🪷 Mahābhārata · Udyoga-Parva · Chapter 44
The Book of the Effort · Parva 5 · 24 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 24 Shlokas
MBh 5.44.1
[धृ]
सनत्सुजात यद इमां परार्थां; बराह्मीं वाचं परवदसि विश्वरूपाम
परां हि कामेषु सुदुर्लभां कथां; तद बरूहि मे वाक्यम एतत कुमार
MBh 5.44.2
[सन]
नैतद बरह्म तवरमाणेन लभ्यं; यन मां पृच्छस्य अभिहृष्यस्य अतीव
अव्यक्तविद्याम अभिधास्ये पुराणीं; बुद्ध्या च तेषां बरह्मचर्येण सिद्धाम
MBh 5.44.3
अव्यक्तविद्याम इति यत सनातनीं; बरवीषि तवं बरह्मचर्येण सिद्धाम
अनारभ्या वसतीहार्य काले; कथं बराह्मण्यम अमृतत्वं लभेत
MBh 5.44.4
[सन]
ये ऽसमिँल लॊके विजयन्तीह कामान; बराह्मीं सथितिम अनुतितिक्षमाणाः
त आत्मानं निर्हरन्तीह देहान; मुञ्जाद इषीकाम इव सत्त्वसंस्थाः
MBh 5.44.5
शरीरम एतौ कुरुतः पिता माता च भारत
आचार्य शास्ता या जातिः सा सत्या साजरामरा
MBh 5.44.6
आचार्य यॊनिम इह ये परविश्य; भूत्वा गर्भं बरह्मचर्यं चरन्ति
इहैव ते शास्त्रकारा भवन्ति; परहाय देहं परमं यान्ति यॊगम
MBh 5.44.7
य आवृणॊत्य अवितथेन कर्णा; वृतं कुर्वन्न अमृतं संप्रयच्छन
तं मन्येत पितरं मातरं च; तस्मै न दरुह्येत कृतम अस्य जानन
MBh 5.44.8
गुरुं शिष्यॊ नित्यम अभिमन्यमानः; सवाध्यायम इच्छेच छुचिर अप्रमत्तः
मानं न कुर्यान न दधीत रॊषम; एष परथमॊ बरह्मचर्यस्य पादः
MBh 5.44.9
आचार्यस्य परियं कुर्यात पराणैर अपि धनैर अपि
कर्मणा मनसा वाचा दवितीयः पाद उच्यते
MBh 5.44.10
समा गुरौ यथावृत्तिर गुरु पत्न्यां तथा भवेत
यथॊक्तकारी परियकृत तृतीयः पाद उच्यते
MBh 5.44.11
नाचार्यायेहॊपकृत्वा परवादं; पराज्ञः कुर्वीत नैतद अहं करॊमि
इतीव मन्येत न भाषयेत; स वै चतुर्थॊ बरह्मचर्यस्य पादः
MBh 5.44.12
एवं वसन्तं यद उपप्लवेद धनम; आचार्याय तद अनुप्रयच्छेत
सतां वृद्धिं बहुगुणाम एवम एति; गुरॊः पुत्रे भवति च वृत्तिर एषा
MBh 5.44.13
एवं वसन सर्वतॊ वर्धतीह; बहून पुत्राँल लभते च परतिष्ठाम
वर्षन्ति चास्मै परदिशॊ दिशश च; वसन्त्य अस्मिन बरह्मचर्ये जनाश च
MBh 5.44.14
एतन बरह्मचर्येण देवा देवत्वम आप्नुवन
ऋषयश च महाभागा बरह्मलॊकं मनीषिणः
MBh 5.44.15
गन्धर्वाणाम अनेनैव रूपम अप्सरसाम अभूत
एतेन बरह्मचर्येण सूर्यॊ अह्नाय जायते
MBh 5.44.16
य आशयेत पाटयेच चापि राजन; सर्वं शरीरं तपसा तप्यमानः
एतेनासौ बाल्यम अत्येति विद्वान; मृत्युं तथा रॊधयत्य अन्तकाले
MBh 5.44.17
अन्तवन्तः कषत्रिय ते जयन्ति; लॊकाञ जनाः कर्मणा निर्मितेन
बरह्मैव विद्वांस तेनाभ्येति सर्वं; नान्यः पन्था अयनाय विद्यते
MBh 5.44.18
आभाति शुक्लम इव लॊहितम इव; अथॊ कृष्णम अथाञ्जनं काद्रवं वा
तद बराह्मणः पश्यति यॊ ऽतर विद्वान; कथंरूपं तद अमृतम अक्षरं पदम
MBh 5.44.19
नाभाति शुक्लम इव लॊहितम इव; अथॊ कृष्णम आयसम अर्कवर्णम
न पृथिव्यां तिष्ठति नान्तरिक्षे; नैतत समुद्रे सलिलं बिभर्ति
MBh 5.44.20
न तारकासु न च विद्युद आश्रितं; न चाभ्रेषु दृश्यते रूपम अस्य
न चापि वायौ न च देवतासु; न तच चन्द्रे दृश्यते नॊत सूर्ये
MBh 5.44.21
नैवर्क्षु तन न यजुःषु नाप्य अथर्वसु; न चैव दृश्यत्य अमलेषु सामसु
रथंतरे बार्हते चापि राजन; महाव्रते नैव दृश्येद धरुवं तत
MBh 5.44.22
अपारणीयं तमसः परस्तात; तद अन्तकॊ ऽपय एति विनाशकाले
अणीय रूपं कषुर धारया तन; महच च रूपं तव अपि पर्वतेभ्यः
MBh 5.44.23
सा परतिष्ठा तद अमृतं लॊकास तद बरह्म तद यशः
भूतानि जज्ञिरे तस्मात परलयं यान्ति तत्र च
MBh 5.44.24
अनामयं तन महद उद्यतं यशॊ; वाचॊ विकारान कवयॊ वदन्ति
तस्मिञ जगत सर्वम इदं परतिष्ठितं; ये तद विदुर अमृतास ते भवन्ति
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 43
- Next chapter · Udyoga-Parva Ch 45 →
🪷 जय व्यास भगवान् 🪷