🪷 Mahābhārata · Udyoga-Parva · Chapter 6
The Book of the Effort · Parva 5 · 18 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 18 Shlokas
MBh 5.6.1
[दरुपद]
भूतानां पराणिनः शरेष्ठाः पराणिनां बुद्धिजीविनः
बुद्धिमत्सु नराः शरेष्ठा नराणां तु दविजातयः
MBh 5.6.2
दविजेषु वैद्याः शरेयांसॊ वैद्येषु कृतबुद्धयः
स भवान कृतबुद्धीनां परधान इति मे मतिः
MBh 5.6.3
कुलेन च विशिष्टॊ ऽसि वयसा च शरुतेन च
परज्ञयानवमश चासि शुक्रेणाङ्गिरसेन च
MBh 5.6.4
विदितं चापि ते सर्वं यथावृत्थः स कौरवः
पाण्डवश च यथावृत्तः कुन्तीपुत्रॊ युधिष्ठिरः
MBh 5.6.5
धृतराष्टस्य विदिते वञ्चिताः पाण्डवाः परैः
विदुरेणानुनीतॊ ऽपि पुत्रम एवानुवर्तते
MBh 5.6.6
शकुनिर बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत
अनक्षज्ञं मताक्षः सन कषत्रवृत्ते सथितं शुचिम
MBh 5.6.7
ते तथा वञ्चयित्वा तु धर्मपुत्रं युधिष्ठिरम
न कस्यां चिद अवस्थायां राज्यं दास्यन्ति वै सवयम
MBh 5.6.8
भवांस तु धर्मसंयुक्तं धृतराष्ट्रं बरुवन वचः
मनांसि तस्य यॊधानां धरुवम आवर्तयिष्यति
MBh 5.6.9
विदुरश चापि तद वाक्यं साधयिष्यति तावकम
भीष्मद्रॊणकृपाणां च भेद्यं संजनयिष्यति
MBh 5.6.10
अमात्येषु च भिन्नेषु यॊधेषु विमुखेषु च
पुनर एकाग्रकरणं तेषां कर्म भविष्यति
MBh 5.6.11
एतस्मिन्न अन्तरे पार्थाः सुखम एकाग्रबुद्धयः
सेना कर्म करिष्यन्ति दरव्याणां चैव संचयम
MBh 5.6.12
भिद्यमानेषु च सवेषु लम्बमाने च वै तवयि
न तथा ते करिष्यन्ति सेना कर्म न संशयः
MBh 5.6.13
एतत परयॊजनं चात्र पराधान्येनॊपलभ्यते
संगत्या धृतराष्ट्रश च कुर्याद धर्म्यं वचस तव
MBh 5.6.14
स भवान धर्मयुक्तश च धर्म्यं तेषु समाचरन
कृपालुषु परिक्लेशान पाण्डवानां परकीर्तयन
MBh 5.6.15
वृद्धेषु कुलधर्मं च बरुवन पूर्वैर अनुष्ठितम
विभेत्स्यति मनांस्य एषाम इति मे नात्र संशयः
MBh 5.6.16
न च तेभ्यॊ भयं ते ऽसति बराह्मणॊ हय असि वेदवित
दूत कर्मणि युक्तश च सथविरश च विशेषतः
MBh 5.6.17
स भवान पुष्ययॊगेन मुहूर्तेन जयेन च
कौरवेयान परयात्व आशु कौन्तेयस्यार्थ सिद्धये
MBh 5.6.18
तथानुशिष्टः परययौ दरुपदेन महात्मना
पुरॊधा वृत्तसंपन्नॊ नगरं नागसाह्वयम
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 5
- Next chapter · Udyoga-Parva Ch 7 →
🪷 जय व्यास भगवान् 🪷