🪷 Mahābhārata · Udyoga-Parva · Chapter 24
The Book of the Effort · Parva 5 · 10 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 10 Shlokas
MBh 5.24.1
[सम्जय]
यथार्हसे पाण्डव तत तथैव; कुरून कुरुश्रेष्ठ जनं च पृच्छसि
अनामयास तात मनस्विनस ते; कुरुश्रेष्ठान पृच्छसि पार्थ यांस तवम
MBh 5.24.2
सन्त्य एव वृद्धाः साधवॊ धार्तराष्ट्रे; सन्त्य एव पापाः पाण्डव तस्य विद्धि
दद्याद रिपॊश चापि हि धार्तराष्ट्रः; कुतॊ दायाँल लॊपयेद बराह्मणानाम
MBh 5.24.3
यद युष्माकं वर्तते ऽसौ न धर्म्यम; अद्रुग्धेषु दरुग्धवत तन न साधु
मित्र धरुक सयाद धृतराष्ट्रः सपुत्रॊ; युष्मान दविषन साधु वृतान असाधुः
MBh 5.24.4
न चानुजानाति भृशं च तप्यते; शॊचत्य अन्तः सथविरॊ ऽजातशत्रॊ
शृणॊति हि बराह्मणानां समेत्य; मित्रद्रॊहः पातकेभ्यॊ गरीयान
MBh 5.24.5
समरन्ति तुभ्यं नरदेवं संगमे; युद्धे च जिष्णॊश च युधां परणेतुः
समुत्कृष्टे दुन्दुभिशङ्खशब्दे; गदापाणिं भीमसेनं समरन्ति
MBh 5.24.6
माद्री सुतौ चापि रणाजिमध्ये; सर्वा दिशः संपतन्तौ समरन्ति
सेनां वर्षन्तौ शरवर्षैर अजस्रं; महारथौ समरे दुष्प्रकम्प्यौ
MBh 5.24.7
न तव एव मन्ये पुरुषस्य राजन्न; अनागतं जञायते यद भविष्यम
तवं चेद इमं सर्वधर्मॊपपन्नः; पराप्तः कलेशं पाण्डव कृच्छ्ररूपम
MBh 5.24.8
तवम एवैतत सर्वम अतश च भूयः; समीकुर्याः परज्ञयाजात शत्रॊ
न कामार्थं संत्यजेयुर हि धर्मं; पाण्डॊः सुताः सर्व एवेन्द्र कल्पाः
MBh 5.24.9
तवम एवैतत परज्ञयाजात शत्रॊ; शमं कुर्या येन शर्माप्नुयुस ते
धार्तराष्ट्राः पाण्डवाः सृञ्जयाश च; ये चाप्य अन्ये पार्थिवाः संनिविष्टाः
MBh 5.24.10
यन माब्रवीद धृतराष्ट्रॊ निशायाम; अजातशत्रॊ वचनं पिता ते
सहामात्यः सह पुत्रश च राजन; समेत्य तां वाचम इमां निबॊध
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 23
- Next chapter · Udyoga-Parva Ch 25 →
🪷 जय व्यास भगवान् 🪷