे चामितविक्रमः
ग्रसेत्त्रिभुवनं सर्वं सदेवासुरमानुषम्
MBh 5.10.4
तस्माद्विनिश्चयमिमं शृणुध्वं मे दिवौकसः
विष्णोः क्षयमुपागम्य समेत्य च महात्मना
तेन संमन्त्र्य वेत्स्यामो वधोपायं दुरात्मनः
MBh 5.10.5
शल्य उवाच
एवमुक्ते मघवता देवाः सर्षिगणास्तदा
शरण्यं शरणं देवं जग्मुर्विष्णुं महाबलम्
MBh 5.10.6
ऊचुश्च सर्वे देवेशं विष्णुं वृत्रभयार्दिताः
त्वया लोकास्त्रयः क्रान्तास्त्रिभिर्विक्रमणैः प्रभो
MBh 5.10.7
अमृतं चाहृतं विष्णो दैत्याश्च निहता रणे
बलिं बद्ध्वा महादैत्यं शक्रो देवाधिपः कृतः
MBh 5.10.8
त्वं प्रभुः सर्वलोकानां त्वया सर्वमिदं ततम्
त्वं हि देव महादेवः सर्वलोकनमस्कृतः
MBh 5.10.9
गतिर्भव त्वं देवानां सेन्द्राणाममरोत्तम
जगद्व्याप्तमिदं सर्वं वृत्रेणासुरसूदन
MBh 5.10.10
विष्णुरुवाच
अवश्यं करणीयं मे भवतां हितमुत्तमम्
तस्मादुपायं वक्ष्यामि यथासौ न भविष्यति
MBh 5.10.11
गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक्
साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ
MBh 5.10.12
भविष्यति गतिर्देवाः शक्रस्य मम तेजसा
अदृश्यश्च प्रवेक्ष्यामि वज्रमस्यायुधोत्तमम्
MBh 5.10.13
गच्छध्वमृषिभिः सार्धं गन्धर्वैश्च सुरोत्तमाः
वृत्रस्य सह शक्रेण संधिं कुरुत माचिरम्
MBh 5.10.14
शल्य उवाच
एवमुक्तास्तु देवेन ऋषयस्त्रिदशास्तथा
ययुः समेत्य सहिताः शक्रं कृत्वा पुरःसरम्
MBh 5.10.15
समीपमेत्य च तदा सर्व एव महौजसः
तं तेजसा प्रज्वलितं प्रतपन्तं दिशो दश
MBh 5.10.16
ग्रसन्तमिव लोकांस्त्रीन्सूर्याचन्द्रमसौ यथा
ददृशुस्तत्र ते वृत्रं शक्रेण सह देवताः
MBh 5.10.17
ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः
व्याप्तं जगदिदं सर्वं तेजसा तव दुर्जय
MBh 5.10.18
न च शक्नोषि निर्जेतुं वासवं भूरिविक्रमम्
युध्यतोश्चापि वां कालो व्यतीतः सुमहानिह
MBh 5.10.19
पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानवाः
सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा
अवाप्स्यसि सुखं त्वं च शक्रलोकांश्च शाश्वतान्
MBh 5.10.20
ऋषिवाक्यं निशम्याथ स वृत्रः सुमहाबलः
उवाच तांस्तदा सर्वान्प्रणम्य शिरसासुरः
MBh 5.10.21
सर्वे यूयं महाभागा गन्धर्वाश्चैव सर्वशः
यद्ब्रूत तच्छ्रुतं सर्वं ममापि शृणुतानघाः
MBh 5.10.22
संधिः कथं वै भविता मम शक्रस्य चोभयोः
तेजसोर्हि द्वयोर्देवाः सख्यं वै भविता कथम्
MBh 5.10.23
ऋषय ऊचुः
सकृत्सतां संगतं लिप्सितव्यं; ततः परं भविता भव्यमेव
नातिक्रमेत्सत्पुरुषेण संगतं; तस्मात्सतां संगतं लिप्सितव्यम्
MBh 5.10.24
दृढं सतां संगतं चापि नित्यं; ब्रूयाच्चार्थं ह्यर्थकृच्छ्रेषु धीरः
महार्थवत्सत्पुरुषेण संगतं; तस्मात्सन्तं न जिघांसेत धीरः
MBh 5.10.25
इन्द्रः सतां संमतश्च निवासश्च महात्मनाम्
सत्यवादी ह्यदीनश्च धर्मवित्सुविनिश्चितः
MBh 5.10.26
तेन ते सह शक्रेण संधिर्भवतु शाश्वतः
एवं विश्वासमागच्छ मा ते भूद्बुद्धिरन्यथा
MBh 5.10.27
शल्य उवाच
महर्षिवचनं श्रुत्वा तानुवाच महाद्युतिः
अवश्यं भगवन्तो मे माननीयास्तपस्विनः
MBh 5.10.28
ब्रवीमि यदहं देवास्तत्सर्वं क्रियतामिह
ततः सर्वं करिष्यामि यदूचुर्मां द्विजर्षभाः
MBh 5.10.29
न शुष्केण न चार्द्रेण नाश्मना न च दारुणा
न शस्त्रेण न वज्रेण न दिवा न तथा निशि
MBh 5.10.30
वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः
एवं मे रोचते संधिः शक्रेण सह नित्यदा
MBh 5.10.31
बाढमित्येव ऋषयस्तमूचुर्भरतर्षभ
एवं कृते तु संधाने वृत्रः प्रमुदितोऽभवत्
MBh 5.10.32
यत्तः सदाभवच्चापि शक्रोऽमर्षसमन्वितः
वृत्रस्य वधसंयुक्तानुपायाननुचिन्तयन्
रन्ध्रान्वेषी समुद्विग्नः सदाभूद्बलवृत्रहा
MBh 5.10.33
स कदाचित्समुद्रान्ते तमपश्यन्महासुरम्
संध्याकाल उपावृत्ते मुहूर्ते रम्यदारुणे
MBh 5.10.34
ततः संचिन्त्य भगवान्वरदानं महात्मनः
संध्येयं वर्तते रौद्रा न रात्रिर्दिवसं न च
वृत्रश्चावश्यवध्योऽयं मम सर्वहरो रिपुः
MBh 5.10.35
यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महासुरम्
महाबलं महाकायं न मे श्रेयो भविष्यति
MBh 5.10.36
एवं संचिन्तयन्नेव शक्रो विष्णुमनुस्मरन्
अथ फेनं तदापश्यत्समुद्रे पर्वतोपमम्
MBh 5.10.37
नायं शुष्को न चार्द्रोऽयं न च शस्त्रमिदं तथा
एनं क्षेप्स्यामि वृत्रस्य क्षणादेव नशिष्यति
MBh 5.10.38
सवज्रमथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान्
प्रविश्य फेनं तं विष्णुरथ वृत्रं व्यनाशयत्
MBh 5.10.39
निहते तु ततो वृत्रे दिशो वितिमिराभवन्
प्रववौ च शिवो वायुः प्रजाश्च जहृषुस्तदा
MBh 5.10.40
ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः
ऋषयश्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः
MBh 5.10.41
नमस्कृतः सर्वभूतैः सर्वभूतानि सान्त्वयन्
हतशत्रुः प्रहृष्टात्मा वासवः सह दैवतैः
विष्णुं त्रिभुवनश्रेष्ठं पूजयामास धर्मवित्
MBh 5.10.42
ततो हते महावीर्ये वृत्रे देवभयंकरे
अनृतेनाभिभूतोऽभूच्छक्रः परमदुर्मनाः
त्रैशीर्षयाभिभूतश्च स पूर्वं ब्रह्महत्यया
MBh 5.10.43
सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः
न प्राज्ञायत देवेन्द्रस्त्वभिभूतः स्वकल्मषैः
प्रतिच्छन्नो वसत्यप्सु चेष्टमान इवोरगः
MBh 5.10.44
ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयार्दिते
भूमिः प्रध्वस्तसंकाशा निर्वृक्षा शुष्ककानना
विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि च
MBh 5.10.45
संक्षोभश्चापि सत्त्वानामनावृष्टिकृतोऽभवत्
देवाश्चापि भृशं त्रस्तास्तथा सर्वे महर्षयः
MBh 5.10.46
अराजकं जगत्सर्वमभिभूतमुपद्रवैः
ततो भीताभवन्देवाः को नो राजा भवेदिति
MBh 5.10.47
दिवि देवर्षयश्चापि देवराजविनाकृताः
न च स्म कश्चिद्देवानां राज्याय कुरुते मनः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 9
- Next chapter · Udyoga-Parva Ch 11 →
Sources and Connected Readings
Continue from these 47 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 5.10local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷