🪷 Mahābhārata · Udyoga-Parva · Chapter 88

The Book of the Effort · Parva 5 · 104 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 104 Shlokas

MBh 5.88.1
वैशंपायन उवाच अथोपगम्य विदुरमपराह्णे जनार्दनः पितृष्वसारं गोविन्दः सोऽभ्यगच्छदरिंदमः
MBh 5.88.2
सा दृष्ट्वा कृष्णमायान्तं प्रसन्नादित्यवर्चसम् कण्ठे गृहीत्वा प्राक्रोशत्पृथा पार्थाननुस्मरन्
MBh 5.88.3
तेषां सत्त्ववतां मध्ये गोविन्दं सहचारिणम् चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पमाहारयत्पृथा
MBh 5.88.4
साब्रवीत्कृष्णमासीनं कृतातिथ्यं युधां पतिम् बाष्पगद्गदपूर्णेन मुखेन परिशुष्यता
MBh 5.88.5
ये ते बाल्यात्प्रभृत्येव गुरुशुश्रूषणे रताः परस्परस्य सुहृदः संमताः समचेतसः
MBh 5.88.6
निकृत्या भ्रंशिता राज्याज्जनार्हा निर्जनं गताः विनीतक्रोधहर्षाश्च ब्रह्मण्याः सत्यवादिनः
MBh 5.88.7
त्यक्त्वा प्रियसुखे पार्था रुदन्तीमपहाय माम् अहार्षुश्च वनं यान्तः समूलं हृदयं मम
MBh 5.88.8
अतदर्हा महात्मानः कथं केशव पाण्डवाः ऊषुर्महावने तात सिंहव्याघ्रगजाकुले
MBh 5.88.9
बाला विहीनाः पित्रा ते मया सततलालिताः अपश्यन्तः स्वपितरौ कथमूषुर्महावने
MBh 5.88.10
शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गैर्वैणवैरपि पाण्डवाः समबोध्यन्त बाल्यात्प्रभृति केशव
MBh 5.88.11
ये स्म वारणशब्देन हयानां हेषितेन च रथनेमिनिनादैश्च व्यबोध्यन्त सदा गृहे
MBh 5.88.12
शङ्खभेरीनिनादेन वेणुवीणानुनादिना पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः
MBh 5.88.13
वस्त्रै रत्नैरलंकारैः पूजयन्तो द्विजन्मनः गीर्भिर्मङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम्
MBh 5.88.14
अर्चितैरर्चनार्हैश्च स्तुवद्भिरभिनन्दिताः प्रासादाग्रेष्वबोध्यन्त राङ्कवाजिनशायिनः
MBh 5.88.15
ते नूनं निनदं श्रुत्वा श्वापदानां महावने न स्मोपयान्ति निद्रां वै अतदर्हा जनार्दन
MBh 5.88.16
भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन
MBh 5.88.17
बन्दिमागधसूतैश्च स्तुवद्भिर्बोधिताः कथम् महावने व्यबोध्यन्त श्वापदानां रुतेन ते
MBh 5.88.18
ह्रीमान्सत्यधृतिर्दान्तो भूतानामनुकम्पिता कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते
MBh 5.88.19
अम्बरीषस्य मान्धातुर्ययातेर्नहुषस्य च भरतस्य दिलीपस्य शिबेरौशीनरस्य च
MBh 5.88.20
राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम् शीलवृत्तोपसंपन्नो धर्मज्ञः सत्यसंगरः
MBh 5.88.21
राजा सर्वगुणोपेतस्त्रैलोक्यस्यापि यो भवेत् अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः
MBh 5.88.22
श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः प्रियदर्शनो दीर्घभुजः कथं कृष्ण युधिष्ठिरः
MBh 5.88.23
यः स नागायुतप्राणो वातरंहा वृकोदरः अमर्षी पाण्डवो नित्यं प्रियो भ्रातुः प्रियंकरः
MBh 5.88.24
कीचकस्य च सज्ञातेर्यो हन्ता मधुसूदन शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च
MBh 5.88.25
पराक्रमे शक्रसमो वायुवेगसमो जवे महेश्वरसमः क्रोधे भीमः प्रहरतां वरः
MBh 5.88.26
क्रोधं बलममर्षं च यो निधाय परंतपः जितात्मा पाण्डवोऽमर्षी भ्रातुस्तिष्ठति शासने
MBh 5.88.27
तेजोराशिं महात्मानं बलौघममितौजसम् भीमं प्रदर्शनेनापि भीमसेनं जनार्दन तं ममाचक्ष्व वार्ष्णेय कथमद्य वृकोदरः
MBh 5.88.28
आस्ते परिघबाहुः स मध्यमः पाण्डवोऽच्युत अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा द्विबाहुः स्पर्धते नित्यमतीतेनापि केशव
MBh 5.88.29
क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः
MBh 5.88.30
तेजसादित्यसदृशो महर्षिप्रतिमो दमे क्षमया पृथिवीतुल्यो महेन्द्रसमविक्रमः
MBh 5.88.31
आधिराज्यं महद्दीप्तं प्रथितं मधुसूदन आहृतं येन वीर्येण कुरूणां सर्वराजसु
MBh 5.88.32
यस्य बाहुबलं घोरं कौरवाः पर्युपासते स सर्वरथिनां श्रेष्ठः पाण्डवः सत्यविक्रमः
MBh 5.88.33
योऽपाश्रयः पाण्डवानां देवानामिव वासवः स ते भ्राता सखा चैव कथमद्य धनंजयः
MBh 5.88.34
दयावान्सर्वभूतेषु ह्रीनिषेधो महास्त्रवित् मृदुश्च सुकुमारश्च धार्मिकश्च प्रियश्च मे
MBh 5.88.35
सहदेवो महेष्वासः शूरः समितिशोभनः भ्रातॄणां कृष्ण शुश्रूषुर्धर्मार्थकुशलो युवा
MBh 5.88.36
सदैव सहदेवस्य भ्रातरो मधुसूदन वृत्तं कल्याणवृत्तस्य पूजयन्ति महात्मनः
MBh 5.88.37
ज्येष्ठापचायिनं वीरं सहदेवं युधां पतिम् शुश्रूषुं मम वार्ष्णेय माद्रीपुत्रं प्रचक्ष्व मे
MBh 5.88.38
सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः भ्रातॄणां कृष्ण सर्वेषां प्रियः प्राणो बहिश्चरः
MBh 5.88.39
चित्रयोधी च नकुलो महेष्वासो महाबलः कच्चित्स कुशली कृष्ण वत्सो मम सुखैधितः
MBh 5.88.40
सुखोचितमदुःखार्हं सुकुमारं महारथम् अपि जातु महाबाहो पश्येयं नकुलं पुनः
MBh 5.88.41
पक्ष्मसंपातजे काले नकुलेन विनाकृता न लभामि सुखं वीर साद्य जीवामि पश्य माम्
MBh 5.88.42
सर्वैः पुत्रैः प्रियतमा द्रौपदी मे जनार्दन कुलीना शीलसंपन्ना सर्वैः समुदिता गुणैः
MBh 5.88.43
पुत्रलोकात्पतिलोकान्वृण्वाना सत्यवादिनी प्रियान्पुत्रान्परित्यज्य पाण्डवानन्वपद्यत
MBh 5.88.44
महाभिजनसंपन्ना सर्वकामैः सुपूजिता ईश्वरी सर्वकल्याणी द्रौपदी कथमच्युत
MBh 5.88.45
पतिभिः पञ्चभिः शूरैरग्निकल्पैः प्रहारिभिः उपपन्ना महेष्वासैर्द्रौपदी दुःखभागिनी
MBh 5.88.46
चतुर्दशमिमं वर्षं यन्नापश्यमरिंदम पुत्राधिभिः परिद्यूनां द्रौपदीं सत्यवादिनीम्
MBh 5.88.47
न नूनं कर्मभिः पुण्यैरश्नुते पुरुषः सुखम् द्रौपदी चेत्तथावृत्ता नाश्नुते सुखमव्ययम्
MBh 5.88.48
न प्रियो मम कृष्णाय बीभत्सुर्न युधिष्ठिरः भीमसेनो यमौ वापि यदपश्यं सभागताम्
MBh 5.88.49
न मे दुःखतरं किंचिद्भूतपूर्वं ततोऽधिकम् यद्द्रौपदीं निवातस्थां श्वशुराणां समीपगाम्
MBh 5.88.50
आनायितामनार्येण क्रोधलोभानुवर्तिना सर्वे प्रैक्षन्त कुरव एकवस्त्रां सभागताम्
MBh 5.88.51
तत्रैव धृतराष्ट्रश्च महाराजश्च बाह्लिकः कृपश्च सोमदत्तश्च निर्विण्णाः कुरवस्तथा
MBh 5.88.52
तस्यां संसदि सर्वस्यां क्षत्तारं पूजयाम्यहम् वृत्तेन हि भवत्यार्यो न धनेन न विद्यया
MBh 5.88.53
तस्य कृष्ण महाबुद्धेर्गम्भीरस्य महात्मनः क्षत्तुः शीलमलंकारो लोकान्विष्टभ्य तिष्ठति
MBh 5.88.54
सा शोकार्ता च हृष्टा च दृष्ट्वा गोविन्दमागतम् नानाविधानि दुःखानि सर्वाण्येवान्वकीर्तयत्
MBh 5.88.55
पूर्वैराचरितं यत्तत्कुराजभिररिंदम अक्षद्यूतं मृगवधः कच्चिदेषां सुखावहम्
MBh 5.88.56
तन्मां दहति यत्कृष्णा सभायां कुरुसंनिधौ धार्तराष्ट्रैः परिक्लिष्टा यथा नकुशलं तथा
MBh 5.88.57
निर्वासनं च नगरात्प्रव्रज्या च परंतप नानाविधानां दुःखानामावासोऽस्मि जनार्दन अज्ञातचर्या बालानामवरोधश्च केशव
MBh 5.88.58
न स्म क्लेशतमं मे स्यात्पुत्रैः सह परंतप दुर्योधनेन निकृता वर्षमद्य चतुर्दशम्
MBh 5.88.59
दुःखादपि सुखं न स्याद्यदि पुण्यफलक्षयः न मे विशेषो जात्वासीद्धार्तराष्ट्रेषु पाण्डवैः
MBh 5.88.60
तेन सत्येन कृष्ण त्वां हतामित्रं श्रिया वृतम् अस्माद्विमुक्तं संग्रामात्पश्येयं पाण्डवैः सह नैव शक्याः पराजेतुं सत्त्वं ह्येषां तथागतम्
MBh 5.88.61
पितरं त्वेव गर्हेयं नात्मानं न सुयोधनम् येनाहं कुन्तिभोजाय धनं धूर्तैरिवार्पिता
MBh 5.88.62
बालां मामार्यकस्तुभ्यं क्रीडन्तीं कन्दुहस्तकाम् अददात्कुन्तिभोजाय सखा सख्ये महात्मने
MBh 5.88.63
साहं पित्रा च निकृता श्वशुरैश्च परंतप अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम
MBh 5.88.64
यन्मा वागब्रवीन्नक्तं सूतके सव्यसाचिनः पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत्
MBh 5.88.65
हत्वा कुरून्ग्रामजन्ये राज्यं प्राप्य धनंजयः भ्रातृभिः सह कौन्तेयस्त्रीन्मेधानाहरिष्यति
MBh 5.88.66
नाहं तामभ्यसूयामि नमो धर्माय वेधसे कृष्णाय महते नित्यं धर्मो धारयति प्रजाः
MBh 5.88.67
धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति त्वं चापि तत्तथा कृष्ण सर्वं संपादयिष्यसि
MBh 5.88.68
न मां माधव वैधव्यं नार्थनाशो न वैरिता तथा शोकाय भवति यथा पुत्रैर्विनाभवः
MBh 5.88.69
याहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम् धनंजयं न पश्यामि का शान्तिर्हृदयस्य मे
MBh 5.88.70
इदं चतुर्दशं वर्षं यन्नापश्यं युधिष्ठिरम् धनंजयं च गोविन्द यमौ तं च वृकोदरम्
MBh 5.88.71
जीवनाशं प्रनष्टानां श्राद्धं कुर्वन्ति मानवाः अर्थतस्ते मम मृतास्तेषां चाहं जनार्दन
MBh 5.88.72
ब्रूया माधव राजानं धर्मात्मानं युधिष्ठिरम् भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः
MBh 5.88.73
पराश्रया वासुदेव या जीवामि धिगस्तु माम् वृत्तेः कृपणलब्धाया अप्रतिष्ठैव ज्यायसी
MBh 5.88.74
अथो धनंजयं ब्रूया नित्योद्युक्तं वृकोदरम् यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः
MBh 5.88.75
अस्मिंश्चेदागते काले कालो वोऽतिक्रमिष्यति लोकसंभाविताः सन्तः सुनृशंसं करिष्यथ
MBh 5.88.76
नृशंसेन च वो युक्तांस्त्यजेयं शाश्वतीः समाः काले हि समनुप्राप्ते त्यक्तव्यमपि जीवितम्
MBh 5.88.77
माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतौ सदा विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि
MBh 5.88.78
विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम
MBh 5.88.79
गत्वा ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् अर्जुनं पाण्डवं वीरं द्रौपद्याः पदवीं चर
MBh 5.88.80
विदितौ हि तवात्यन्तं क्रुद्धाविव यथान्तकौ भीमार्जुनौ नयेतां हि देवानपि परां गतिम्
MBh 5.88.81
तयोश्चैतदवज्ञानं यत्सा कृष्णा सभां गता दुःशासनश्च कर्णश्च परुषाण्यभ्यभाषताम्
MBh 5.88.82
दुर्योधनो भीमसेनमभ्यगच्छन्मनस्विनम् पश्यतां कुरुमुख्यानां तस्य द्रक्ष्यति यत्फलम्
MBh 5.88.83
न हि वैरं समासाद्य प्रशाम्यति वृकोदरः सुचिरादपि भीमस्य न हि वैरं प्रशाम्यति यावदन्तं न नयति शात्रवाञ्शत्रुकर्शनः
MBh 5.88.84
न दुःखं राज्यहरणं न च द्यूते पराजयः प्रव्राजनं च पुत्राणां न मे तद्दुःखकारणम्
MBh 5.88.85
यत्तु सा बृहती श्यामा एकवस्त्रा सभां गता अशृणोत्परुषा वाचस्ततो दुःखतरं नु किम्
MBh 5.88.86
स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा नाध्यगच्छत्तथा नाथं कृष्णा नाथवती सती
MBh 5.88.87
यस्या मम सपुत्रायास्त्वं नाथो मधुसूदन रामश्च बलिनां श्रेष्ठः प्रद्युम्नश्च महारथः
MBh 5.88.88
साहमेवंविधं दुःखं सहेऽद्य पुरुषोत्तम भीमे जीवति दुर्धर्षे विजये चापलायिनि
MBh 5.88.89
तत आश्वासयामास पुत्राधिभिरभिप्लुताम् पितृष्वसारं शोचन्तीं शौरिः पार्थसखः पृथाम्
MBh 5.88.90
का नु सीमन्तिनी त्वादृग्लोकेष्वस्ति पितृष्वसः शूरस्य राज्ञो दुहिता आजमीढकुलं गता
MBh 5.88.91
महाकुलीना भवती ह्रदाद्ध्रदमिवागता ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता
MBh 5.88.92
वीरसूर्वीरपत्नी च सर्वैः समुदिता गुणैः सुखदुःखे महाप्राज्ञे त्वादृशी सोढुमर्हति
MBh 5.88.93
निद्रातन्द्री क्रोधहर्षौ क्षुत्पिपासे हिमातपौ एतानि पार्था निर्जित्य नित्यं वीराः सुखे रताः
MBh 5.88.94
त्यक्तग्राम्यसुखाः पार्था नित्यं वीरसुखप्रियाः न ते स्वल्पेन तुष्येयुर्महोत्साहा महाबलाः
MBh 5.88.95
अन्तं धीरा निषेवन्ते मध्यं ग्राम्यसुखप्रियाः उत्तमांश्च परिक्लेशान्भोगांश्चातीव मानुषान्
MBh 5.88.96
अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे अन्तप्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः
MBh 5.88.97
अभिवादयन्ति भवतीं पाण्डवाः सह कृष्णया आत्मानं च कुशलिनं निवेद्याहुरनामयम्
MBh 5.88.98
अरोगान्सर्वसिद्धार्थान्क्षिप्रं द्रक्ष्यसि पाण्डवान् ईश्वरान्सर्वलोकस्य हतामित्राञ्श्रिया वृतान्
MBh 5.88.99
एवमाश्वासिता कुन्ती प्रत्युवाच जनार्दनम् पुत्राधिभिरभिध्वस्ता निगृह्याबुद्धिजं तमः
MBh 5.88.100
यद्यत्तेषां महाबाहो पथ्यं स्यान्मधुसूदन यथा यथा त्वं मन्येथाः कुर्याः कृष्ण तथा तथा
MBh 5.88.101
अविलोपेन धर्मस्य अनिकृत्या परंतप प्रभावज्ञास्मि ते कृष्ण सत्यस्याभिजनस्य च
MBh 5.88.102
व्यवस्थायां च मित्रेषु बुद्धिविक्रमयोस्तथा त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं तपो महत्
MBh 5.88.103
त्वं त्राता त्वं महद्ब्रह्म त्वयि सर्वं प्रतिष्ठितम् यथैवात्थ तथैवैतत्त्वयि सत्यं भविष्यति
MBh 5.88.104
तामामन्त्र्य च गोविन्दः कृत्वा चाभिप्रदक्षिणम् प्रातिष्ठत महाबाहुर्दुर्योधनगृहान्प्रति

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 104 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.88local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷