🪷 Mahābhārata · Udyoga-Parva · Chapter 70
The Book of the Effort · Parva 5 · 93 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 93 Shlokas
MBh 5.70.1
वैशंपायन उवाच
संजये प्रतियाते तु धर्मराजो युधिष्ठिरः
अभ्यभाषत दाशार्हमृषभं सर्वसात्वताम्
MBh 5.70.2
अयं स कालः संप्राप्तो मित्राणां मे जनार्दन
न च त्वदन्यं पश्यामि यो न आपत्सु तारयेत्
MBh 5.70.3
त्वां हि माधव संश्रित्य निर्भया मोहदर्पितम्
धार्तराष्ट्रं सहामात्यं स्वमंशमनुयुञ्ज्महे
MBh 5.70.4
यथा हि सर्वास्वापत्सु पासि वृष्णीनरिंदम
तथा ते पाण्डवा रक्ष्याः पाह्यस्मान्महतो भयात्
MBh 5.70.5
भगवानुवाच
अयमस्मि महाबाहो ब्रूहि यत्ते विवक्षितम्
करिष्यामि हि तत्सर्वं यत्त्वं वक्ष्यसि भारत
MBh 5.70.6
युधिष्ठिर उवाच
श्रुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम्
एतद्धि सकलं कृष्ण संजयो मां यदब्रवीत्
MBh 5.70.7
तन्मतं धृतराष्ट्रस्य सोऽस्यात्मा विवृतान्तरः
यथोक्तं दूत आचष्टे वध्यः स्यादन्यथा ब्रुवन्
MBh 5.70.8
अप्रदानेन राज्यस्य शान्तिमस्मासु मार्गति
लुब्धः पापेन मनसा चरन्नसममात्मनः
MBh 5.70.9
यत्तद्द्वादश वर्षाणि वने निर्व्युषिता वयम्
छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात्
MBh 5.70.10
स्थाता नः समये तस्मिन्धृतराष्ट्र इति प्रभो
नाहास्म समयं कृष्ण तद्धि नो ब्राह्मणा विदुः
MBh 5.70.11
वृद्धो राजा धृतराष्ट्रः स्वधर्मं नानुपश्यति
पश्यन्वा पुत्रगृद्धित्वान्मन्दस्यान्वेति शासनम्
MBh 5.70.12
सुयोधनमते तिष्ठन्राजास्मासु जनार्दन
मिथ्या चरति लुब्धः संश्चरन्प्रियमिवात्मनः
MBh 5.70.13
इतो दुःखतरं किं नु यत्राहं मातरं ततः
संविधातुं न शक्नोमि मित्राणां वा जनार्दन
MBh 5.70.14
काशिभिश्चेदिपाञ्चालैर्मत्स्यैश्च मधुसूदन
भवता चैव नाथेन पञ्च ग्रामा वृता मया
MBh 5.70.15
कुशस्थलं वृकस्थलमासन्दी वारणावतम्
अवसानं च गोविन्द किंचिदेवात्र पञ्चमम्
MBh 5.70.16
पञ्च नस्तात दीयन्तां ग्रामा वा नगराणि वा
वसेम सहिता येषु मा च नो भरता नशन्
MBh 5.70.17
न च तानपि दुष्टात्मा धार्तराष्ट्रोऽनुमन्यते
स्वाम्यमात्मनि मत्वासावतो दुःखतरं नु किम्
MBh 5.70.18
कुले जातस्य वृद्धस्य परवित्तेषु गृध्यतः
लोभः प्रज्ञानमाहन्ति प्रज्ञा हन्ति हता ह्रियम्
MBh 5.70.19
ह्रीर्हता बाधते धर्मं धर्मो हन्ति हतः श्रियम्
श्रीर्हता पुरुषं हन्ति पुरुषस्यास्वता वधः
MBh 5.70.20
अस्वतो हि निवर्तन्ते ज्ञातयः सुहृदर्त्विजः
अपुष्पादफलाद्वृक्षाद्यथा तात पतत्रिणः
MBh 5.70.21
एतच्च मरणं तात यदस्मात्पतितादिव
ज्ञातयो विनिवर्तन्ते प्रेतसत्त्वादिवासवः
MBh 5.70.22
नातः पापीयसीं कांचिदवस्थां शम्बरोऽब्रवीत्
यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते
MBh 5.70.23
धनमाहुः परं धर्मं धने सर्वं प्रतिष्ठितम्
जीवन्ति धनिनो लोके मृता ये त्वधना नराः
MBh 5.70.24
ये धनादपकर्षन्ति नरं स्वबलमाश्रिताः
ते धर्ममर्थं कामं च प्रमथ्नन्ति नरं च तम्
MBh 5.70.25
एतामवस्थां प्राप्यैके मरणं वव्रिरे जनाः
ग्रामायैके वनायैके नाशायैके प्रवव्रजुः
MBh 5.70.26
उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम्
दास्यमेके निगच्छन्ति परेषामर्थहेतुना
MBh 5.70.27
आपदेवास्य मरणात्पुरुषस्य गरीयसी
श्रियो विनाशस्तद्ध्यस्य निमित्तं धर्मकामयोः
MBh 5.70.28
यदस्य धर्म्यं मरणं शाश्वतं लोकवर्त्म तत्
समन्तात्सर्वभूतानां न तदत्येति कश्चन
MBh 5.70.29
न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः
यथा भद्रां श्रियं प्राप्य तया हीनः सुखैधितः
MBh 5.70.30
स तदात्मापराधेन संप्राप्तो व्यसनं महत्
सेन्द्रान्गर्हयते देवान्नात्मानं च कथंचन
MBh 5.70.31
न चास्मिन्सर्वशास्त्राणि प्रतरन्ति निगर्हणाम्
सोऽभिक्रुध्यति भृत्यानां सुहृदश्चाभ्यसूयति
MBh 5.70.32
तं तदा मन्युरेवैति स भूयः संप्रमुह्यति
स मोहवशमापन्नः क्रूरं कर्म निषेवते
MBh 5.70.33
पापकर्मात्ययायैव संकरं तेन पुष्यति
संकरो नरकायैव सा काष्ठा पापकर्मणाम्
MBh 5.70.34
न चेत्प्रबुध्यते कृष्ण नरकायैव गच्छति
तस्य प्रबोधः प्रज्ञैव प्रज्ञाचक्षुर्न रिष्यति
MBh 5.70.35
प्रज्ञालाभे हि पुरुषः शास्त्राण्येवान्ववेक्षते
शास्त्रनित्यः पुनर्धर्मं तस्य ह्रीरङ्गमुत्तमम्
MBh 5.70.36
ह्रीमान्हि पापं प्रद्वेष्टि तस्य श्रीरभिवर्धते
श्रीमान्स यावद्भवति तावद्भवति पूरुषः
MBh 5.70.37
धर्मनित्यः प्रशान्तात्मा कार्ययोगवहः सदा
नाधर्मे कुरुते बुद्धिं न च पापेषु वर्तते
MBh 5.70.38
अह्रीको वा विमूढो वा नैव स्त्री न पुनः पुमान्
नास्याधिकारो धर्मेऽस्ति यथा शूद्रस्तथैव सः
MBh 5.70.39
ह्रीमानवति देवांश्च पितॄनात्मानमेव च
तेनामृतत्वं व्रजति सा काष्ठा पुण्यकर्मणाम्
MBh 5.70.40
तदिदं मयि ते दृष्टं प्रत्यक्षं मधुसूदन
यथा राज्यात्परिभ्रष्टो वसामि वसतीरिमाः
MBh 5.70.41
ते वयं न श्रियं हातुमलं न्यायेन केनचित्
अत्र नो यतमानानां वधश्चेदपि साधु तत्
MBh 5.70.42
तत्र नः प्रथमः कल्पो यद्वयं ते च माधव
प्रशान्ताः समभूताश्च श्रियं तामश्नुवीमहि
MBh 5.70.43
तत्रैषा परमा काष्ठा रौद्रकर्मक्षयोदया
यद्वयं कौरवान्हत्वा तानि राष्ट्राण्यशीमहि
MBh 5.70.44
ये पुनः स्युरसंबद्धा अनार्याः कृष्ण शत्रवः
तेषामप्यवधः कार्यः किं पुनर्ये स्युरीदृशाः
MBh 5.70.45
ज्ञातयश्च हि भूयिष्ठाः सहाया गुरवश्च नः
तेषां वधोऽतिपापीयान्किं नु युद्धेऽस्ति शोभनम्
MBh 5.70.46
पापः क्षत्रियधर्मोऽयं वयं च क्षत्रबान्धवाः
स नः स्वधर्मोऽधर्मो वा वृत्तिरन्या विगर्हिता
MBh 5.70.47
शूद्रः करोति शुश्रूषां वैश्या विपणिजीविनः
वयं वधेन जीवामः कपालं ब्राह्मणैर्वृतम्
MBh 5.70.48
क्षत्रियः क्षत्रियं हन्ति मत्स्यो मत्स्येन जीवति
श्वा श्वानं हन्ति दाशार्ह पश्य धर्मो यथागतः
MBh 5.70.49
युद्धे कृष्ण कलिर्नित्यं प्राणाः सीदन्ति संयुगे
बलं तु नीतिमात्राय हठे जयपराजयौ
MBh 5.70.50
नात्मच्छन्देन भूतानां जीवितं मरणं तथा
नाप्यकाले सुखं प्राप्यं दुःखं वापि यदूत्तम
MBh 5.70.51
एको ह्यपि बहून्हन्ति घ्नन्त्येकं बहवोऽप्युत
शूरं कापुरुषो हन्ति अयशस्वी यशस्विनम्
MBh 5.70.52
जयश्चैवोभयोर्दृष्ट उभयोश्च पराजयः
तथैवापचयो दृष्टो व्यपयाने क्षयव्ययौ
MBh 5.70.53
सर्वथा वृजिनं युद्धं को घ्नन्न प्रतिहन्यते
हतस्य च हृषीकेश समौ जयपराजयौ
MBh 5.70.54
पराजयश्च मरणान्मन्ये नैव विशिष्यते
यस्य स्याद्विजयः कृष्ण तस्याप्यपचयो ध्रुवम्
MBh 5.70.55
अन्ततो दयितं घ्नन्ति केचिदप्यपरे जनाः
तस्याङ्ग बलहीनस्य पुत्रान्भ्रातॄनपश्यतः
निर्वेदो जीविते कृष्ण सर्वतश्चोपजायते
MBh 5.70.56
ये ह्येव वीरा ह्रीमन्त आर्याः करुणवेदिनः
त एव युद्धे हन्यन्ते यवीयान्मुच्यते जनः
MBh 5.70.57
हत्वाप्यनुशयो नित्यं परानपि जनार्दन
अनुबन्धश्च पापोऽत्र शेषश्चाप्यवशिष्यते
MBh 5.70.58
शेषो हि बलमासाद्य न शेषमवशेषयेत्
सर्वोच्छेदे च यतते वैरस्यान्तविधित्सया
MBh 5.70.59
जयो वैरं प्रसृजति दुःखमास्ते पराजितः
सुखं प्रशान्तः स्वपिति हित्वा जयपराजयौ
MBh 5.70.60
जातवैरश्च पुरुषो दुःखं स्वपिति नित्यदा
अनिर्वृतेन मनसा ससर्प इव वेश्मनि
MBh 5.70.61
उत्सादयति यः सर्वं यशसा स वियुज्यते
अकीर्तिं सर्वभूतेषु शाश्वतीं स नियच्छति
MBh 5.70.62
न हि वैराणि शाम्यन्ति दीर्घकालकृतान्यपि
आख्यातारश्च विद्यन्ते पुमांश्चोत्पद्यते कुले
MBh 5.70.63
न चापि वैरं वैरेण केशव व्युपशाम्यति
हविषाग्निर्यथा कृष्ण भूय एवाभिवर्धते
MBh 5.70.64
अतोऽन्यथा नास्ति शान्तिर्नित्यमन्तरमन्ततः
अन्तरं लिप्समानानामयं दोषो निरन्तरः
MBh 5.70.65
पौरुषेयो हि बलवानाधिर्हृदयबाधनः
तस्य त्यागेन वा शान्तिर्निवृत्त्या मनसोऽपि वा
MBh 5.70.66
अथ वा मूलघातेन द्विषतां मधुसूदन
फलनिर्वृत्तिरिद्धा स्यात्तन्नृशंसतरं भवेत्
MBh 5.70.67
या तु त्यागेन शान्तिः स्यात्तदृते वध एव सः
संशयाच्च समुच्छेदाद्द्विषतामात्मनस्तथा
MBh 5.70.68
न च त्यक्तुं तदिच्छामो न चेच्छामः कुलक्षयम्
अत्र या प्रणिपातेन शान्तिः सैव गरीयसी
MBh 5.70.69
सर्वथा यतमानानामयुद्धमभिकाङ्क्षताम्
सान्त्वे प्रतिहते युद्धं प्रसिद्धमपराक्रमम्
MBh 5.70.70
प्रतिघातेन सान्त्वस्य दारुणं संप्रवर्तते
तच्छुनामिव गोपादे पण्डितैरुपलक्षितम्
MBh 5.70.71
लाङ्गूलचालनं क्ष्वेडः प्रतिरावो विवर्तनम्
दन्तदर्शनमारावस्ततो युद्धं प्रवर्तते
MBh 5.70.72
तत्र यो बलवान्कृष्ण जित्वा सोऽत्ति तदामिषम्
एवमेव मनुष्येषु विशेषो नास्ति कश्चन
MBh 5.70.73
सर्वथा त्वेतदुचितं दुर्बलेषु बलीयसाम्
अनादरो विरोधश्च प्रणिपाती हि दुर्बलः
MBh 5.70.74
पिता राजा च वृद्धश्च सर्वथा मानमर्हति
तस्मान्मान्यश्च पूज्यश्च धृतराष्ट्रो जनार्दन
MBh 5.70.75
पुत्रस्नेहस्तु बलवान्धृतराष्ट्रस्य माधव
स पुत्रवशमापन्नः प्रणिपातं प्रहास्यति
MBh 5.70.76
तत्र किं मन्यसे कृष्ण प्राप्तकालमनन्तरम्
कथमर्थाच्च धर्माच्च न हीयेमहि माधव
MBh 5.70.77
ईदृशे ह्यर्थकृच्छ्रेऽस्मिन्कमन्यं मधुसूदन
उपसंप्रष्टुमर्हामि त्वामृते पुरुषोत्तम
MBh 5.70.78
प्रियश्च प्रियकामश्च गतिज्ञः सर्वकर्मणाम्
को हि कृष्णास्ति नस्त्वादृक्सर्वनिश्चयवित्सुहृत्
MBh 5.70.79
वैशंपायन उवाच
एवमुक्तः प्रत्युवाच धर्मराजं जनार्दनः
उभयोरेव वामर्थे यास्यामि कुरुसंसदम्
MBh 5.70.80
शमं तत्र लभेयं चेद्युष्मदर्थमहापयन्
पुण्यं मे सुमहद्राजंश्चरितं स्यान्महाफलम्
MBh 5.70.81
मोचयेयं मृत्युपाशात्संरब्धान्कुरुसृञ्जयान्
पाण्डवान्धार्तराष्ट्रांश्च सर्वां च पृथिवीमिमाम्
MBh 5.70.82
युधिष्ठिर उवाच
न ममैतन्मतं कृष्ण यत्त्वं यायाः कुरून्प्रति
सुयोधनः सूक्तमपि न करिष्यति ते वचः
MBh 5.70.83
समेतं पार्थिवं क्षत्रं सुयोधनवशानुगम्
तेषां मध्यावतरणं तव कृष्ण न रोचये
MBh 5.70.84
न हि नः प्रीणयेद्द्रव्यं न देवत्वं कुतः सुखम्
न च सर्वामरैश्वर्यं तव रोधेन माधव
MBh 5.70.85
भगवानुवाच
जानाम्येतां महाराज धार्तराष्ट्रस्य पापताम्
अवाच्यास्तु भविष्यामः सर्वलोके महीक्षिताम्
MBh 5.70.86
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः
क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः
MBh 5.70.87
अथ चेत्ते प्रवर्तेरन्मयि किंचिदसांप्रतम्
निर्दहेयं कुरून्सर्वानिति मे धीयते मतिः
MBh 5.70.88
न जातु गमनं तत्र भवेत्पार्थ निरर्थकम्
अर्थप्राप्तिः कदाचित्स्यादन्ततो वाप्यवाच्यता
MBh 5.70.89
युधिष्ठिर उवाच
यत्तुभ्यं रोचते कृष्ण स्वस्ति प्राप्नुहि कौरवान्
कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम्
MBh 5.70.90
विष्वक्सेन कुरून्गत्वा भारताञ्शमयेः प्रभो
यथा सर्वे सुमनसः सह स्यामः सुचेतसः
MBh 5.70.91
भ्राता चासि सखा चासि बीभत्सोर्मम च प्रियः
सौहृदेनाविशङ्क्योऽसि स्वस्ति प्राप्नुहि भूतये
MBh 5.70.92
अस्मान्वेत्थ परान्वेत्थ वेत्थार्थं वेत्थ भाषितम्
यद्यदस्मद्धितं कृष्ण तत्तद्वाच्यः सुयोधनः
MBh 5.70.93
यद्यद्धर्मेण संयुक्तमुपपद्येद्धितं वचः
तत्तत्केशव भाषेथाः सान्त्वं वा यदि वेतरत्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 69
- Next chapter · Udyoga-Parva Ch 71 →
Sources and Connected Readings
Continue from these 93 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 5.70local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷