🪷 Mahābhārata · Udyoga-Parva · Chapter 89

The Book of the Effort · Parva 5 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 41 Shlokas

MBh 5.89.1
वैशंपायन उवाच पृथामामन्त्र्य गोविन्दः कृत्वा चापि प्रदक्षिणम् दुर्योधनगृहं शौरिरभ्यगच्छदरिंदमः
MBh 5.89.2
लक्ष्म्या परमया युक्तं पुरंदरगृहोपमम् तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वाःस्थैरवारितः
MBh 5.89.3
ततोऽभ्रघनसंकाशं गिरिकूटमिवोच्छ्रितम् श्रिया ज्वलन्तं प्रासादमारुरोह महायशाः
MBh 5.89.4
तत्र राजसहस्रैश्च कुरुभिश्चाभिसंवृतम् धार्तराष्ट्रं महाबाहुं ददर्शासीनमासने
MBh 5.89.5
दुःशासनं च कर्णं च शकुनिं चापि सौबलम् दुर्योधनसमीपे तानासनस्थान्ददर्श सः
MBh 5.89.6
अभ्यागच्छति दाशार्हे धार्तराष्ट्रो महायशाः उदतिष्ठत्सहामात्यः पूजयन्मधुसूदनम्
MBh 5.89.7
समेत्य धार्तराष्ट्रेण सहामात्येन केशवः राजभिस्तत्र वार्ष्णेयः समागच्छद्यथावयः
MBh 5.89.8
तत्र जाम्बूनदमयं पर्यङ्कं सुपरिष्कृतम् विविधास्तरणास्तीर्णमभ्युपाविशदच्युतः
MBh 5.89.9
तस्मिन्गां मधुपर्कं च उपहृत्य जनार्दने निवेदयामास तदा गृहान्राज्यं च कौरवः
MBh 5.89.10
तत्र गोविन्दमासीनं प्रसन्नादित्यवर्चसम् उपासां चक्रिरे सर्वे कुरवो राजभिः सह
MBh 5.89.11
ततो दुर्योधनो राजा वार्ष्णेयं जयतां वरम् न्यमन्त्रयद्भोजनेन नाभ्यनन्दच्च केशवः
MBh 5.89.12
ततो दुर्योधनः कृष्णमब्रवीद्राजसंसदि मृदुपूर्वं शठोदर्कं कर्णमाभाष्य कौरवः
MBh 5.89.13
कस्मादन्नानि पानानि वासांसि शयनानि च त्वदर्थमुपनीतानि नाग्रहीस्त्वं जनार्दन
MBh 5.89.14
उभयोश्चाददः साह्यमुभयोश्च हिते रतः संबन्धी दयितश्चासि धृतराष्ट्रस्य माधव
MBh 5.89.15
त्वं हि गोविन्द धर्मार्थौ वेत्थ तत्त्वेन सर्वशः तत्र कारणमिच्छामि श्रोतुं चक्रगदाधर
MBh 5.89.16
स एवमुक्तो गोविन्दः प्रत्युवाच महामनाः ओघमेघस्वनः काले प्रगृह्य विपुलं भुजम्
MBh 5.89.17
अनम्बूकृतमग्रस्तमनिरस्तमसंकुलम् राजीवनेत्रो राजानं हेतुमद्वाक्यमुत्तमम्
MBh 5.89.18
कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव हि कृतार्थं मां सहामात्यस्त्वमर्चिष्यसि भारत
MBh 5.89.19
एवमुक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम् न युक्तं भवतास्मासु प्रतिपत्तुमसांप्रतम्
MBh 5.89.20
कृतार्थं चाकृतार्थं च त्वां वयं मधुसूदन यतामहे पूजयितुं गोविन्द न च शक्नुमः
MBh 5.89.21
न च तत्कारणं विद्मो यस्मिन्नो मधुसूदन पूजां कृतां प्रीयमाणैर्नामंस्थाः पुरुषोत्तम
MBh 5.89.22
वैरं नो नास्ति भवता गोविन्द न च विग्रहः स भवान्प्रसमीक्ष्यैतन्नेदृशं वक्तुमर्हति
MBh 5.89.23
एवमुक्तः प्रत्युवाच धार्तराष्ट्रं जनार्दनः अभिवीक्ष्य सहामात्यं दाशार्हः प्रहसन्निव
MBh 5.89.24
नाहं कामान्न संरम्भान्न द्वेषान्नार्थकारणात् न हेतुवादाल्लोभाद्वा धर्मं जह्यां कथंचन
MBh 5.89.25
संप्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः न च संप्रीयसे राजन्न चाप्यापद्गता वयम्
MBh 5.89.26
अकस्माद्द्विषसे राजञ्जन्मप्रभृति पाण्डवान् प्रियानुवर्तिनो भ्रातॄन्सर्वैः समुदितान्गुणैः
MBh 5.89.27
अकस्माच्चैव पार्थानां द्वेषणं नोपपद्यते धर्मे स्थिताः पाण्डवेयाः कस्तान्किं वक्तुमर्हति
MBh 5.89.28
यस्तान्द्वेष्टि स मां द्वेष्टि यस्ताननु स मामनु ऐकात्म्यं मां गतं विद्धि पाण्डवैर्धर्मचारिभिः
MBh 5.89.29
कामक्रोधानुवर्ती हि यो मोहाद्विरुरुत्सते गुणवन्तं च यो द्वेष्टि तमाहुः पुरुषाधमम्
MBh 5.89.30
यः कल्याणगुणाञ्ज्ञातीन्मोहाल्लोभाद्दिदृक्षते सोऽजितात्माजितक्रोधो न चिरं तिष्ठति श्रियम्
MBh 5.89.31
अथ यो गुणसंपन्नान्हृदयस्याप्रियानपि प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति
MBh 5.89.32
सर्वमेतदभोक्तव्यमन्नं दुष्टाभिसंहितम् क्षत्तुरेकस्य भोक्तव्यमिति मे धीयते मतिः
MBh 5.89.33
एवमुक्त्वा महाबाहुर्दुर्योधनममर्षणम् निश्चक्राम ततः शुभ्राद्धार्तराष्ट्रनिवेशनात्
MBh 5.89.34
निर्याय च महाबाहुर्वासुदेवो महामनाः निवेशाय ययौ वेश्म विदुरस्य महात्मनः
MBh 5.89.35
तमभ्यगच्छद्द्रोणश्च कृपो भीष्मोऽथ बाह्लिकः कुरवश्च महाबाहुं विदुरस्य गृहे स्थितम्
MBh 5.89.36
तेऽभिगम्याब्रुवंस्तत्र कुरवो मधुसूदनम् निवेदयामो वार्ष्णेय सरत्नांस्ते गृहान्वयम्
MBh 5.89.37
तानुवाच महातेजाः कौरवान्मधुसूदनः सर्वे भवन्तो गच्छन्तु सर्वा मेऽपचितिः कृता
MBh 5.89.38
यातेषु कुरुषु क्षत्ता दाशार्हमपराजितम् अभ्यर्चयामास तदा सर्वकामैः प्रयत्नवान्
MBh 5.89.39
ततः क्षत्तान्नपानानि शुचीनि गुणवन्ति च उपाहरदनेकानि केशवाय महात्मने
MBh 5.89.40
तैर्तर्पयित्वा प्रथमं ब्राह्मणान्मधुसूदनः वेदविद्भ्यो ददौ कृष्णः परमद्रविणान्यपि
MBh 5.89.41
ततोऽनुयायिभिः सार्धं मरुद्भिरिव वासवः विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 41 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.89local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷