🪷 Mahābhārata · Udyoga-Parva · Chapter 35

The Book of the Effort · Parva 5 · 67 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 67 Shlokas

MBh 5.35.1
[धृ] बरूहि भूयॊ महाबुद्धे धर्मार्थसहितं वचः शृण्वतॊ नास्ति मे तृप्तिर विचित्राणीह भाषसे
MBh 5.35.2
सर्वतीर्थेषु वा सनानं सर्वभूतेषु चार्जवम उभे एते समे सयाताम आर्जवं वा विशिष्यते
MBh 5.35.3
आर्जवं परतिपद्यस्व पुत्रेषु सततं विभॊ इह कीर्तिं परां पराप्य परेत्य सवर्गम अवाप्स्यसि
MBh 5.35.4
यावत कीर्तिर मनुष्यस्य पुण्या लॊकेषु गीयते तावत स पुरुषव्याघ्र सवर्गलॊके महीयते
MBh 5.35.5
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम विरॊचनस्य संवादं केशिन्य अर्थे सुधन्वना
MBh 5.35.6
किं बराह्मणाः सविच छरेयांसॊ दितिजाः सविद विरॊचन अथ केन सम पर्यङ्कं सुधन्वा नाधिरॊहति
MBh 5.35.7
पराजापत्या हि वै शरेष्ठा वयं केशिनि सत्तमाः अस्माकं खल्व इमे लॊकाः के देवाः के दविजातयः
MBh 5.35.8
इहैवास्स्व परतीक्षाव उपस्थाने विरॊचन सुधन्वा परातर आगन्ता पश्येयं वां समागतौ
MBh 5.35.9
तथा भद्रे करिष्यामि यथा तवं भीरु भाषसे सुधन्वानं च मां चैव परातर दरष्टासि संगतौ
MBh 5.35.10
अन्वालभे हिरण्मयं पराह्रादे ऽहं तवासनम एकत्वम उपसंपन्नॊ न तव आसेयं तवया सह
MBh 5.35.11
अन्वाहरन्तु फलकं कूर्चं वाप्य अथ वा बृसीम सुधन्वन न तवम अर्हॊ ऽसि मया सह समासनम
MBh 5.35.12
पितापि ते समासीनम उपासीतैव माम अधः बालः सुखैधितॊ गेहे न तवं किं चन बुध्यसे
MBh 5.35.13
हिरण्यं च गवाश्वं च यद वित्तम असुरेषु नः सुधन्वन विपणे तेन परश्नं पृच्छाव ये विदुः
MBh 5.35.14
हिरण्यं च गवाश्वं च तवैवास्तु विरॊचन पराणयॊस तु पणं कृत्वा परश्नं पृच्छाव ये विदुः
MBh 5.35.15
आवां कुत्र गमिष्यावः पराणयॊर विपणे कृते न हि देवेष्व अहं सथाता न मनुष्येषु कर्हि चित
MBh 5.35.16
पितरं ते गमिष्यावः पराणयॊर विपणे कृते पुत्रस्यापि स हेतॊर हि परह्रादॊ नानृतं वदेत
MBh 5.35.17
[परह] इमौ तौ संप्रदृश्येते याभ्यां न चरितं सह आशीविषाव इव करुद्धाव एकमार्गम इहागतौ
MBh 5.35.18
किं वै सहैव चरतॊ न पुरा चरतः सह विरॊचनैतत पृच्छामि किं ते सख्यं सुधन्वना
MBh 5.35.19
न मे सुधन्वना सख्यं पराणयॊर विपणावहे परह्राद तत तवाम ऋप्च्छामि मा परश्नम अनृतं वदीः
MBh 5.35.20
[परह] उदकं मधुपर्कं चाप्य आनयन्तु सुधन्वने बरह्मन्न अभ्यर्चनीयॊ ऽसि शवेता गौः पीवरी कृता
MBh 5.35.21
उदकं मधुपर्कं च पथ एवार्पितं मम परह्राद तवं तु नौ परश्नं तथ्यं परब्रूहि पृच्छतॊः
MBh 5.35.22
[परह] पुर्तॊ वान्यॊ भवान बरह्मन साक्ष्ये चैव भवेत सथितः तयॊर विवदतॊः परश्नं कथम अस्मद विभॊ वदेत
MBh 5.35.23
अथ यॊ नैव परब्रूयात सत्यं वा यदि वानृतम एतत सुधन्वन पृच्छामि दुर्विवक्ता सम किं वसेत
MBh 5.35.24
यां रात्रिम अधिविन्ना सत्री यां चैवाक्ष पराजितः यां च भाराभितप्ताङ्गॊ दुर्विवक्ता सम तां वसेत
MBh 5.35.25
नगरे परतिरुद्धः सन बहिर दवारे बुभुक्षितः अमित्रान भूयसः पश्यन दुर्विवक्ता सम तां वसेत
MBh 5.35.26
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते शतम अश्वानृते हन्ति सहस्रं पुरुषानृते
MBh 5.35.27
हन्ति जातान अजातांश च हिरण्यार्थॊ ऽनृतं वदन सर्वं भूम्यनृते हन्ति मा सम भूम्यनृतं वदीः
MBh 5.35.28
[परह] मत्तः शरेयान अङ्गिरा वै सुधन्वा तवद विरॊचन मातास्य शरेयसी मातुस तस्मात तवं तेन वै जितः
MBh 5.35.29
विरॊचन सुधन्वायं पराणानाम ईश्वरस तव सुधन्वन पुनर इच्छामि तवया दत्तं विरॊचनम
MBh 5.35.30
यद धर्मम अवृणीथास तवं न कामाद अनृतं वदीः पुनर ददामि ते तस्मात पुत्रं परह्राद दुर्लभम
MBh 5.35.31
एष परह्राद पुत्रस ते मया दत्तॊ विरॊचनः पादप्रक्षालनं कुर्यात कुमार्याः संनिधौ मम
MBh 5.35.32
तस्माद राजेन्द्र भूम्यर्थे नानृतं वक्तुम अर्हसि मा गमः स सुतामात्यॊ ऽतययं पुत्रान अनुभ्रमन
MBh 5.35.33
न देवा यष्टिम आदाय रक्षन्ति पशुपालवत यं तु रक्षितुम इच्छन्ति बुद्ध्या संविभजन्ति तम
MBh 5.35.34
यथा यथा हि पुरुषः कल्याणे कुरुते मनः तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः
MBh 5.35.35
न छन्दांसि वृजिनात तारयन्ति; आयाविनं मायया वर्तमानम नीडं शकुन्ता इव जातपक्षाश; छन्दांस्य एनं परजहत्य अन्तकाले
MBh 5.35.36
मत्तापानं कलहं पूगवैरं; भार्यापत्यॊर अन्तरं जञातिभेदम राजद्विष्टं सत्रीपुमांसॊर विवादं; वर्ज्यान्य आहुर यश च पन्थाः परदुष्ठः
MBh 5.35.37
सामुद्रिकं वणिजं चॊरपूर्वं; शलाक धूर्तं च चिकित्सकं च अरिं च मित्रं च कुशीलवं च; नैतान साख्येष्व अधिकुर्वीत सप्त
MBh 5.35.38
मानाग्निहॊत्रम उत मानमौनं; मानेनाधीतम उत मानयज्ञः एतानि चत्वार्य अभयंकराणि; भयं परयच्छन्त्य अयथा कृतानि
MBh 5.35.39
अगार दाही गरदः कुण्डाशी सॊमविक्रयी पर्व कारश च सूची च मित्र धरुक पारदारिकः
MBh 5.35.40
भरूणहा गुरु तल्पी च यश च सयात पानपॊ दविजः अतितीक्ष्णश च काकश च नास्तिकॊ वेद निन्दकः
MBh 5.35.41
सरुव परग्रहणॊ वरात्यः कीनाशश चार्थवान अपि रक्षेत्य उक्तश च यॊ हिंस्यात सर्वे बरह्मण्हणैः समाः
MBh 5.35.42
तृणॊक्लया जञायते जातरूपं; युगे भद्रॊ वयवहारेण साधुः शूरॊ भयेष्व अर्थकृच्छ्रेषु धीरः; कृच्छ्रास्व आपत्सु सुहृदश चारयश च
MBh 5.35.43
जरा रूपं हरति हि धैर्यम आशा; मृत्युः पराणान धर्मचर्याम असूया करॊधः शरियं शीलम अनार्य सेवा; हरियं कामः सर्वम एवाभिमानः
MBh 5.35.44
शरीर मङ्गलात परभवति परागल्भ्यात संप्रवर्धते दाक्ष्यात तु कुरुते मूलं संयमात परतितिष्ठति
MBh 5.35.45
अष्टौ गुणाः पुरुषं दीपयन्ति; परज्ञा च कौल्यं च दमः शरुतं च पराक्रमश चाबहु भाषिता च; दानं यथाशक्ति कृतज्ञता च
MBh 5.35.46
एतान गुणांस तात महानुभावान; एकॊ गुणः संश्रयते परसह्य राजा यदा सत्कुरुते मनुष्यं; सर्वान गुणान एष गुणॊ ऽतिभाति
MBh 5.35.47
अष्टौ नृपेमानि मनुष्यलॊके; सवर्गस्य लॊकस्य निदर्शनानि चत्वार्य एषाम अन्ववेतानि सद्भिश; चत्वार्य एषाम अन्ववयन्ति सन्तः
MBh 5.35.48
यज्ञॊ दानम अध्ययनं तपश च; चत्वार्य एतान्य अन्ववेतानि सद्भिः दमः सत्यम आर्जवम आनृशंस्यं; चत्वार्य एतान्य अन्ववयन्ति सन्तः
MBh 5.35.49
न सा सभा यत्र न सन्ति वृद्धा; न ते वृद्धा ये न वदन्ति धर्मम नासौ हर्मॊ यतन सत्यम अस्ति; न तत सत्यं यच छलेनानुविद्धम
MBh 5.35.50
सत्यं रूपं शरुतं विद्या कौल्यं शीलं बलं धनम शौर्यं च चिरभाष्यं च दशः संसर्गयॊनयः
MBh 5.35.51
पापं कुर्वन पापकीर्तिः पापम एवाश्नुते फलम पुण्यं कुर्वन पुण्यकीर्तिः पुण्यम एवाश्नुते फलम
MBh 5.35.52
पापं परज्ञां नाशयति करियमाणं पुनः पुनः नष्टप्रज्ञः पापम एव नित्यम आरभते नरः
MBh 5.35.53
पुण्यं परज्ञां वर्धयति करियमाणं पुनः पुनः वृद्धप्रज्ञः पुण्यम एव नित्यम आरभते नरः
MBh 5.35.54
असूयकॊ दन्द शूकॊ निष्ठुरॊ वैरकृन नरः स कृच्छ्रं महद आप्नॊतॊ नचिरात पापम आचरन
MBh 5.35.55
अनसूयः कृतप्रज्ञ्टः शॊभनान्य आचरन सदा अकृच्छ्रात सुखम आप्नॊति सर्वत्र च विराजते
MBh 5.35.56
परज्ञाम एवागमयति यः पराज्ञेभ्यः स पण्डितः पराज्ञॊ हय अवाप्य धर्मार्थौ शक्नॊति सुखम एधितुम
MBh 5.35.57
दिवसेनैव तत कुर्याद येन रातौ सुखं वसेत अष्ट मासेन तत कुर्याद येन वर्षाः सुखं वसेत
MBh 5.35.58
पूर्वे वयसि तत कुर्याद येन वृद्धसुखं वसेत यावज जीवेन तत कुर्याद येन परेत्य सुखं वसेत
MBh 5.35.59
जीर्णम अन्नं परशंसन्ति भार्यं च गतयौवनाम शूरं विगतसंग्रामं गतपारं तपस्विनम
MBh 5.35.60
धनेनाधर्मलब्धेन यच छिद्रम अपिधीयते असंवृतं तद भवति ततॊ ऽनयद अवदीर्यते
MBh 5.35.61
गुरुर आत्मवतां शास्ता शासा राजा दुरात्मनाम अथ परच्छन्नपापानां शास्ता वैवस्वतॊ यमः
MBh 5.35.62
ऋषीणां च नदीनां च कुलानां च महामनाम परभवॊ नाधिगन्तव्यः सत्रीणां दुश्चरितस्य च
MBh 5.35.63
दविजातिपूजाभिरतॊ दाता जञातिषु चार्जवी कषत्रियः सवर्गभाग राजंश चिरं पालयते महीम
MBh 5.35.64
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास तरयः शूरश च कृतविद्यश च यश च जानाति सेवितुम
MBh 5.35.65
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत तानि जङ्घा जघन्यानि भारप्रत्यवराणि च
MBh 5.35.66
दुर्यॊधने च शकुनौ मूढे दुःशासने तथा कर्णे चैश्वर्यम आधाय कथं तवं भूतिम इच्छसि
MBh 5.35.67
सर्वैर गुणैर उपेताश च पाण्डवा भरतर्षभ पितृवत तवयि वर्तन्ते तेषु वर्तस्व पुत्रवत

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷