🪷 Mahābhārata · Udyoga-Parva · Chapter 45
The Book of the Effort · Parva 5 · 28 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 28 Shlokas
MBh 5.45.1
सनत्सुजात उवाच
यत्तच्छुक्रं महज्ज्योतिर्दीप्यमानं महद्यशः
तद्वै देवा उपासन्ते यस्मादर्को विराजते
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
MBh 5.45.2
शुक्राद्ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते
तच्छुक्रं ज्योतिषां मध्येऽतप्तं तपति तापनम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
MBh 5.45.3
आपोऽथ अद्भ्यः सलिलस्य मध्ये; उभौ देवौ शिश्रियातेऽन्तरिक्षे
स सध्रीचीः स विषूचीर्वसाना; उभे बिभर्ति पृथिवीं दिवं च
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
MBh 5.45.4
उभौ च देवौ पृथिवीं दिवं च; दिशश्च शुक्रं भुवनं बिभर्ति
तस्माद्दिशः सरितश्च स्रवन्ति; तस्मात्समुद्रा विहिता महान्तः
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
MBh 5.45.5
चक्रे रथस्य तिष्ठन्तं ध्रुवस्याव्ययकर्मणः
केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
MBh 5.45.6
न सादृश्ये तिष्ठति रूपमस्य; न चक्षुषा पश्यति कश्चिदेनम्
मनीषयाथो मनसा हृदा च; य एवं विदुरमृतास्ते भवन्ति
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
MBh 5.45.7
द्वादशपूगां सरितं देवरक्षितम्
मधु ईशन्तस्तदा संचरन्ति घोरम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
MBh 5.45.8
तदर्धमासं पिबति संचित्य भ्रमरो मधु
ईशानः सर्वभूतेषु हविर्भूतमकल्पयत्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
MBh 5.45.9
हिरण्यपर्णमश्वत्थमभिपत्य अपक्षकाः
ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
MBh 5.45.10
पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे
हरन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
MBh 5.45.11
तस्माद्वै वायुरायातस्तस्मिंश्च प्रयतः सदा
तस्मादग्निश्च सोमश्च तस्मिंश्च प्राण आततः
MBh 5.45.12
सर्वमेव ततो विद्यात्तत्तद्वक्तुं न शक्नुमः
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
MBh 5.45.13
अपानं गिरति प्राणः प्राणं गिरति चन्द्रमाः
आदित्यो गिरते चन्द्रमादित्यं गिरते परः
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
MBh 5.45.14
एकं पादं नोत्क्षिपति सलिलाद्धंस उच्चरन्
तं चेत्सततमृत्विजं न मृत्युर्नामृतं भवेत्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
MBh 5.45.15
एवं देवो महात्मा स पावकं पुरुषो गिरन्
यो वै तं पुरुषं वेद तस्येहात्मा न रिष्यते
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
MBh 5.45.16
यः सहस्रं सहस्राणां पक्षान्संतत्य संपतेत्
मध्यमे मध्य आगच्छेदपि चेत्स्यान्मनोजवः
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
MBh 5.45.17
न दर्शने तिष्ठति रूपमस्य; पश्यन्ति चैनं सुविशुद्धसत्त्वाः
हितो मनीषी मनसाभिपश्ये;द्ये तं श्रयेयुरमृतास्ते भवन्ति
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
MBh 5.45.18
गूहन्ति सर्पा इव गह्वराणि; स्वशिक्षया स्वेन वृत्तेन मर्त्याः
तेषु प्रमुह्यन्ति जना विमूढा; यथाध्वानं मोहयन्ते भयाय
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
MBh 5.45.19
सदा सदासत्कृतः स्यान्न मृत्युरमृतं कुतः
सत्यानृते सत्यसमानबन्धने; सतश्च योनिरसतश्चैक एव
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
MBh 5.45.20
न साधुना नोत असाधुना वा; समानमेतद्दृश्यते मानुषेषु
समानमेतदमृतस्य विद्या;देवंयुक्तो मधु तद्वै परीप्सेत्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
MBh 5.45.21
नास्यातिवादा हृदयं तापयन्ति; नानधीतं नाहुतमग्निहोत्रम्
मनो ब्राह्मीं लघुतामादधीत; प्रज्ञानमस्य नाम धीरा लभन्ते
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
MBh 5.45.22
एवं यः सर्वभूतेषु आत्मानमनुपश्यति
अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम्
MBh 5.45.23
यथोदपाने महति सर्वतः संप्लुतोदके
एवं सर्वेषु वेदेषु ब्राह्मणस्य विजानतः
MBh 5.45.24
अङ्गुष्ठमात्रः पुरुषो महात्मा; न दृश्यतेऽसौ हृदये निविष्टः
अजश्चरो दिवारात्रमतन्द्रितश्च; स तं मत्वा कविरास्ते प्रसन्नः
MBh 5.45.25
अहमेवास्मि वो माता पिता पुत्रोऽस्म्यहं पुनः
आत्माहमपि सर्वस्य यच्च नास्ति यदस्ति च
MBh 5.45.26
पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत
ममैव यूयमात्मस्था न मे यूयं न वोऽप्यहम्
MBh 5.45.27
आत्मैव स्थानं मम जन्म चात्मा; वेदप्रोक्तोऽहमजरप्रतिष्ठः
MBh 5.45.28
अणोरणीयान्सुमनाः सर्वभूतेषु जागृमि
पितरं सर्वभूतानां पुष्करे निहितं विदुः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 44
- Next chapter · Udyoga-Parva Ch 46 →
Sources and Connected Readings
Continue from these 28 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 5.45local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷