🪷 Mahābhārata · Udyoga-Parva · Chapter 180
The Book of the Effort · Parva 5 · 39 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 39 Shlokas
MBh 5.180.1
भीष्म उवाच
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम्
भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः
MBh 5.180.2
आरोह स्यन्दनं वीर कवचं च महाभुज
बधान समरे राम यदि योद्धुं मयेच्छसि
MBh 5.180.3
ततो मामब्रवीद्रामः स्मयमानो रणाजिरे
रथो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत्
MBh 5.180.4
सूतो मे मातरिश्वा वै कवचं वेदमातरः
सुसंवीतो रणे ताभिर्योत्स्येऽहं कुरुनन्दन
MBh 5.180.5
एवं ब्रुवाणो गान्धारे रामो मां सत्यविक्रमः
शरव्रातेन महता सर्वतः पर्यवारयत्
MBh 5.180.6
ततोऽपश्यं जामदग्न्यं रथे दिव्ये व्यवस्थितम्
सर्वायुधधरे श्रीमत्यद्भुतोपमदर्शने
MBh 5.180.7
मनसा विहिते पुण्ये विस्तीर्णे नगरोपमे
दिव्याश्वयुजि संनद्धे काञ्चनेन विभूषिते
MBh 5.180.8
ध्वजेन च महाबाहो सोमालंकृतलक्ष्मणा
धनुर्धरो बद्धतूणो बद्धगोधाङ्गुलित्रवान्
MBh 5.180.9
सारथ्यं कृतवांस्तत्र युयुत्सोरकृतव्रणः
सखा वेदविदत्यन्तं दयितो भार्गवस्य ह
MBh 5.180.10
आह्वयानः स मां युद्धे मनो हर्षयतीव मे
पुनः पुनरभिक्रोशन्नभियाहीति भार्गवः
MBh 5.180.11
तमादित्यमिवोद्यन्तमनाधृष्यं महाबलम्
क्षत्रियान्तकरं राममेकमेकः समासदम्
MBh 5.180.12
ततोऽहं बाणपातेषु त्रिषु वाहान्निगृह्य वै
अवतीर्य धनुर्न्यस्य पदातिरृषिसत्तमम्
MBh 5.180.13
अभ्यगच्छं तदा राममर्चिष्यन्द्विजसत्तमम्
अभिवाद्य चैनं विधिवदब्रुवं वाक्यमुत्तमम्
MBh 5.180.14
योत्स्ये त्वया रणे राम विशिष्टेनाधिकेन च
गुरुणा धर्मशीलेन जयमाशास्स्व मे विभो
MBh 5.180.15
राम उवाच
एवमेतत्कुरुश्रेष्ठ कर्तव्यं भूतिमिच्छता
धर्मो ह्येष महाबाहो विशिष्टैः सह युध्यताम्
MBh 5.180.16
शपेयं त्वां न चेदेवमागच्छेथा विशां पते
युध्यस्व त्वं रणे यत्तो धैर्यमालम्ब्य कौरव
MBh 5.180.17
न तु ते जयमाशासे त्वां हि जेतुमहं स्थितः
गच्छ युध्यस्व धर्मेण प्रीतोऽस्मि चरितेन ते
MBh 5.180.18
भीष्म उवाच
ततोऽहं तं नमस्कृत्य रथमारुह्य सत्वरः
प्राध्मापयं रणे शङ्खं पुनर्हेमविभूषितम्
MBh 5.180.19
ततो युद्धं समभवन्मम तस्य च भारत
दिवसान्सुबहून्राजन्परस्परजिगीषया
MBh 5.180.20
स मे तस्मिन्रणे पूर्वं प्राहरत्कङ्कपत्रिभिः
षष्ट्या शतैश्च नवभिः शराणामग्निवर्चसाम्
MBh 5.180.21
चत्वारस्तेन मे वाहाः सूतश्चैव विशां पते
प्रतिरुद्धास्तथैवाहं समरे दंशितः स्थितः
MBh 5.180.22
नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यश्च भारत
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम्
MBh 5.180.23
आचार्यता मानिता मे निर्मर्यादे ह्यपि त्वयि
भूयस्तु शृणु मे ब्रह्मन्संपदं धर्मसंग्रहे
MBh 5.180.24
ये ते वेदाः शरीरस्था ब्राह्मण्यं यच्च ते महत्
तपश्च सुमहत्तप्तं न तेभ्यः प्रहराम्यहम्
MBh 5.180.25
प्रहरे क्षत्रधर्मस्य यं त्वं राम समास्थितः
ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात्
MBh 5.180.26
पश्य मे धनुषो वीर्यं पश्य बाह्वोर्बलं च मे
एष ते कार्मुकं वीर द्विधा कुर्मि ससायकम्
MBh 5.180.27
तस्याहं निशितं भल्लं प्राहिण्वं भरतर्षभ
तेनास्य धनुषः कोटिश्छिन्ना भूमिमथागमत्
MBh 5.180.28
नव चापि पृषत्कानां शतानि नतपर्वणाम्
प्राहिण्वं कङ्कपत्राणां जामदग्न्यरथं प्रति
MBh 5.180.29
काये विषक्तास्तु तदा वायुनाभिसमीरिताः
चेलुः क्षरन्तो रुधिरं नागा इव च ते शराः
MBh 5.180.30
क्षतजोक्षितसर्वाङ्गः क्षरन्स रुधिरं व्रणैः
बभौ रामस्तदा राजन्मेरुर्धातूनिवोत्सृजन्
MBh 5.180.31
हेमन्तान्तेऽशोक इव रक्तस्तबकमण्डितः
बभौ रामस्तदा राजन्क्वचित्किंशुकसंनिभः
MBh 5.180.32
ततोऽन्यद्धनुरादाय रामः क्रोधसमन्वितः
हेमपुङ्खान्सुनिशिताञ्शरांस्तान्हि ववर्ष सः
MBh 5.180.33
ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः
अकम्पयन्महावेगाः सर्पानलविषोपमाः
MBh 5.180.34
ततोऽहं समवष्टभ्य पुनरात्मानमाहवे
शतसंख्यैः शरैः क्रुद्धस्तदा राममवाकिरम्
MBh 5.180.35
स तैरग्न्यर्कसंकाशैः शरैराशीविषोपमैः
शितैरभ्यर्दितो रामो मन्दचेता इवाभवत्
MBh 5.180.36
ततोऽहं कृपयाविष्टो विनिन्द्यात्मानमात्मना
धिग्धिगित्यब्रुवं युद्धं क्षत्रं च भरतर्षभ
MBh 5.180.37
असकृच्चाब्रुवं राजञ्शोकवेगपरिप्लुतः
अहो बत कृतं पापं मयेदं क्षत्रकर्मणा
MBh 5.180.38
गुरुर्द्विजातिर्धर्मात्मा यदेवं पीडितः शरैः
ततो न प्राहरं भूयो जामदग्न्याय भारत
MBh 5.180.39
अथावताप्य पृथिवीं पूषा दिवससंक्षये
जगामास्तं सहस्रांशुस्ततो युद्धमुपारमत्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 179
- Next chapter · Udyoga-Parva Ch 181 →
Sources and Connected Readings
Continue from these 39 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 5.180local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷