🪷 Mahābhārata · Udyoga-Parva · Chapter 161
The Book of the Effort · Parva 5 · 12 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 12 Shlokas
MBh 5.161.1
[स]
उलूकस्य वचः शरुत्वा कुन्तीपुत्रॊ युधिष्ठिरः
सेनां निर्यापयाम आस धृष्टद्युम्नपुरॊगमाम
MBh 5.161.2
पदातिनीं नागवतीं रथिनीम अश्ववृन्दिनीम
चतुर्विध बलां भीमाम अकम्प्यां पृथिवीम इव
MBh 5.161.3
भीमसेनादिभिर गुप्तां सार्जुनैश च महारथैः
धृष्टद्युम्न वशां दुर्गां सागरस्तिमितॊपमाम
MBh 5.161.4
तस्यास तव अग्रे महेष्वासः पाञ्चाल्यॊ युद्धदुर्मदः
दरॊण परेप्सुर अनीकानि धृष्टद्युम्नः परकर्षति
MBh 5.161.5
यथाबलं यथॊत्साहं रथिनः समुपादिशत
अर्जुनं सूतपुत्राय भीमं दुर्यॊधनाय च
MBh 5.161.6
अश्वत्थाम्ने च नकुलं शैब्यं च कृतवर्मणे
सैन्धवाय च वार्ष्णेयं युयुधानम उपादिशत
MBh 5.161.7
शिखण्डिनं च भीष्माय परमुखे समकल्पयत
सहदेवं शकुनये चेकितानं शलाय च
MBh 5.161.8
धृष्टकेतुं च शल्याय गौतमायॊत्तमौजसम
दरौपदेयांश च पञ्चभ्यस तरिगर्तेभ्यः समादिशत
MBh 5.161.9
वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम
समर्थं तं हि मेने वै पार्थाद अभ्यधिकं रणे
MBh 5.161.10
एवं विभज्य यॊधांस तान पृथक च सह चैव ह
जवाला वर्णॊ महेष्वासॊ दरॊणम अंशम अकल्पयत
MBh 5.161.11
धृष्टद्युम्नॊ महेष्वासः सेनापतिपतिस ततः
विधिवद वयूढ्य मेधावी युद्धाय धृतमानसः
MBh 5.161.12
यथादिष्टान्य अनीकानि पाण्डवानाम अयॊजयत
जयाय पाण्डुपुत्राणां यत्तस तस्थौ रणाजिरे
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 160
- Next chapter · Udyoga-Parva Ch 162 →
🪷 जय व्यास भगवान् 🪷