🪷 Mahābhārata · Udyoga-Parva · Chapter 181
The Book of the Effort · Parva 5 · 36 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 36 Shlokas
MBh 5.181.1
भीष्म उवाच
आत्मनस्तु ततः सूतो हयानां च विशां पते
मम चापनयामास शल्यान्कुशलसंमतः
MBh 5.181.2
स्नातोपवृत्तैस्तुरगैर्लब्धतोयैरविह्वलैः
प्रभात उदिते सूर्ये ततो युद्धमवर्तत
MBh 5.181.3
दृष्ट्वा मां तूर्णमायान्तं दंशितं स्यन्दने स्थितम्
अकरोद्रथमत्यर्थं रामः सज्जं प्रतापवान्
MBh 5.181.4
ततोऽहं राममायान्तं दृष्ट्वा समरकाङ्क्षिणम्
धनुःश्रेष्ठं समुत्सृज्य सहसावतरं रथात्
MBh 5.181.5
अभिवाद्य तथैवाहं रथमारुह्य भारत
युयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभीः स्थितः
MBh 5.181.6
ततो मां शरवर्षेण महता समवाकिरत्
अहं च शरवर्षेण वर्षन्तं समवाकिरम्
MBh 5.181.7
संक्रुद्धो जामदग्न्यस्तु पुनरेव पतत्रिणः
प्रेषयामास मे राजन्दीप्तास्यानुरगानिव
MBh 5.181.8
तानहं निशितैर्भल्लैः शतशोऽथ सहस्रशः
अच्छिदं सहसा राजन्नन्तरिक्षे पुनः पुनः
MBh 5.181.9
ततस्त्वस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान्
मयि प्रचोदयामास तान्यहं प्रत्यषेधयम्
MBh 5.181.10
अस्त्रैरेव महाबाहो चिकीर्षन्नधिकां क्रियाम्
ततो दिवि महान्नादः प्रादुरासीत्समन्ततः
MBh 5.181.11
ततोऽहमस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान्
प्रत्याजघ्ने च तद्रामो गुह्यकास्त्रेण भारत
MBh 5.181.12
ततोऽस्त्रमहमाग्नेयमनुमन्त्र्य प्रयुक्तवान्
वारुणेनैव रामस्तद्वारयामास मे विभुः
MBh 5.181.13
एवमस्त्राणि दिव्यानि रामस्याहमवारयम्
रामश्च मम तेजस्वी दिव्यास्त्रविदरिंदमः
MBh 5.181.14
ततो मां सव्यतो राजन्रामः कुर्वन्द्विजोत्तमः
उरस्यविध्यत्संक्रुद्धो जामदग्न्यो महाबलः
MBh 5.181.15
ततोऽहं भरतश्रेष्ठ संन्यषीदं रथोत्तमे
अथ मां कश्मलाविष्टं सूतस्तूर्णमपावहत्
गोरुतं भरतश्रेष्ठ रामबाणप्रपीडितम्
MBh 5.181.16
ततो मामपयातं वै भृशं विद्धमचेतसम्
रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा प्रचुक्रुशुः
अकृतव्रणप्रभृतयः काशिकन्या च भारत
MBh 5.181.17
ततस्तु लब्धसंज्ञोऽहं ज्ञात्वा सूतमथाब्रुवम्
याहि सूत यतो रामः सज्जोऽहं गतवेदनः
MBh 5.181.18
ततो मामवहत्सूतो हयैः परमशोभितैः
नृत्यद्भिरिव कौरव्य मारुतप्रतिमैर्गतौ
MBh 5.181.19
ततोऽहं राममासाद्य बाणजालेन कौरव
अवाकिरं सुसंरब्धः संरब्धं विजिगीषया
MBh 5.181.20
तानापतत एवासौ रामो बाणानजिह्मगान्
बाणैरेवाच्छिनत्तूर्णमेकैकं त्रिभिराहवे
MBh 5.181.21
ततस्ते मृदिताः सर्वे मम बाणाः सुसंशिताः
रामबाणैर्द्विधा छिन्नाः शतशोऽथ महाहवे
MBh 5.181.22
ततः पुनः शरं दीप्तं सुप्रभं कालसंमितम्
असृजं जामदग्न्याय रामायाहं जिघांसया
MBh 5.181.23
तेन त्वभिहतो गाढं बाणच्छेदवशं गतः
मुमोह सहसा रामो भूमौ च निपपात ह
MBh 5.181.24
ततो हाहाकृतं सर्वं रामे भूतलमाश्रिते
जगद्भारत संविग्नं यथार्कपतनेऽभवत्
MBh 5.181.25
तत एनं सुसंविग्नाः सर्व एवाभिदुद्रुवुः
तपोधनास्ते सहसा काश्या च भृगुनन्दनम्
MBh 5.181.26
त एनं संपरिष्वज्य शनैराश्वासयंस्तदा
पाणिभिर्जलशीतैश्च जयाशीर्भिश्च कौरव
MBh 5.181.27
ततः स विह्वलो वाक्यं राम उत्थाय माब्रवीत्
तिष्ठ भीष्म हतोऽसीति बाणं संधाय कार्मुके
MBh 5.181.28
स मुक्तो न्यपतत्तूर्णं पार्श्वे सव्ये महाहवे
येनाहं भृशसंविग्नो व्याघूर्णित इव द्रुमः
MBh 5.181.29
हत्वा हयांस्ततो राजञ्शीघ्रास्त्रेण महाहवे
अवाकिरन्मां विश्रब्धो बाणैस्तैर्लोमवाहिभिः
MBh 5.181.30
ततोऽहमपि शीघ्रास्त्रं समरेऽप्रतिवारणम्
अवासृजं महाबाहो तेऽन्तराधिष्ठिताः शराः
रामस्य मम चैवाशु व्योमावृत्य समन्ततः
MBh 5.181.31
न स्म सूर्यः प्रतपति शरजालसमावृतः
मातरिश्वान्तरे तस्मिन्मेघरुद्ध इवानदत्
MBh 5.181.32
ततो वायोः प्रकम्पाच्च सूर्यस्य च मरीचिभिः
अभितापात्स्वभावाच्च पावकः समजायत
MBh 5.181.33
ते शराः स्वसमुत्थेन प्रदीप्ताश्चित्रभानुना
भूमौ सर्वे तदा राजन्भस्मभूताः प्रपेदिरे
MBh 5.181.34
तदा शतसहस्राणि प्रयुतान्यर्बुदानि च
अयुतान्यथ खर्वाणि निखर्वाणि च कौरव
रामः शराणां संक्रुद्धो मयि तूर्णमपातयत्
MBh 5.181.35
ततोऽहं तानपि रणे शरैराशीविषोपमैः
संछिद्य भूमौ नृपतेऽपातयं पन्नगानिव
MBh 5.181.36
एवं तदभवद्युद्धं तदा भरतसत्तम
संध्याकाले व्यतीते तु व्यपायात्स च मे गुरुः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 180
- Next chapter · Udyoga-Parva Ch 182 →
Sources and Connected Readings
Continue from these 36 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 5.181local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷