🪷 Mahābhārata · Udyoga-Parva · Chapter 7

The Book of the Effort · Parva 5 · 36 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 36 Shlokas

MBh 5.7.1
वैशंपायन उवाच गते द्वारवतीं कृष्णे बलदेवे च माधवे सह वृष्ण्यन्धकैः सर्वैर्भोजैश्च शतशस्तथा
MBh 5.7.2
सर्वमागमयामास पाण्डवानां विचेष्टितम् धृतराष्ट्रात्मजो राजा दूतैः प्रणिहितैश्चरैः
MBh 5.7.3
स श्रुत्वा माधवं यातं सदश्वैरनिलोपमैः बलेन नातिमहता द्वारकामभ्ययात्पुरीम्
MBh 5.7.4
तमेव दिवसं चापि कौन्तेयः पाण्डुनन्दनः आनर्तनगरीं रम्यां जगामाशु धनंजयः
MBh 5.7.5
तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ सुप्तं ददृशतुः कृष्णं शयानं चोपजग्मतुः
MBh 5.7.6
ततः शयाने गोविन्दे प्रविवेश सुयोधनः उच्छीर्षतश्च कृष्णस्य निषसाद वरासने
MBh 5.7.7
ततः किरीटी तस्यानु प्रविवेश महामनाः पश्चार्धे च स कृष्णस्य प्रह्वोऽतिष्ठत्कृताञ्जलिः
MBh 5.7.8
प्रतिबुद्धः स वार्ष्णेयो ददर्शाग्रे किरीटिनम् स तयोः स्वागतं कृत्वा यथार्हं प्रतिपूज्य च तदागमनजं हेतुं पप्रच्छ मधुसूदनः
MBh 5.7.9
ततो दुर्योधनः कृष्णमुवाच प्रहसन्निव विग्रहेऽस्मिन्भवान्साह्यं मम दातुमिहार्हति
MBh 5.7.10
समं हि भवतः सख्यं मयि चैवार्जुनेऽपि च तथा संबन्धकं तुल्यमस्माकं त्वयि माधव
MBh 5.7.11
अहं चाभिगतः पूर्वं त्वामद्य मधुसूदन पूर्वं चाभिगतं सन्तो भजन्ते पूर्वसारिणः
MBh 5.7.12
त्वं च श्रेष्ठतमो लोके सतामद्य जनार्दन सततं संमतश्चैव सद्वृत्तमनुपालय
MBh 5.7.13
कृष्ण उवाच भवानभिगतः पूर्वमत्र मे नास्ति संशयः दृष्टस्तु प्रथमं राजन्मया पार्थो धनंजयः
MBh 5.7.14
तव पूर्वाभिगमनात्पूर्वं चाप्यस्य दर्शनात् साहाय्यमुभयोरेव करिष्यामि सुयोधन
MBh 5.7.15
प्रवारणं तु बालानां पूर्वं कार्यमिति श्रुतिः तस्मात्प्रवारणं पूर्वमर्हः पार्थो धनंजयः
MBh 5.7.16
मत्संहननतुल्यानां गोपानामर्बुदं महत् नारायणा इति ख्याताः सर्वे संग्रामयोधिनः
MBh 5.7.17
ते वा युधि दुराधर्षा भवन्त्वेकस्य सैनिकाः अयुध्यमानः संग्रामे न्यस्तशस्त्रोऽहमेकतः
MBh 5.7.18
आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम् तद्वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः
MBh 5.7.19
वैशंपायन उवाच एवमुक्तस्तु कृष्णेन कुन्तीपुत्रो धनंजयः अयुध्यमानं संग्रामे वरयामास केशवम्
MBh 5.7.20
सहस्राणां सहस्रं तु योधानां प्राप्य भारत कृष्णं चापहृतं ज्ञात्वा संप्राप परमां मुदम्
MBh 5.7.21
दुर्योधनस्तु तत्सैन्यं सर्वमादाय पार्थिवः ततोऽभ्ययाद्भीमबलो रौहिणेयं महाबलम्
MBh 5.7.22
सर्वं चागमने हेतुं स तस्मै संन्यवेदयत् प्रत्युवाच ततः शौरिर्धार्तराष्ट्रमिदं वचः
MBh 5.7.23
विदितं ते नरव्याघ्र सर्वं भवितुमर्हति यन्मयोक्तं विराटस्य पुरा वैवाहिके तदा
MBh 5.7.24
निगृह्योक्तो हृषीकेशस्त्वदर्थं कुरुनन्दन मया संबन्धकं तुल्यमिति राजन्पुनः पुनः
MBh 5.7.25
न च तद्वाक्यमुक्तं वै केशवः प्रत्यपद्यत न चाहमुत्सहे कृष्णं विना स्थातुमपि क्षणम्
MBh 5.7.26
नाहं सहायः पार्थानां नापि दुर्योधनस्य वै इति मे निश्चिता बुद्दिर्वासुदेवमवेक्ष्य ह
MBh 5.7.27
जातोऽसि भारते वंशे सर्वपार्थिवपूजिते गच्छ युध्यस्व धर्मेण क्षात्रेण भरतर्षभ
MBh 5.7.28
इत्येवमुक्तः स तदा परिष्वज्य हलायुधम् कृष्णं चापहृतं ज्ञात्वा युद्धान्मेने जितं जयम्
MBh 5.7.29
सोऽभ्ययात्कृतवर्माणं धृतराष्ट्रसुतो नृपः कृतवर्मा ददौ तस्य सेनामक्षौहिणीं तदा
MBh 5.7.30
स तेन सर्वसैन्येन भीमेन कुरुनन्दनः वृतः प्रतिययौ हृष्टः सुहृदः संप्रहर्षयन्
MBh 5.7.31
गते दुर्योधने कृष्णः किरीटिनमथाब्रवीत् अयुध्यमानः कां बुद्धिमास्थायाहं त्वया वृतः
MBh 5.7.32
अर्जुन उवाच भवान्समर्थस्तान्सर्वान्निहन्तुं नात्र संशयः निहन्तुमहमप्येकः समर्थः पुरुषोत्तम
MBh 5.7.33
भवांस्तु कीर्तिमाँल्लोके तद्यशस्त्वां गमिष्यति यशसा चाहमप्यर्थी तस्मादसि मया वृतः
MBh 5.7.34
सारथ्यं तु त्वया कार्यमिति मे मानसं सदा चिररात्रेप्सितं कामं तद्भवान्कर्तुमर्हति
MBh 5.7.35
वासुदेव उवाच उपपन्नमिदं पार्थ यत्स्पर्धेथा मया सह सारथ्यं ते करिष्यामि कामः संपद्यतां तव
MBh 5.7.36
वैशंपायन उवाच एवं प्रमुदितः पार्थः कृष्णेन सहितस्तदा वृतो दाशार्हप्रवरैः पुनरायाद्युधिष्ठिरम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 36 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.7local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷