🪷 Mahābhārata · Udyoga-Parva · Chapter 36
The Book of the Effort · Parva 5 · 72 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 72 Shlokas
MBh 5.36.1
विदुर उवाच
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम्
MBh 5.36.2
चरन्तं हंसरूपेण महर्षिं संशितव्रतम्
साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा
MBh 5.36.3
साध्या देवा वयमस्मो महर्षे; दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम्
श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः; काव्यां वाचं वक्तुमर्हस्युदाराम्
MBh 5.36.4
हंस उवाच
एतत्कार्यममराः संश्रुतं मे; धृतिः शमः सत्यधर्मानुवृत्तिः
ग्रन्थिं विनीय हृदयस्य सर्वं; प्रियाप्रिये चात्मवशं नयीत
MBh 5.36.5
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षितः
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति
MBh 5.36.6
नाक्रोशी स्यान्नावमानी परस्य; मित्रद्रोही नोत नीचोपसेवी
न चातिमानी न च हीनवृत्तो; रूक्षां वाचं रुशतीं वर्जयीत
MBh 5.36.7
मर्माण्यस्थीनि हृदयं तथासू;न्घोरा वाचो निर्दहन्तीह पुंसाम्
तस्माद्वाचं रुशतीं रूक्षरूपां; धर्मारामो नित्यशो वर्जयीत
MBh 5.36.8
अरुंतुदं परुषं रूक्षवाचं; वाक्कण्टकैर्वितुदन्तं मनुष्यान्
विद्यादलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम्
MBh 5.36.9
परश्चेदेनमधिविध्येत बाणै;र्भृशं सुतीक्ष्णैरनलार्कदीप्तैः
विरिच्यमानोऽप्यतिरिच्यमानो; विद्यात्कविः सुकृतं मे दधाति
MBh 5.36.10
यदि सन्तं सेवते यद्यसन्तं; तपस्विनं यदि वा स्तेनमेव
वासो यथा रङ्गवशं प्रयाति; तथा स तेषां वशमभ्युपैति
MBh 5.36.11
वादं तु यो न प्रवदेन्न वादये;द्यो नाहतः प्रतिहन्यान्न घातयेत्
यो हन्तुकामस्य न पापमिच्छे;त्तस्मै देवाः स्पृहयन्त्यागताय
MBh 5.36.12
अव्याहृतं व्याहृताच्छ्रेय आहुः; सत्यं वदेद्व्याहृतं तद्द्वितीयम्
प्रियं वदेद्व्याहृतं तत्तृतीयं; धर्म्यं वदेद्व्याहृतं तच्चतुर्थम्
MBh 5.36.13
यादृशैः संविवदते यादृशांश्चोपसेवते
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः
MBh 5.36.14
यतो यतो निवर्तते ततस्ततो विमुच्यते
निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि
MBh 5.36.15
न जीयते नोत जिगीषतेऽन्या;न्न वैरकृच्चाप्रतिघातकश्च
निन्दाप्रशंसासु समस्वभावो; न शोचते हृष्यति नैव चायम्
MBh 5.36.16
भावमिच्छति सर्वस्य नाभावे कुरुते मतिम्
सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः
MBh 5.36.17
नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च
राद्धापराद्धे जानाति यः स मध्यमपूरुषः
MBh 5.36.18
दुःशासनस्तूपहन्ता न शास्ता; नावर्तते मन्युवशात्कृतघ्नः
न कस्यचिन्मित्रमथो दुरात्मा; कलाश्चैता अधमस्येह पुंसः
MBh 5.36.19
न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः
निराकरोति मित्राणि यो वै सोऽधमपूरुषः
MBh 5.36.20
उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान्
अधमांस्तु न सेवेत य इच्छेच्छ्रेय आत्मनः
MBh 5.36.21
प्राप्नोति वै वित्तमसद्बलेन; नित्योत्थानात्प्रज्ञया पौरुषेण
न त्वेव सम्यग्लभते प्रशंसां; न वृत्तमाप्नोति महाकुलानाम्
MBh 5.36.22
धृतराष्ट्र उवाच
महाकुलानां स्पृहयन्ति देवा; धर्मार्थवृद्धाश्च बहुश्रुताश्च
पृच्छामि त्वां विदुर प्रश्नमेतं; भवन्ति वै कानि महाकुलानि
MBh 5.36.23
विदुर उवाच
तपो दमो ब्रह्मवित्त्वं वितानाः; पुण्या विवाहाः सततान्नदानम्
येष्वेवैते सप्त गुणा भवन्ति; सम्यग्वृत्तास्तानि महाकुलानि
MBh 5.36.24
येषां न वृत्तं व्यथते न योनि;र्वृत्तप्रसादेन चरन्ति धर्मम्
ये कीर्तिमिच्छन्ति कुले विशिष्टां; त्यक्तानृतास्तानि महाकुलानि
MBh 5.36.25
अनिज्ययाविवाहैश्च वेदस्योत्सादनेन च
कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च
MBh 5.36.26
देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च
MBh 5.36.27
ब्राह्मणानां परिभवात्परिवादाच्च भारत
कुलान्यकुलतां यान्ति न्यासापहरणेन च
MBh 5.36.28
कुलानि समुपेतानि गोभिः पुरुषतोऽश्वतः
कुलसंख्यां न गच्छन्ति यानि हीनानि वृत्ततः
MBh 5.36.29
वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि
कुलसंख्यां तु गच्छन्ति कर्षन्ति च महद्यशः
MBh 5.36.30
मा नः कुले वैरकृत्कश्चिदस्तु; राजामात्यो मा परस्वापहारी
मित्रद्रोही नैकृतिकोऽनृती वा; पूर्वाशी वा पितृदेवातिथिभ्यः
MBh 5.36.31
यश्च नो ब्राह्मणं हन्याद्यश्च नो ब्राह्मणान्द्विषेत्
न नः स समितिं गच्छेद्यश्च नो निर्वपेत्कृषिम्
MBh 5.36.32
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन
MBh 5.36.33
श्रद्धया परया राजन्नुपनीतानि सत्कृतिम्
प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मणाम्
MBh 5.36.34
सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै; शक्तो वोढुं न तथान्ये महीजाः
एवं युक्ता भारसहा भवन्ति; महाकुलीना न तथान्ये मनुष्याः
MBh 5.36.35
न तन्मित्रं यस्य कोपाद्बिभेति; यद्वा मित्रं शङ्कितेनोपचर्यम्
यस्मिन्मित्रे पितरीवाश्वसीत; तद्वै मित्रं संगतानीतराणि
MBh 5.36.36
यदि चेदप्यसंबन्धो मित्रभावेन वर्तते
स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम्
MBh 5.36.37
चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः
पारिप्लवमतेर्नित्यमध्रुवो मित्रसंग्रहः
MBh 5.36.38
चलचित्तमनात्मानमिन्द्रियाणां वशानुगम्
अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरो यथा
MBh 5.36.39
अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः
शीलमेतदसाधूनामभ्रं पारिप्लवं यथा
MBh 5.36.40
सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये
तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते
MBh 5.36.41
अर्थयेदेव मित्राणि सति वासति वा धने
नानर्थयन्विजानाति मित्राणां सारफल्गुताम्
MBh 5.36.42
संतापाद्भ्रश्यते रूपं संतापाद्भ्रश्यते बलम्
संतापाद्भ्रश्यते ज्ञानं संतापाद्व्याधिमृच्छति
MBh 5.36.43
अनवाप्यं च शोकेन शरीरं चोपतप्यते
अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः
MBh 5.36.44
पुनर्नरो म्रियते जायते च; पुनर्नरो हीयते वर्धते पुनः
पुनर्नरो याचति याच्यते च; पुनर्नरः शोचति शोच्यते पुनः
MBh 5.36.45
सुखं च दुःखं च भवाभवौ च; लाभालाभौ मरणं जीवितं च
पर्यायशः सर्वमिह स्पृशन्ति; तस्माद्धीरो नैव हृष्येन्न शोचेत्
MBh 5.36.46
चलानि हीमानि षडिन्द्रियाणि; तेषां यद्यद्वर्तते यत्र यत्र
ततस्ततः स्रवते बुद्धिरस्य; छिद्रोदकुम्भादिव नित्यमम्भः
MBh 5.36.47
धृतराष्ट्र उवाच
तनुरुच्चः शिखी राजा मिथ्योपचरितो मया
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति
MBh 5.36.48
नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः
यत्तत्पदमनुद्विग्नं तन्मे वद महामते
MBh 5.36.49
विदुर उवाच
नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात्
नान्यत्र लोभसंत्यागाच्छान्तिं पश्यामि तेऽनघ
MBh 5.36.50
बुद्ध्या भयं प्रणुदति तपसा विन्दते महत्
गुरुशुश्रूषया ज्ञानं शान्तिं त्यागेन विन्दति
MBh 5.36.51
अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः
रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः
MBh 5.36.52
स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः
तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते
MBh 5.36.53
स्वास्तीर्णानि शयनानि प्रपन्ना; न वै भिन्ना जातु निद्रां लभन्ते
न स्त्रीषु राजन्रतिमाप्नुवन्ति; न मागधैः स्तूयमाना न सूतैः
MBh 5.36.54
न वै भिन्ना जातु चरन्ति धर्मं; न वै सुखं प्राप्नुवन्तीह भिन्नाः
न वै भिन्ना गौरवं मानयन्ति; न वै भिन्नाः प्रशमं रोचयन्ति
MBh 5.36.55
न वै तेषां स्वदते पथ्यमुक्तं; योगक्षेमं कल्पते नोत तेषाम्
भिन्नानां वै मनुजेन्द्र परायणं; न विद्यते किंचिदन्यद्विनाशात्
MBh 5.36.56
संभाव्यं गोषु संपन्नं संभाव्यं ब्राह्मणे तपः
संभाव्यं स्त्रीषु चापल्यं संभाव्यं ज्ञातितो भयम्
MBh 5.36.57
तन्तवोऽप्यायता नित्यं तन्तवो बहुलाः समाः
बहून्बहुत्वादायासान्सहन्तीत्युपमा सताम्
MBh 5.36.58
धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ
MBh 5.36.59
ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च
वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते
MBh 5.36.60
महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः
प्रसह्य एव वातेन शाखास्कन्धं विमर्दितुम्
MBh 5.36.61
अथ ये सहिता वृक्षाः संघशः सुप्रतिष्ठिताः
ते हि शीघ्रतमान्वातान्सहन्तेऽन्योन्यसंश्रयात्
MBh 5.36.62
एवं मनुष्यमप्येकं गुणैरपि समन्वितम्
शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवैकजम्
MBh 5.36.63
अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च
ज्ञातयः संप्रवर्धन्ते सरसीवोत्पलान्युत
MBh 5.36.64
अवध्या ब्राह्मणा गावः स्त्रियो बालाश्च ज्ञातयः
येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः
MBh 5.36.65
न मनुष्ये गुणः कश्चिदन्यो धनवतामपि
अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः
MBh 5.36.66
अव्याधिजं कटुकं शीर्षरोगं; पापानुबन्धं परुषं तीक्ष्णमुग्रम्
सतां पेयं यन्न पिबन्त्यसन्तो; मन्युं महाराज पिब प्रशाम्य
MBh 5.36.67
रोगार्दिता न फलान्याद्रियन्ते; न वै लभन्ते विषयेषु तत्त्वम्
दुःखोपेता रोगिणो नित्यमेव; न बुध्यन्ते धनभोगान्न सौख्यम्
MBh 5.36.68
पुरा ह्युक्तो नाकरोस्त्वं वचो मे; द्यूते जितां द्रौपदीं प्रेक्ष्य राजन्
दुर्योधनं वारयेत्यक्षवत्यां; कितवत्वं पण्डिता वर्जयन्ति
MBh 5.36.69
न तद्बलं यन्मृदुना विरुध्यते; मिश्रो धर्मस्तरसा सेवितव्यः
प्रध्वंसिनी क्रूरसमाहिता श्री;र्मृदुप्रौढा गच्छति पुत्रपौत्रान्
MBh 5.36.70
धार्तराष्ट्राः पाण्डवान्पालयन्तु; पाण्डोः सुतास्तव पुत्रांश्च पान्तु
एकारिमित्राः कुरवो ह्येकमन्त्रा; जीवन्तु राजन्सुखिनः समृद्धाः
MBh 5.36.71
मेढीभूतः कौरवाणां त्वमद्य; त्वय्याधीनं कुरुकुलमाजमीढ
पार्थान्बालान्वनवासप्रतप्ता;न्गोपायस्व स्वं यशस्तात रक्षन्
MBh 5.36.72
संधत्स्व त्वं कौरवान्पाण्डुपुत्रै;र्मा तेऽन्तरं रिपवः प्रार्थयन्तु
सत्ये स्थितास्ते नरदेव सर्वे; दुर्योधनं स्थापय त्वं नरेन्द्र
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 35
- Next chapter · Udyoga-Parva Ch 37 →
Sources and Connected Readings
Continue from these 72 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 5.36local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷