🪷 Mahābhārata · Udyoga-Parva · Chapter 69
The Book of the Effort · Parva 5 · 7 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 7 Shlokas
MBh 5.69.1
[धृ]
चक्षुष्मतां वै सपृहयामि संजय; दरक्ष्यन्ति ये वासुदेवं समीपे
विभ्राजमानं वपुषा परेण; परकाशयन्तं पर्दिशॊ दिशश च
MBh 5.69.2
ईरयन्तं भारतीं भारतानाम; अभ्यर्चनीयां शंकरीं सृञ्जयानाम
बुभूषद्भिर गरहणीयाम अनिन्द्यां; परासूनाम अग्रहणीय रूपाम
MBh 5.69.3
समुद्यन्तं सात्वतम एकवीरं; परणेतारम ऋषभं यादवानाम
निहन्तारं कषॊभणं शात्रवाणां; मुष्णन्तं च दविषतां वै यशांसि
MBh 5.69.4
दरष्टारॊ हि कुरवस तं समेता; महात्मानं शत्रुहणं वरेण्यम
बरुवन्तं वाचम अनृशंस रूपां; वृष्णिश्रेष्ठं मॊहयन्तं मदीयान
MBh 5.69.5
ऋषिं सनातनतमं विपश्चितं; वाचः समुद्रं कलशं यतीनाम
अरिष्टनेमिं गरुडं सुपर्णं; पतिं परजानां भुवनस्य धाम
MBh 5.69.6
सहस्रशीर्षं पुरुषं पुराणम; अनादिमध्यान्तम अनन्त कीर्तिम
शुक्रस्य धातारम अजं जनित्रं; परं परेभ्यः शरणं परपद्ये
MBh 5.69.7
तरैलॊक्यनिर्माण करं जनित्रं; देवासुराणाम अथ नागरक्षसाम
नराधिपानां विदुषां परधानम; इन्द्रानुजं तं शरणं परपद्ये
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 68
- Next chapter · Udyoga-Parva Ch 70 →
🪷 जय व्यास भगवान् 🪷