🪷 Mahābhārata · Udyoga-Parva · Chapter 25

The Book of the Effort · Parva 5 · 15 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 15 Shlokas

MBh 5.25.1
युधिष्ठिर उवाच समागताः पाण्डवाः सृञ्जयाश्च; जनार्दनो युयुधानो विराटः यत्ते वाक्यं धृतराष्ट्रानुशिष्टं; गावल्गणे ब्रूहि तत्सूतपुत्र
MBh 5.25.2
संजय उवाच अजातशत्रुं च वृकोदरं च; धनंजयं माद्रवतीसुतौ च आमन्त्रये वासुदेवं च शौरिं; युयुधानं चेकितानं विराटम्
MBh 5.25.3
पाञ्चालानामधिपं चैव वृद्धं; धृष्टद्युम्नं पार्षतं याज्ञसेनिम् सर्वे वाचं शृणुतेमां मदीयां; वक्ष्यामि यां भूतिमिच्छन्कुरूणाम्
MBh 5.25.4
शमं राजा धृतराष्ट्रोऽभिनन्द;न्नयोजयत्त्वरमाणो रथं मे सभ्रातृपुत्रस्वजनस्य राज्ञ;स्तद्रोचतां पाण्डवानां शमोऽस्तु
MBh 5.25.5
सर्वैर्धर्मैः समुपेताः स्थ पार्थाः; प्रस्थानेन मार्दवेनार्जवेन जाताः कुले अनृशंसा वदान्या; ह्रीनिषेधाः कर्मणां निश्चयज्ञाः
MBh 5.25.6
न युज्यते कर्म युष्मासु हीनं; सत्त्वं हि वस्तादृशं भीमसेनाः उद्भासते ह्यञ्जनबिन्दुवत्त;च्छुक्ले वस्त्रे यद्भवेत्किल्बिषं वः
MBh 5.25.7
सर्वक्षयो दृश्यते यत्र कृत्स्नः; पापोदयो निरयोऽभावसंस्थः कस्तत्कुर्याज्जातु कर्म प्रजान;न्पराजयो यत्र समो जयश्च
MBh 5.25.8
ते वै धन्या यैः कृतं ज्ञातिकार्यं; ये वः पुत्राः सुहृदो बान्धवाश्च उपक्रुष्टं जीवितं संत्यजेयु;स्ततः कुरूणां नियतो वै भवः स्यात्
MBh 5.25.9
ते चेत्कुरूननुशास्य स्थ पार्था; निनीय सर्वान्द्विषतो निगृह्य समं वस्तज्जीवितं मृत्युना स्या;द्यज्जीवध्वं ज्ञातिवधे न साधु
MBh 5.25.10
को ह्येव युष्मान्सह केशवेन; सचेकितानान्पार्षतबाहुगुप्तान् ससात्यकीन्विषहेत प्रजेतुं; लब्ध्वापि देवान्सचिवान्सहेन्द्रान्
MBh 5.25.11
को वा कुरून्द्रोणभीष्माभिगुप्ता;नश्वत्थाम्ना शल्यकृपादिभिश्च रणे प्रसोढुं विषहेत राज;न्राधेयगुप्तान्सह भूमिपालैः
MBh 5.25.12
महद्बलं धार्तराष्ट्रस्य राज्ञः; को वै शक्तो हन्तुमक्षीयमाणः सोऽहं जये चैव पराजये च; निःश्रेयसं नाधिगच्छामि किंचित्
MBh 5.25.13
कथं हि नीचा इव दौष्कुलेया; निर्धर्मार्थं कर्म कुर्युश्च पार्थाः सोऽहं प्रसाद्य प्रणतो वासुदेवं; पाञ्चालानामधिपं चैव वृद्धम्
MBh 5.25.14
कृताञ्जलिः शरणं वः प्रपद्ये; कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् न ह्येव ते वचनं वासुदेवो; धनंजयो वा जातु किंचिन्न कुर्यात्
MBh 5.25.15
प्राणानादौ याच्यमानः कुतोऽन्य;देतद्विद्वन्साधनार्थं ब्रवीमि एतद्राज्ञो भीष्मपुरोगमस्य; मतं यद्वः शान्तिरिहोत्तमा स्यात्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 15 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.25local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷